तात्पर्यम्
तात्पर्यम्
‘स्वातन्त्र्याद्भगवान्विष्णुः स्वभाव इति कीर्तितः ।
तत्स्वातन्त्र्यं कदाप्येष नान्यस्य सृजति क्वचित् ।
स्वातन्त्र्यादेव पापादिसम्बन्धः कुर्वतोऽपि न ।
अज्ञानावृत्तबुद्धित्वादीदृशं तं न जानत’ इति महावाराहे ।
‘अहं सर्वस्य प्रभवः’ । ‘तपाम्यहमहं वर्षं निगृह्णामि’ ।
‘पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ।’
‘न ऋते त्वत्क्रियते किञ्चिनारे’ । ‘देवस्यैष स्वभावोऽयम्’ ।
‘लोकवत्तु लीलाकैवल्यमिति’
इत्यादेर्नास्यास्वाभाविकं कर्तृत्वमकर्तृत्वं वा । विपरीतप्रमाणाभावाच्च । अनिर्वाच्यनिरासादेव च निरस्तोऽयं पक्षः ।
न्यायदीपिका
ननु किमर्थमेवमर्थान्तरं कल्पनीयम् । जीवस्येवेश्वरस्य च कर्तृत्वादिकं नास्त्येव । विश्वप्रवृत्तिस्तु स्वभावादेवेत्यर्थः किं न स्यात् । लोकस्येत्यस्य लोकविषय इत्यर्थोपपत्तेरित्यतः स्वोक्तार्थे स्मृतिसंमतिमाह ।। स्वातन्त्र्यादिति ।। नान्यस्य सृजत्यपितु स्वयमेव प्रवर्तत इति शेषः । ईश्वरस्यैव कर्तृत्वे कर्मलेपः स्यादित्यत आह ।। स्वातन्त्र्यादेवेति ।। अनेन नादत्त इत्यस्यार्थोऽप्युक्तो भवति । एवं सर्वेषु स्थित्वा स्वातन्त्र्येण कर्तेश्वरोस्ति चेत्कथं न दृश्यत इत्यत आह ।। अज्ञानेति ।। एतेनाज्ञानेति व्याख्यातं भवति । यदुक्तमीश्वरः स्वयमेव भावयतीति न तद्युक्तम् । तस्य कर्तृत्वाभावात्कर्तृत्वसद्भावेऽपि तस्यास्वाभाविकत्वादित्यत आह ।। अहमिति ।। अहं सर्वस्येति वचनद्वयं कर्तृत्वसद्भावे मानम् । परास्येत्यादिकं कर्तृत्वस्य स्वाभाविकत्वे । त्वदृते दूरे समीपेवा किंचन केनापि न क्रियत इत्यर्थः । अत्र भगवदितरस्य कर्तृत्वाभावोक्तया ईश्वरकर्तृत्वस्यापराधीनत्वसम्भवेन स्वाभाविकत्वमेवोच्यते । लोकवदित्यत्रापि फलाद्यपेक्षाभावेन कर्तृत्वोक्त्या तस्य स्वाभाविकत्वमेवोच्यते । इतश्च नेश्वरस्याकर्तृत्वमस्वाभाविकं कर्तृत्वं चेत्याह ।। विपरीतेति ।। नन्वस्माभिरीश्वरस्य कर्तृत्वमस्वाभाविकपदेनानिर्वाच्यमभिप्रेयते । न तु फलापेक्षं पराधीनं वा । अतो नोदाहृतवचनविरोध इत्यत आह ।। अनिर्वाच्येति ।। ईश्वरस्य कर्तृत्वमनिर्वचनीयमिति पक्षो द्वितीयाध्यायेऽनिर्वाच्य वस्तुनो निरस्तत्वादेव निरस्तोऽतो न पुनरत्र निरसनीय इति भावः ।
किरणावली
