गीता

ब्राह्मणक्षत्रियादीनां धर्माः

गीता

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।

ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ।। ४२ ।।

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।।

दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ।। ४३ ।।

कृषिगोरक्षवाणिज्यं वैश्यकर्म स्वभावजम् ।

परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ।। ४४ ।।

स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।

स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ।। ४५ ।।

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।

स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ।। ४६ ।।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।

स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ।। ४७ ।।

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।

सर्वारंभा हि दोषेण धूमेनाग्निरिवावृताः ।। ४८ ।।

तात्पर्यम्

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।

ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ।

एते गुणाः किञ्चिदूना विप्रात् क्षत्रिय एव च ।

अधिका वा ब्राह्मणेभ्यः केषुचिच्चक्रवर्तिषु ।

ऋषयस्त्वेव विज्ञेयाः कार्तवीर्यादयो नृपाः ।। ४२ ।।

शौर्यं तेजो धृतिदाक्ष्यं युद्धे चाप्यपलायनम् ।

दानमीश्वरभावश्च क्षत्रियेऽन्ये गुणा अपि ।। ४३ ।।

क्षत्रियो नब्रह्मगुणो वैश्यः कृष्यादिजीवनः ।

तत ऊनः शमाद्यैर्यः शुश्रूषुः शूद्र उच्यते ।

अधिकाश्चेद् गुणाः शूद्रे ब्राह्मणादिः स उच्यते ।

ब्राह्मणोऽप्यल्पगुणकः शूद्र एवेति कीर्तितः ।

नरोऽपि यो देवगुणो ज्ञेयो देवो नृतां गतः’ इति ।

प्रकाशिका

‘‘शमो दमः शौच’’मित्यादि भगवद्वचनार्थं निरूपयति ।।

शमोदम इत्यादिना ।। क्षत्रियादूनाः ब्राह्मगुणा शमादयो यस्यासौ क्षत्रियः न ब्रह्मगुणः ।।

न्यायदीपिका

ब्राह्मणेत्युक्तं प्रपञ्च्यते ।। शम इति ।। तत्र शमादयो ब्राह्मणस्यैवेत्यन्यथाप्रतीतिनिरासाय तत्प्रमाणान्तरेण व्याचष्टे ।। शम इति ।। अनेन ब्राह्मणे तदुक्तिराधिक्यविवक्षयेत्युक्तं भवति । तपो ब्रह्मचर्यादि । शौचं शुद्धिः । क्षान्तिः क्रोधासमुत्थितिः । आर्जवं मनोवाक्कायकर्मणामवैपरीत्यम् । ज्ञानं सामान्यतः विज्ञानं विशेषतः । आस्तिक्यं धर्मादावस्त्येवानेन मम प्रयोजनमिति भावः । कार्तवीर्यादिक्षत्रियेषु ब्राह्मणेभ्योऽप्याधिक्येनैतद्गुणदर्शनात्कथमेतदित्यत आह ।। अधिकावेति ।। सत्यं क्षत्रियेषु ब्राह्मणाधिकाः शमादयः सन्तीति, तथापि नोक्तविरोधः । तेषामृषित्वात् । तदितरक्षत्रियाणामत्र विवक्षितत्वादिति भावः । शौर्यमभीरुत्वम् । तेजः शरीरगतम् । धृतिर्धैर्यम् । दाक्ष्यं पाटवम् । क्षत्रियादूनाः ब्राह्मगुणाः शमादयो । यस्यासौ तथोक्तः । ततो वैश्यात् । शुश्रूषुः शुश्रूषाजीवनः । नेयं नियतिर्युक्ता । शूद्रस्याप्यधिकगुणत्वदर्शनात् । ब्राह्मणस्याप्यल्पगुणत्वदर्शनादित्यत आह ।। अधिकाश्चेदिति ।। ब्राह्मणादिरिति ।। ब्राह्मणसमशमादिगुण इत्यादि द्रष्टव्यम् । शूद्र एवेत्युपलक्षणम् । तत्तत्समगुणोऽसाविति ज्ञातव्यम् । जातिमनपेक्ष्य गुणमात्रेण कथं ब्राह्मणत्वादिकल्पनेत्यत आह ।। नरोऽपीति ।। यथेति शेषः ।

