तात्पर्यम्

चेतने गुणादेः शक्तिव्यक्तिरूपेण भावः

तात्पर्यम्

चेतने शक्तिरूपेण गुणादेर्भाव इष्यते ।

सुप्तोऽयं बलवान् विद्वानित्यादिव्यवहारतः ।

नचैवं शक्तिरूपेण जडे व्यवहृतिः क्वचित् ।

एकमेवाद्वितीयं तन्नेह नानाऽस्ति किञ्चन ।

मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ।

यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।

एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ।

इत्यादिश्रुतिमानाच्च परमैश्वर्यतस्तथा ।

सर्वं तु घटते विष्णौ यत् कल्याणगुणात्मकम्’ इत्यादि ब्रह्मतर्के ।। ११४ ।।

प्रकाशिका

एकं रूपं हरेरित्यादिना यदचिन्त्यत्वादियुक्तिसमर्थितं तत् श्रुतिभिश्च साध्यते ।। एकमेवेत्यादिना ।।

‘‘पश्यामि देवान् तवदेव देहे सर्वांस्तथा भूतविशेषसङ्घान् ।।

 ब्रह्माणमीशं कमलासनस्थं ऋषींश्चे’’त्यत्र

कमलासनशब्देन विरिञ्च उच्यते ।। ‘‘विरिञ्चः कमलासन’’ इत्यभिधानात् । तदाह ।। कमलेति ।। ११४ ।।     

न्यायदीपिका

ननु यथा चेतने सुप्त्यादावविद्यमानानामपि बलज्ञानादीनामत्यन्ताभेदस्तथाऽत्राप्यत्यन्ताभेद एव किं न स्यादित्यत आह ।। चेतन इति ।। सुप्तोऽयं बलवानित्यादिव्यवहारबलेन सुप्त्यादावपि बलादीनां शक्तिरूपेणावस्थानसिद्धेर्युक्तोऽत्यन्ताभेदो, न तु श्यामतादीनाम् । तेषामत्यन्तोच्छेदादित्यर्थः । श्यामतादीनामपि शक्तिरूपेणावस्थानं किं न स्यादित्यत आह ।। नचेति ।। मन्यामहे नीलत्वादीनां शक्तिरूपेणावस्थानं यदि बलादीनामिव शक्तिरूपाभिप्रायेण तेषां व्यवहारो भवेत् । नहि पीते चूतफले नीलमिति व्यवहारोऽस्तीति भावः । यदुक्तं विशेषबलादेकं रूपं हरेर्बहुव्यवहारविषयतां यातीति तद्भवेद्यदि रूपाभेदः प्रमाणावसितो भवेत् । अभावो यत्रेत्युक्तत्वात् । न च तत्प्रमाणमुपलभ्यत इत्यत आह ।। एकमितीति ।। यदुक्तमचिंत्यैश्वर्ययोगतो दुर्घटमप्येतद्घटत इति । तदयुक्तम् । तथा सति परमैश्वर्यबलेन जीवाभेदादेरपि घटनापातादित्यत आह ।। परमेति ।। यत्कल्याणगुणात्मकं तत्सर्वं प्रतीत्या दुर्घटमपि हरौ परमैश्वर्ययोगतो घटत इत्येवाङ्गीक्रियते न तु जीवैक्यादिकमपीति । तथा सति परमैश्वर्यस्यैवानुपपत्तेरिति भावः ।। १४ ।।