नन्वीश्वरस्य कर्तृत्वाभावप्रतिपादने लोकस्येति व्यर्थमित्युक्तमित्यत आह ।। लोकस्येत्यस्येति ।। कर्माणि न सृजति कर्मफलसंयोगं च न सृजति । किंतु तत्तद्वस्तु स्वभाव एव प्रवर्तत इत्यर्थ इति भावः । नान्यस्य सृजतिक्वचिदिति मूले क्वचिदित्यस्य कर्मकरणे तेनापूर्व संपादने फलसंयोगे चेत्यर्थः । अस्वाभाविकत्वादित्यत्र किमिदमस्वाभाविकत्वं परायत्ततयाऽऽगन्तुकत्वं वा फलोपाधिकत्वं वेति विकल्पं मनसि निधाय पक्षद्वयं दूषयितुं परास्येत्यादि प्रवृत्तमित्याह ।। परास्येत्यादिकमिति ।। आरे इत्यस्य प्रतिपदं दूरे समीपे वेति । आराद्दूरसमीपयोरित्यभिधानादिति भावः । लोकवदिति सूत्रस्य जगत्सर्जनादिप्रवृत्तेर्मत्तस्य नृत्तगानादिवत्फलानपेक्षया केवललीलावत्त्वमित्यर्थं मनसि निधायाह ।। लोकवदित्यत्रेति ।। इतश्चेति ।। न केवलं कर्तृत्वे तस्य स्वाभाविकत्वे च प्रमाणसद्भावादत एव परपक्षे बाधकसद्भावाच्च तदङ्गीकार्यम् । किं त्वस्वाभाविकसाधकस्यास्मत्पक्षे बाधकस्याभावाच्चेत्यर्थः ।।
भावप्रकाशः
आराद्दूरसमीपयोरित्यभिधानं मनसि निधायारादित्येतत्समानार्थस्यारे इत्यस्यार्थमाह । दूरे समीपे वेति ।। लोकवत्तु, यथा लोके मत्तस्य सुखोद्रेकादेव नृत्तगानादिलीला नतु प्रयोजनापेक्षया । एवमेवेश्वरस्य सृष्ट्यादिव्यापारो लीला कैवल्यं केवललीलारूप एवेति सूत्रार्थं मनसि निधाय प्रकृतोपयोगमाह । लोकवदित्यत्रापीति ।। इतश्च नेश्वरस्येति । ततश्चेश्वरस्य कर्तृत्वं न च स्वाभाविकमित्याहेत्यर्थः ।। निरस्तत्वादेवेति ।। न च सदसद्विलक्षणं किञ्चिदस्तीत्यत्र किञ्चिन्मानमित्यादिनेत्यर्थः ।।
वाक्यविवेकः
नन्वीश्वरः स्वस्य कर्तृत्त्वं न सृजतीति व्याख्यानमनुपपन्नम् ।। लोकस्येत्यस्यानन्वयप्रसङ्गात् इत्यत आह । लोकस्येत्यस्येति । एतेनाज्ञानेनेति । अज्ञानावृतबुद्धित्त्वादिति मूलेन आज्ञानेनावृतं ज्ञानमिति गीताश्लोको व्याख्यात इत्यर्थः ।। अस्वाभाविककर्तृत्वंचेति । फलापेक्षया परापेक्षया वा अस्वतन्त्रकर्तृत्त्वमित्यर्थः ।। नोदाहृतेति । अहं सर्वस्य प्रभवः परास्य शक्तिरित्याद्युदाहृतवचनविरोधो नेत्यर्थ ।।
तात्पर्यम्
न च सर्वविशेषराहित्यवादिनां शून्यवादात्कश्चिद्विशेषः । न हि सर्वविशेषरहितमित्युक्ते तदस्तीति सिध्यति । वाच्यत्वलक्ष्यत्वास्तित्वादीनामपि विशेषत्वात् । अन्यथाऽस्ति ब्रह्मेत्यादीनां शब्दानामपि पर्यायत्वादयो दोषाः । व्यावर्त्यविशेषश्च व्यावृत्तविशेषनिबन्धन एव ।
