गीता

गीता

अर्जुन उवाच—

संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।

यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ।। १ ।।

तात्पर्यम्

योगसंन्यासयोर्लक्षणं स्पष्टयत्यनेनाध्यायेन । योगसंन्यस्तकर्माणमित्यादौ न्यासशब्दः सर्वकर्मत्यागविषयः इत्याशङ्क्य योगसंन्यासयोर्भिन्नपुन्निष्ठत्वाभिप्रायेण पृच्छति । संन्यासमिति ।। १ ।।

प्रकाशिका

एतदध्यायप्रतिपाद्यं दर्शयित्वा संन्यासमिति अर्जुनप्रश्नं विवृणोति । योगेति

।। १ ।।

न्यायदीपिका

एतदध्यायप्रतिपाद्यमर्थं दर्शयति ।। योगेति ।। पूर्वं समुच्चितः कर्मयोगो निरूपितः । स च योगसंन्यासभेदेन द्विविधः । द्विविधयोश्च स्वरूपं सङ्क्षेपेण कुरु कर्माणि सङ्गं त्यक्त्वेत्यादावुक्तम् । तदेवानेनाध्यायेन स्पष्टयतीत्यर्थः । प्रश्नवाक्यं साभिप्रायमवतारयति ।। योगेति ।। योगसंन्यस्तकर्माणमित्यादौ पठितो न्यासशब्दो यत्याश्रमविषयो योगमातिष्ठेत्यादौ श्रुतो योगशब्दो गृहस्थाश्रमविषय इति कल्पयित्वा यतीनां सर्वकर्मत्यागेन ज्ञानमात्राधिकारित्वाद्गृहिणां ज्ञानपरित्यागेन कर्ममात्राधिकारित्वात्तयोरेकपुन्निष्ठत्वं न युज्यत इति भावेन योगसंन्यासयोर्मध्ये श्रेयः पृच्छति । उभयस्यापि कर्तव्यतया विहितत्वादेकेनैवानुष्ठातुमशक्यत्वादन्यतरपरित्यागेनान्यतरग्रहणे श्रेयस एव ग्राह्यत्वादिति भावः ।। १ ।।

किरणावली

नन्वत्रयोगसंन्यासयोर्लक्षणं स्पष्टयतीत्यध्यायार्थ उच्यते । भाष्येतु तृतीयाध्यायोक्तं कर्मयोगं प्रपञ्चयत्यनेनाध्यायेनेति । अतो विरोध इत्यत उक्तम् ।। समुच्चित इति ।। कामादिवर्जनेश्वरार्पणबुध्द्या कर्मानुष्ठान लक्षणाङ्गाङ्गिसमुच्चित इत्यर्थः । ततश्च किमित्यत आह ।। सचेति ।। द्विविधो द्व्यंश इत्यर्थः । ननु योगसंन्यासयोःकर्मयोगांशत्वे संन्यासःकर्मयोगश्चनिःश्रेयसकराविति कथमिति चेन्न । तत्र कर्मयोग शब्दस्योपचारेणतदंशयोगपरत्वात् । तथाचैकवाक्यतेति भावः । उक्तं च प्रमेयदीपिकायाम् । फलकामनात्यागेनेश्वरार्पणबुद्ध्या वर्णाश्रमविहितकर्मानुष्ठानमेव कर्मयोगोऽत्र प्रपञ्चते । द्व्यंशश्चायं कर्मयोगः कामादिवर्जनमीश्वरार्पण बुद्ध्या कर्मानुष्ठानं चेति । तत्राद्यं संन्यासशब्दोक्तं द्वितीयमुपचारेण कर्मयोगशब्दोक्तम् । तदभिप्रायेण योगसन्न्यासयो र्लक्षणं स्पष्टयतीत्यन्यत्रोक्तमिति ।। संन्यस्तकर्माणमित्यादौ पठितो न्यासशब्द इति ।। न्यस्तशब्दस्य न्यासलक्षणक्रियायाः कर्मणि निष्पन्नत्वात् । क्रियावाचीन्यासशब्दस्तदन्तर्गत इति भावः । संन्यासयोगशब्दार्थयोर्विरुद्धत्वेन तथा भिन्नपुन्निष्ठत्वाभिप्रायेण प्रश्नश्चेत्परस्परविरोधोपपादनाय स्थानप्रदर्शन पूर्वकं योगशब्दस्यार्थान्तरं वक्तव्यम् । तदभावान्न्यूनतेत्याशङ्क्यमूलमुपलक्षणमित्यभिप्रेत्याह ।। योगमातिष्ठेत्यादाविति ।। आशङ्क्येत्यस्य प्रतिपदं कल्पयित्वेति ।। एकपुन्निष्ठत्वमिति ।। कुरुकर्मैवतस्मात्त्वं सङ्गं त्यक्त्वा धनंजयेत्युक्तमेकपुन्निष्ठत्वमित्यर्थः । नन्वेकपुन्निष्ठत्वाभावेऽन्यतरं कुरु उभयं वा परित्यज । अन्यतरश्रेयः प्रश्नस्त्वयुक्त इत्यत आह ।। उभयस्यापीति ।। १ ।।

