गीता
कुशलाकुशलकर्मणां स्वरूपम्
गीता
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ।
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ।। १० ।।
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ।। ११ ।।
तात्पर्यम्
‘न द्वेष्ट्यकुशलं कर्म केवलं दृष्टदुःखदम् ।
जन्मान्तरकृते पुण्ये न सज्जेत् सात्त्विकश्चले ।
यः सम्यक् तत्त्वविद् विष्णोस्तदर्पणधियैव तु ।
फलेच्छावर्जितस्तस्य कर्मबन्धाय नो भवेत् ।
बहुलं चेदल्पदोषं यावदेवापरोक्षदृक्’ इति च ।। १०,११ ।।
प्रकाशिका
न द्वेष्टीत्यादेरर्थमाह ।। नद्वेष्टीत्यादिना ।। १०११ ।।
न्यायदीपिका
सात्विकत्यागी पुनर्निरूप्यते ।। न द्वेष्टीति ।। तत्र कथं सात्विकत्यागिनो कुशलकर्माद्वेषः कुशलकर्मासङ्गश्चोच्यते । कार्यमित्येवेत्युक्तिविरोधादित्यतः प्रमाणान्तरेण तद्व्याचष्टे ।। नद्वेष्टीति ।। पुण्य इति तत्फल इति यावत् । तमेव स्तौति ।। य इति ।। सम्यगित्यनेन मेधावीत्याद्युक्तार्थं भवति । तदर्पणेनेत्यनेन त्यागीत्युक्तार्थं स्यात् । तस्येत्यनेनानिष्टमित्यस्य तात्पर्यमुक्तं भवति । किं तस्य सर्वथा बन्धकं कर्म न बन्धाय भवतीत्यत आह ।। बहुलं चेदिति ।। बहुलं चेत्सर्वत्यागिनामप्यत्यल्पदोषकरं कियत्पर्यन्तमित्यत आह ।। यावदिति ।। १०,११ ।।
किरणावली
पुनर्निरूप्यत इति कार्यमित्येवेत्यत्र सात्विकत्यागस्वरूपस्योक्तत्वात्सत्यागीमतोज्ञानिसंमत इति स्तुतत्वाच्च पुनर्निरूप्यते । पुनर्निरूपणपूर्वकं स्तूयत इत्यर्थः ।। कार्यमित्येवेत्युक्तिविरोधादिति ।। तत्र नियतं विहितं कुशलमेव कुरुते नाकुशलमित्यकुशलकर्मप्रहाणकुशलकर्मसङ्गयोरुक्तत्वादिति भावः ।। प्रमाणान्तरेणेति ।। शब्दनिर्णय इति पूर्वमुक्तत्वात् । नद्वेष्ट्यकुशलं कर्मेत्यादिवाक्यमुदाहृत्य इति चेत्युक्ते इति च शब्दनिर्णये इत्यर्थप्रतीतेस्तद्वारणाय प्रमाणान्तरेणेत्युक्तम् । एवमेवोत्तरत्रापि द्रष्टव्यम् । यद्वा गीतायाः समाख्यारूपेण प्रमाणान्तरेणेत्यर्थः । एतत्प्रमाणसदृशं प्रमाणं प्रमाणान्तरमित्यर्थाङ्गीकारात् । जन्मान्तरकृते पुण्ये इदानीं स्नेहलक्षणसङ्गस्य युक्तत्वादित्यतो व्याचष्टे ।। तत्फले इति यावदिति ।। जन्मान्तरकृतपुण्यफले इदानीमनुभूयमाने न सज्जेत् गुणसंप्रीतिं न कुर्यात् संगस्तु गुणसंप्रीतिरिति वचनादिति भावः ।। तमेवेति ।। निरूपितं सात्विकत्यागिनमित्यर्थः ।। मेधावीत्याद्युक्तार्थमिति ।। सम्यगित्यनेन छिन्नसंशय इत्यस्य तत्वविदित्यनेन मेधावीत्यस्य लाभादिति भावः ।। तदर्पणधियेत्यनेनेति ।। तदर्पणधिया फलेच्छारहित इत्यनेनेत्यर्थः । नाहं कर्ता तत्पूजाकर्मचाखिलम् । तथापि मत्कृता पूजा त्वत्प्रसादेन नान्यथा । तद्भक्तिस्तत्फलं मह्यं तत्प्रसादः पुनः पुनरित्यर्पणाप्रकारमुक्त्वा कर्मन्यासो हरावेवमिति तस्य त्यागत्वेनोक्तत्वात् । किंच कर्मत्याग एव त्यागः किं न स्यादित्याशङ्कापरिहाराय प्रवृत्ते न हि देहभृता शक्यमित्युत्तरश्लोके यस्तु कर्मफलत्यागी सत्यागीत्यभिधीयत इति पूर्वश्लोकोक्तस्य त्यागीत्यस्य व्याख्यानाच्चेति भावः । नद्वेष्टीति तात्पर्यवाक्यस्य यो विष्णोः सम्यक् तत्ववित् । तदर्पणधियैवतु विशिष्टया तदर्पणधियैव फलेच्छारहितश्च सन्केवलं दृष्टदुःखदम् । तात्कालिकमेव दृष्टदुःखत्वादेवाकुशलं निवृत्तं कर्म न द्वेष्टि प्रत्युत महाफलहेतुत्वात्करोति । फलेच्छारहितत्वादेव कुशले जन्मान्तरकृतपुण्यफले नानुरज्यते स सात्विक इत्यन्वयः । तस्येत्युत्तरेण वाऽन्वयः ।। तस्येत्यनेनानिष्टमित्यस्येति ।। सात्विकत्यागस्तुतिपरस्येति पूरणीयम् । तथा च भाष्यम् । त्यागं स्तौति ।। अनिष्टमितीति ।। तस्य त्यागिनः पापं पुण्यं मिश्रमिति त्रिविधं कर्म क्रमेणानिष्टेष्टमिश्रफलसम्बन्धाय नो भवेदित्यनेनानिष्टमित्यस्य तात्पर्यमुक्तं भवतीत्यर्थः । बहुलं चेदित्यस्य सङ्ख्यया जात्याच प्रबलं चेदल्पदोषकरमित्यर्थः । तदुक्तम् ।
यैर्निश्चितं परत्वं तु विष्णोः प्रायो न यातनाम् ।
ब्रह्महत्यादिभिरपि यांत्याधिक्ये चिरं नत्विति ।।
सर्वत्यागिनामिति ।। सर्वेषां त्यागिनामित्यर्थः । यावदेवापरोक्षदृगित्यस्यापरोक्षज्ञाने जातेतु तत्पूर्वस्य बहोरप्यप्रारब्धस्य विनाशेन नाल्पस्यापि दोषस्यावकाश इति भावः ।। १०,११ ।।
भावदीपः
कार्यमित्येवेत्युक्तविरोधादिति ।। तत्र कुशले कर्मण्यनुषङ्गस्योक्तत्वादकुशले फले द्वेषस्य च प्रतीतेरिति भावः ।। किं तस्य सर्वथेति ।। बन्धकं कर्म तस्य सर्वथा सर्वात्मना न बन्धाय भवति किमित्यर्थः । सर्वत्यागिनां सर्वकर्मफलत्यागिनामित्यर्थः ।। १०११ ।।
भावप्रकाशः
कार्यमित्येवेत्युक्तिविरोधादिति । कार्यमित्येवेत्यत्र नियतं क्रियत इत्यनेन कुशलकर्मसंगस्य सङ्गं त्यक्त्वा फलं चेत्यनेनाकुशलकर्मद्वेषस्य च सिद्धत्वादिति भावः ।। १०११ ।।