न्यायदीपिका
ननु ब्रह्मणः सर्वविशेषरहितत्वात्कथं परमार्थतः कर्तृत्वं स्यादित्यत आह ।। नचेति ।। भवेद्ब्रह्मणः कर्तृत्वस्यापारमार्थिकत्वं यदि तस्य सर्वविशेषराहित्यं स्यात् । न च तद्युक्तम् । तथात्वे ब्रह्मणः शून्यत्वापत्त्या तदभ्युपगन्तृणां शून्यवादित्वापातादिति भावः । सर्वविशेषरहितत्वेऽपि न ब्रह्मणः शून्यत्वापत्तिरस्तित्वादित्यत आह ।। नहीति ।। न भवेद्ब्रह्मणः शून्यत्वापत्तिः यदि तस्यास्तित्वं सिद्ध्येत् । न च तत्सिद्धिः । सर्वविशेषरहितमित्यङ्गीकारादिति भावः । ननु सर्वविशेषरहितत्वेऽपि कुतोऽस्तित्वं न सिद्ध्यतीत्यत आह ।। वाच्यत्वेति ।। अस्तित्वे ब्रह्मणोऽस्तित्वमस्तिशब्दवाच्यत्वं वा स्यात् । तस्य च विशेषत्वात् । न तत्सर्वविशेषरहितस्य युज्यत इति भावः ।
भवेन्निर्विशेषत्वेऽस्तित्वासिद्धिर्यद्यस्तित्वं ब्रह्मणो विशेषतयाऽङ्गीक्रियते । नैतदस्ति । तस्य ब्रह्मस्वरूपमात्रत्वादित्यत आह ।। अन्यथेति ।। यद्यस्तित्वादिकं ब्रह्मणः स्वरूपमात्रं न तद्विशेषस्तर्हि ब्रह्म ब्रह्मेतिवदस्ति ब्रह्मेत्यादिशब्दानां पर्यायत्वं स्यात् । ततश्चास्ति ब्रह्मेति चेद्वेदेत्यादि सह प्रयोगानुपपत्तिः स्यात् । तथाचोपनिषदां पुनरुक्तिदोषेणोन्मत्तवाक्यवदनादरणीयत्वं स्यादिति भावः । ब्रह्मण्यस्तित्वादिविशेषाभावेऽपि आरोपितासत्वादिविशेषव्यावृत्तिकथनद्वाराऽस्त्यादिपदानि तल्लक्षयंत्यतो न शब्दानां पर्यायत्वादीत्यत आह ।। व्यावर्त्येति ।। भवेदस्त्यादिपदानामपर्यायत्वं यद्यस्त्यादिपदानि ब्रह्मणोऽसत्त्वादि व्यावर्तयन्ति । न च तद्युक्तम् । व्यावर्त्यासत्त्वादिविशेषव्यावृत्तेर्व्यावृत्ततयाऽङ्गीकृतब्रह्मगतास्तित्वादिविशेषनिबन्धनत्वात्तेषां चानङ्गीकारात् । ब्रह्मण्यस्तित्वादिविशेषाभावेप्यसत्त्वादिव्यावृत्तावसतोपि तद्व्यावृत्तिप्रसङ्गात् । गङ्गापदलक्ष्येपि तीरे गङ्गात्वाभावेऽपि अगङ्गात्वव्यावृत्तिप्रसङ्गादिति भावः ।
किरणावली