भावदीपः

समुच्चित इति ।। दलद्वययुक्तः कर्मयोगः तत्ते कर्म प्रवक्ष्यामीति प्रतिज्ञाय कर्मणो ह्यपीत्यादिना निरूपित इत्यर्थः ।। योगेति ।। भगवदर्पणबुद्ध्या कर्मानुष्ठानं योगः । कामवर्जनं संन्यायसः ।। इत्यादावुक्तमिति ।। ‘‘योगस्थः कुरु कर्माणि’’ इत्यादिना द्वितीयोक्तस्य तृतीयचतुर्थयोः प्रपञ्चनादित्यादावुक्तमित्युक्तम् ।। १ ।।

भावप्रकाशः

तृतीयाध्यायोक्तमेव कर्मयोगं प्रपञ्चयतीति भाष्यं मनसि निधायाह ।। पूर्वं समुच्चित इति ।। तृतीये फलकामनादिपरित्यागेनेश्वरार्पणबुध्या वर्णाश्रमविहितकर्मानुष्टानरूपः कर्मयोगो निरूपित इत्यर्थः । द्व्यंशश्चायं कर्मयोगः ।। कामादिवर्जनमीश्वरार्पणबुध्या कर्मानुष्टानञ्चेति ।। तत्राद्यं संन्यासशब्देन द्वितीयमुपचारेण योगशब्देन गृहीत्वा योगसंन्यासयोरिति मूलं प्रवृत्तमित्यभिप्रेत्य तदनुसारेण विभजति । स च योगसंन्यासभेदेनेति ।। पठितो न्यासशब्द इति । वृत्यन्तर्गतो न्यासशब्द इत्यर्थः । ननु सन्यासशब्दस्य सर्वकर्मत्यागविषयत्वेऽपि योगसंन्यासयोर्भिन्नपुंनिष्टत्वं कुत इत्यत आह । योगमातिष्टेत्यादाविति ।। नन्वेकपुन्निष्टत्वानुपपत्तावुभयपरित्यागो वाऽन्यतरानुष्ठानं वा भवतु इति अन्यतरश्रेयःप्रश्नस्त्वनुपपन्न इत्यत आह । उभयस्यापीति ।। १ ।।

वाक्यविवेकः

पूर्वाध्यायार्थयोर्योगसंन्यासयोः लक्षणप्रपञ्चनं प्रासङ्गिकं अध्यायप्रतिपाद्यार्थस्तु अन्य एवेति शङ्कानिरासाय मूलमवतारयति । एतदध्यायेति । ननु संन्यासयोगयोरुभयोरप्यनुष्टेयत्वात् किं श्रेय इति प्रश्नोऽनुपपन्न इत्याशङ्ककापरिहाराय प्रश्नवाक्याभिप्रायमाह ।। सन्यस्तकर्माणमित्यादाविति । यतीनामिति । सन्यासग्रहाणानन्तरं सर्वकर्मपरित्यागेन ज्ञाननिष्टायाः कर्तव्यत्त्वात् तथा गार्हस्थ्यग्रहणानन्तरं ज्ञानमार्गपरित्यागेन कर्मनिष्टायाः कर्तव्यत्त्वात् उभयस्वीकरणमेकस्य नोपपद्यते । कालभेदेनोभयस्वीकारे एकस्योपपन्नोऽपि स्वीकृतनिष्टाविघातकत्त्वात् नाङ्गीकार्य इति भावः । सन्यासगार्हस्थयोरस्तु विरोधः तथापि प्रयोजनाभावात् श्रेयः प्रश्नो व्यर्थ इत्याशङ्कापरिहाराय प्रश्नकर्त्तुरभिप्रायं विवृणोति उभयस्यापीति ।। १ ।।

Load More