किरणावली

स्वयमसतो भेदोऽप्ययुक्त इति चेन्न । नष्टप्रतियोगिकभेदस्यानष्टधर्मिकस्योपपन्नत्वात् ।। सुप्त्यादाविति ।। सुप्तिमूर्छयोरित्यर्थः । नन्वत्र बलज्ञानादिपदेन शारीरबलवृत्तिज्ञानादेश्चेतनाभेदाभावेन परिग्रहायोगात्स्वरूपभूतं ज्ञानादिकं ग्राह्यम् । तस्य चाविद्यमानत्वमयुक्तम् । सुप्त्यादावपि देशकालाविद्यासुप्त्यवस्थात्मज्ञानादेरङ्गीकृतत्वात् । बाह्यपदार्थविषयस्वरूपज्ञानबलादेर्जाग्रत्यप्यभावादिति चेन्न । सुप्तौ जाग्रदाद्यवस्थायां साक्षिणा भासमानं सर्वं न भासते मनसस्तद्धर्माणां सुखदुःखेच्छाद्वेष प्रयत्नज्ञानतत्प्रामाण्यादीनामनुभवात् । जाग्रदादिदशायामपि घटादिविषयेऽपि वृत्तिज्ञानानुबद्धतया स्वरूपज्ञानस्य प्रवृत्त्यङ्गीकारात् । बाह्यबलानुविद्धतया स्वरूपबलस्य कार्येषु प्रवृत्तेः । सुप्तौ तदभावाच्छंकोपपत्तेः । मूले गुणादेरित्यादिपदेन क्रियादेः सङ्ग्रहः । बलवान्विद्वानित्यादिव्यवहारत इत्यादिपदेन कर्ताभोक्तेत्यादिव्यवहारो गृह्यते । ब्रह्मतर्के एकमेवेत्यादि श्रुतिद्वयोदाहरणस्याव्यवहितपूर्वग्रन्थेन सङ्गत्यभावाद्वाक्योपक्रमे प्राधान्येन प्रकृतेन तां दर्शयति ।। यदुक्तमिति ।। व्यवहारविषयतामिति ।। बहुसंख्याव्यवहारगोचरतामित्यर्थः ।। अभावो यत्रेति ।। ‘‘अभावो यत्र भेदस्य प्रमाणावसितो भवेत् । विशेषो नाम तत्रैवेत्युक्तत्वा’’दित्यर्थः ।। यदुक्तमिति ।। भेदानिर्वाह्यस्य भेदप्रतिनिधिना विशेषेण निर्वाहेऽपि एकत्वबहुत्वयोरेकत्र विरुद्धत्वात्कथमेकस्यैवाभिन्नानन्तरूपत्वमिति शङ्कायामचिन्त्यैश्वर्ययोगतो दुर्घटमप्येतद्धटत इति यदुक्तमित्यर्थः ।। ११४ ।।

भावदीपः

हरेर्बहुर्व्यवहारविषयतामिति ।। शतशस्सहस्रश इत्यादि बहुसङ्ख्यागोचरत्वरूपव्यवहारविशेषविषयतामित्यर्थः ।। इत्युक्तत्वादिति ।।

अभावो यत्र भेदस्य प्रमाणावसितो भवेत् । विशेषो नाम तत्रैव’

इत्युक्तत्वादित्यर्थः ।। तथा सतीति ।। जीवेनैक्ये सति प्रत्यक्षादिविरोधपरिहारायोभयगतधर्मत्यागेन निर्विशेषचितोरेवैकीभावस्य वाच्यत्वेन परमैश्वर्यायोगादिति भावः ।। ११४ ।।

भावप्रकाशः

एकमेवेत्यादि श्रुतिद्वयस्याव्यवहितपूर्ववाक्येन सङ्गत्यभावाद्व्यवहितेन तां दर्शयति ।। यदुक्तमिति । एकरूपं हरेर्नित्यमित्यनेनेत्यर्थः ।। ननु विशेषबलादेकं कथं व्यवहारविशेषविषयतां यातीत्यत्र रूपाभेदस्य प्रमावसितत्वस्योपयोगः कथमित्यत आह ।। अभावो यत्रेत्युक्तत्वादिति ।। अभावो यत्र भेदस्येत्यादिना प्रमाणावसितभेदाभावेष्वेव भगवद्रूपेषु विशेषबलात् व्यवहारविशेषनिर्वाहस्योक्तत्वादित्यर्थः ।।

श्रुतिद्वयस्य द्वितीयाध्याये व्याख्यातत्वातदव्याख्यायैवोत्तरवाक्यमवतारयति । यदुक्तमचिन्त्यैश्वर्यायोगत इति । अचिन्त्यैश्वर्यायोगतः बहुसङ्ख्यागोचरं चेत्यनेनेत्यर्थः ।। १४ ।।

अर्जुन उवाच—

पश्यामि देवांस्तव देव देहे

  सर्वांस्तथा भूतविशेषसङ्घान् ।

ब्रह्माणमीशं कमलासनस्थमृषींश्च

  सर्वानुरगांश्च दिव्यान् ।। १५ ।।

अनेकबाहूदरवक्त्रनेत्रं पश्यामि

  त्वां सर्वतोऽनन्तरूपम् ।

नान्तं न मध्यं न पुनस्तवादिं

  पश्यामि विश्वेश्वर विश्वरूप ।। १६ ।।

किरीटिनं गदिनं चक्रिणं च

  तेजोराशिं सर्वतो दीप्तिमन्तम् ।

पश्यामि त्वां दुर्निरीक्ष्यं

  समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम् ।। १७ ।।

त्वमक्षरं परमं वेदितव्यं

  त्वमस्य विश्वस्य परं निधानम् ।

त्वमव्ययः शाश्वतधर्मगोप्ता

  सनातनस्त्वं पुरुषो मतो मे ।। १८ ।।