अस्तित्वादिति ।। अस्तिब्रह्मेति चेद्वेदेत्यादि श्रुत्यास्तित्वावगमादिति भावः ।। पर्यायत्वमिति ।। क्रमेण प्रयोज्यत्वमित्यर्थः । शङ्कते ।। ब्रह्मणीति ।। परापरसामान्यवाचीनि सगुणब्रह्मवाचीनि च अस्ति ब्रह्मज्ञानमित्यादीनि पदानि ब्रह्म लक्षयन्तीत्यतोवाक्यार्थभेद सद्भावान्न शब्दानां पर्यायत्वादीति तावद्योज्यम् । नन्वस्तिपदेन लक्षितस्यैव ब्रह्मपदेन लक्षणायां पुनर्वैयर्थ्यमित्यत उक्तम् ।। आरोपितासत्त्वादिविशेषव्यावृत्तिकथनद्वारेति ।। लक्ष्यार्थभेदाभावेप्यारोपितासत्त्वादिव्यावृत्त्यर्थत्वेन पदान्तराणां न वैयर्थ्यमिति भावः । अस्तित्वादि विशेषाभावात्कथमसत्त्वादि व्यावृत्तिरित्यत उक्तम् ।। ब्रह्मण्यस्तित्वादिविशेषाभावेपीति ।। आरोपितासत्त्वादिविशेषव्यावृत्तौ नास्तित्वादि विशेषस्यावश्यकत्वमिति भावः । व्यावर्त्यविशेषश्चेति मूलस्यास्त्यादिपदेन व्यावर्त्यतयाऽभिमतस्या सत्वादेर्योविशेषो ब्रह्मणि व्यावृत्तत्वलक्षणो विशेषः ब्रह्मण असत्वादि व्यावृत्तिरिति यावत् । स च व्यावृत्ततयाङ्गीकृतब्रह्मगतसत्वादि विशेषनिबन्धन एवेत्यर्थं मत्वा व्याचष्टे । यद्वा व्यावर्त्यविशेषश्चेति मूलस्य व्यावर्त्यो यो विशेषो सत्वादिरूपः । असत्वादिविशेषव्यावृत्तिरिति यावदिति मूलस्य तात्पर्यार्थमाह ।। व्यावर्त्यासत्वादिविशेषव्यावृत्तेरिति ।। व्यावर्त्यो यो सत्वादिविशेषस्तद्व्यावृत्तेरित्यर्थः।
नन्वस्ति पदलक्ष्यत्वात् ब्रह्मणोस्तिपदप्रवृत्तिनिमित्तसत्वाभावेपि लक्षणामहिम्नाऽसत्वादि व्यावृत्तिः सम्भवति । न चैवमसतोऽस्त्यादिपदलक्ष्यत्वं येन सत्वादिविशेषाभावेप्यसत्वादिव्यावृत्तिः सिद्ध्येदित्यत आह ।। गङ्गेति ।। नन्वगङ्गात्वस्य तीरेऽनारोपितत्वादव्यावृत्तिः । ब्रह्मण्यसत्वस्यारोपितत्वात्सत्वाभावेपि व्यावृत्तिरिति चेन्न । सत्यत्वाबोधने आरोपनिवृत्तेरेवायोगात् । विरोध्याकारसमर्पणेन हि विरोध्याकारान्तरं व्यावर्तनीयमिति भावः ।।
भावप्रकाशः
शून्यत्वापत्येति ।। शून्यवादिभिः शून्यस्य निर्विशेषत्वाङ्गीकारादिति भावः ।। यथाहुः निर्विशेषं स्वयं भातं निर्लेपमजरामरं शून्यं तत्वमिति ।। अस्तित्वादितीति ।। ब्रह्मेति पदादेव ब्रह्मणो विधित्वेन प्रतीयमानत्वादिति भावः ।। पर्यायत्वं स्यादिति ।। निर्विशेषाभिन्नार्थवाचकत्वं स्यादित्यर्थः ।। इष्टापत्तिपरिहारायादिशब्दार्थमाह ।। ततश्चेति । व्यावर्त्यासत्वादिविशेषव्यावृत्तेरिति ।। मूले विशेषव्यावर्त्यपदेन विशेषव्यावर्त्य(?)ग्राह्येत्यभिप्रेत्यैवमुक्तमिति भावः ।। असतोऽपीति ।। अस्तित्वाभावविशेषादसतोऽप्यसद्व्यावृत्तिप्रसङ्गादित्यर्थः ।। ननु ब्रह्मशून्ययोरस्तित्वाभावाविशेषेऽपि ब्रह्मणोऽस्तिपदलक्ष्यत्वादसत्वव्यावृत्तिरुपपन्नेत्यत आह । गङ्गापदलक्ष्येऽपीति ।।