किरणावली

तेषामृषित्वादिति ।। च्यवनादिवत् ज्ञानित्वादिति भावः । क्षत्रियो न ब्रह्मगुण इत्यस्य क्षत्रिये ऊना इत्यस्य प्रतीतेर्व्याचष्टे ।। क्षत्रियादिति ।। नन्वध्यापनं च शुश्रूषा जीवनार्थमृते सतामिति ब्राह्मणादीनामपि शुश्रूषाया वक्ष्यमाणत्वादाह ।। शुश्रूषुः शुश्रूषाजीवन इति ।। नन्वधिकाश्चेद्गुणा इत्यस्य ब्राह्मणादधिकाश्चेदिति नार्थः । ब्राह्मणादधिकगुणस्य ब्राह्मणादित्वाभावात् । शूद्रान्तरादधिकाश्चेद्गुणास्तदापि न ब्राह्मणादित्वं युक्तम् । शूद्रादधिकगुणे वैश्ये ब्राह्मणादित्वायोगादित्यत आह ।। ब्राह्मणादिरितीति ।। ननु क्षत्रियवैश्यसमगुणस्य ब्राह्मणस्य कथं शूद्र एवेति शूद्रत्वावधारणमित्यत आह ।। शूद्रएवेत्युपलक्षणमिति ।। शूद्रादिरेवेत्यर्थः । ननु ब्राह्मणोप्यल्पगुणक इत्ययुक्तम् । ब्राह्मणादल्पगुणकस्य क्षत्रियस्य समशमादिगुणो वैश्यः (अत्रग्रन्थपातः ।) शूद्रसमशमादिमान् शूद्र इति ज्ञातव्यमित्यर्थः । नरोपीत्यस्य प्रकृतोपयोगायाध्याहरति ।। यथेति शेष इति ।। नचदृष्टान्तोपि पक्षसमः । जातिमनपेक्ष्यगुणमात्रेणेति शङ्कायास्तत्रापि तुल्यत्वादिति वाच्यम् । देवगुणस्यार्जुनादेर्नरस्य देवतायाः सर्वसंप्रतिपन्नत्वेन तत्र शङ्कानवकाशात् ।।

भावदीपः

प्रयोजनमिति भाव इति ।। भावेनेत्यर्थः ।। तेषामिति ।। येषु क्षत्रियेष्वाधिक्यमुच्यते तेषामित्यर्थः ।। इत्यादि द्रष्टव्यमिति ।। क्षत्रियसमगुणश्चेत्क्षत्रिय इत्यादिरादिपदार्थः ।। तत्तदिति ।। क्षत्रियसमगुणश्चेत् क्षत्रियः वैश्यसमगुणश्चेद्वैश्य इत्येवं द्रष्टव्यमित्यर्थः ।।

भावप्रकाशः

क्षत्रियः ब्रह्मगुणो नेति प्रतीयते तदनुपपन्नं स्वकर्मणेत्याद्युत्तरग्रन्थविरोधादित्यतोव्याचष्टे ।। क्षत्रियादूना ब्राह्मगुणा इति । अध्यापनं च शुश्रूषा जीवनार्थमृते सतामिति ब्राह्मणादीनामपि शुश्रूषायावक्ष्यमाणत्वादाह ।। शुशूषः शुश्रूषाजीवन इति । ननु शूद्रे शूद्रान्तरादधिकगुणाश्चेत् सब्राह्मणादिरिति वक्तुं न शक्यं वैश्ये शूद्राधिकगुणे सद्भावेपि तस्य ब्राह्मणादित्वाभावादित्यत आह ।। ब्राह्मणसमशमादिगुणश्चेदिति । ननु अल्पगुणको ब्राह्मणः शूद्र एवेत्यवधारणमनुपपन्नं क्षत्रियादित्वसम्भवादित्यत आह । शूद्र एवेत्युपलक्षणमिति ।। तदेव दर्शयति ।। तत्तत्समगुण इति । क्षत्रियसमगुणश्चेत् क्षत्रिय इत्यादि ज्ञातव्यमित्यर्थः ।। यथेति शेष इति । अन्यथा प्रकृतानुपयोगादिति भावः ।।

वाक्यविवेक

तत्तत्समगुणोसाविति । ब्राह्मणः क्षत्रियेण समगुणश्चेत्क्षत्रिय एव वैश्येन समगुणश्चेद्वैश्य एव शूद्रेण समगुणश्चेत् शूद्र एवेत्यर्थः ।