वाक्यविवेकः
अस्तित्वादितीति । अस्तीति शून्यविलक्षणत्व वाचितिङन्तप्रतिरूपकमव्ययम् । ततश्च तद्धितस्य त्वप्रत्यस्योपपत्तिरिति द्रष्टव्यम् ।। एतेन ब्रह्मणोस्तित्वाङ्गीकारेऽपि न शून्यत्वप्राप्तिपरिहारः । शून्यवादिनापि शून्यस्यास्तित्वाङ्गीकारादिति परास्तम् । अस्तित्वशब्देन शून्यवैलक्षण्यस्य विवक्षित्वात् । शून्यवादिनाच शून्यस्य तदनङ्गीकारात् ।। यदि तस्यास्तित्वमिति । तस्य ब्रह्मणः अस्तित्वं शून्यवैलक्षण्यं यदि सिध्येदित्यर्थः । ननु परेणास्तित्वाङ्गीकारात् मूलकृता अस्तित्वस्य विशेषत्वादित्येव वक्तव्यम् । न तु वाच्यत्वलक्ष्यत्वास्तित्वादिनामितीत्यत आह ।। अस्तित्व इति । ब्रह्मणोऽस्तित्वे शून्यवैलक्षण्याङ्गीकारे अस्तित्वं स्यात् शून्यव्यावृत्तिसाधको धर्मः स्यात् । तत्प्रापकाभिमतेन केनचित्पदेन वाच्यत्वं लक्ष्यत्वं वा । लक्ष्यत्वपक्षे मुख्यार्थसम्बन्ध इति बहवो धर्माः प्राप्नुवन्ति । ते च विशेषत्वात् न निर्विशेषे ब्रह्मणि युज्यन्त इति न ब्रह्मणः शून्यवैलक्षण्यं सिद्धिरिति भावः । एतेन अस्तित्वं अस्तित्वं स्यादित्यनुपपन्नम् । आपाद्यापादकयोर्व्याप्त्यभावात् । तथास्तिशब्दवाच्यत्वं लक्ष्यत्वं वा स्यादित्यनुपपन्नम् । प्रवृत्तिनिमित्तसद्भावे वाच्यत्वस्यैव भाव्यत्वेन लक्ष्यत्वाप्रसक्तेरिति परास्तम् । शून्यवैलक्ष्यण्याङ्गीकारे तदुपपादकधर्मप्रसङ्गस्यैवापादितत्त्वेनापाद्यापादकयोरैक्याभावात् तथा तादृशधर्मवत्त्वे तत्प्रतिपादकप्रमाणान्तर्गतेन केनचित्पदेन वाच्यत्वं लक्ष्यत्वं वा स्यादित्युक्तत्वेन अस्तीति शब्देन वाच्यत्वं लक्षत्वं वा स्यादित्यनभिधानात् । यद्यस्तित्वादिकमिति । अत्र तर्हीत्यनन्तरं श्रूयमाणं ब्रह्मेतिवदित्येतत् उत्तरवाक्यस्थं लेखकदोषात् इह पतितम् ।। ततश्चैवं टीकावाक्यपाठः यद्यस्तित्त्वादिकं ब्रह्मस्वरूपमात्रं न तद्विशेषः तर्हि अस्ति ब्रह्मेत्यादिशब्दानां पर्यायत्वं स्यात् । ततश्च ब्रह्म ब्रह्मेतिवदस्ति ब्रह्मेतिचेद्वेदेति प्रयोगानुपपत्तिः स्यादिति । अवश्यं चैतदेवं विज्ञेयं ब्रह्मशब्दस्यैकत्त्वेन द्वयोरस्तिब्रह्मशब्दयोः पर्यायेणार्थभिधायित्त्वे दृष्टान्तत्त्वायोगात् ।।