तात्पर्यम्
तात्पर्यम्
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ।।
इत्यादिना भक्तस्यापि तत्कर्म विकर्मत्यागश्च ।
‘कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम्’ ।
इत्यादिना ज्ञानिनोऽपि भगवत्कर्म ।
न्यायदीपिका
ननु श्रवणादिरूपस्वविहितवृत्त्यैव परोक्षापरोक्षज्ञानसिद्धेस्तत्साधनस्यैव परमधर्मत्वान्न भक्तिः परमधर्मतया गीताभिमतेत्यत आह ।। नाहमिति ।।
अभिमतैव गीतायां भक्तिः परमधर्मत्वेन परोक्षापरोक्षज्ञानयोर्ज्ञानिनोपिमोक्षस्य गीतायामेव तदधीनत्वावगमात् ।। नचैवं श्रवणादिवैयर्थ्यम् । अन्यथा ज्ञानादेर्भक्तयधीनत्वानुपपत्तिरितिवाच्यम् ।। श्रवणादेर्ज्ञानादिसाधनत्वेपि भक्तेरेव तेभ्यःश्रवणादि सर्वसाधनेभ्य उत्तमत्वस्यात्र विवक्षितत्वादिति भावः ।।
ननु न भक्तया स्वविहितवृत्त्या भगवदाराधनं कर्तव्यं तद्विरुद्धं त्याज्यमिति गीताभिमतम् । तत्र भक्तिमतः कर्तव्यत्याज्याभाव मात्रस्याभिमतत्वादित्यत आह ।। मत्कर्मेति ।।
न भक्तस्य कर्तव्यत्याज्याभावो गीताभिमतः । तत्रैव भक्तस्यापि स्वविहितवृत्त्या भगवदाराधनस्य कर्तव्यतया तद्विरुद्धस्य त्याज्यतयाऽवगमादिति भावः ।। यदुक्तं स्वविहितवृत्तिरूपं मद्विषयं च कर्म मत्कर्म । तदेव तत्कर्म । संगवर्जितोऽस्वविहिताभगवद्विषयकर्मसङ्गवर्जितः ।। तदेव विकर्मोच्यते ।। भगवत्प्राप्तिहेतुतयोक्तमेव कर्म कर्तव्यम् ।। तदर्थत्वेन निषिद्धमेव त्याज्यमिति ।।
नन्वर्जुनस्य ज्ञानित्वे कथं तं प्रति स्वविहितवृत्त्या भगवदाराधनं विधीयते । ज्ञानिनस्तदभावस्य गीताभिमतत्वादित्यत आह ।। कुर्विति ।।
न ज्ञानिनः स्वविहितवृत्त्याद्यभावो गीताभिमतः । तत्र एवं ज्ञात्वा कृतंकर्म पूर्वैरपि मुमुक्षुभिः ।। कुरु कर्मैवेति ज्ञानिनोपि स्वविहितवृत्त्यादेः कर्तव्यतयाऽवगमादितिभावः । स्वविहितं भगवदर्थमेव पूर्वैःकृतम् । तदुभयमेव भगवत्कर्म ।
किरणावली
गीतायामेवेति ।। नाहं वेदैरित्यत्र भक्तिं विना वेदार्थश्रवणादिभिर्द्रष्टुं न शक्य इति व्यतिरेकस्य भक्तया त्वनन्ययेत्यत्रान्वयस्य चोक्तेरिति भावः ।। अन्यथेति ।। केवलश्रवणादेर्ज्ञानादि हेतुत्वेन सार्थक्ये भक्तयभावे ज्ञानाद्यभाव इति व्यतिरेकव्याप्तेर्व्यभिचारेण ज्ञानादेर्भक्तयधीनत्वानुपपत्तिरिति न वाच्यमित्यर्थः ।। श्रवणादेरिति ।। अस्त्येव श्रवणादेर्ज्ञानादिसाधनत्वं न चैवं सति ज्ञानादेर्भक्तयधीनत्वानुपपत्तिः । भक्तिरहितश्रवणादेर्ज्ञानादिहेतुत्वाभावेन भक्तयभावे ज्ञानाभाव इति व्यतिरेकव्याप्तेर्व्यभिचाराभावेन ज्ञानादेर्भक्तयधीनत्वसम्भवात् । भक्तिपूर्वमनुष्ठितस्य परमभक्तिसाधनस्य श्रवणादेर्भक्तया ज्ञानं ततो भक्तिस्ततो दृष्टिस्ततश्च सेत्युक्तदिशा ज्ञानादिसाधनत्वेऽप्यङ्गाङ्गिभावेन श्रवणादिभ्य उत्तमत्वस्य विवक्षितत्वान्न भक्तेः परमधर्मत्वोक्तिविरोध इति प्रमितोऽर्थः ।। गीताभिमतमिति ।। सर्वधर्मान्परित्यज्येति गीतायां न विरुद्धस्य त्याज्यत्वं स्ववृत्त्या भक्तया भगवदाराधनस्य कर्तव्यत्वं चाभिमतमित्यर्थः । कुत इत्यत आह ।। तत्रेति ।। तत्र सर्वधर्मानिति वाक्ये शरणागतस्य भक्तिमतः सर्वधर्मान्परित्यज्येति कर्तव्याभावस्य त्वया प्रपन्नोऽहं सर्वपापेभ्यो मोक्षयिष्याम्यतो यथेष्टं निषिद्धं कुर्विति त्याज्याभावस्योक्तेरित्यर्थः । यद्वा तत्र गीतायां सर्वधर्मान्परित्यज्येति कर्तव्यभावस्यापि चेत्सुदुराचार इति त्याज्याभावस्य चोक्तेरित्यर्थः ।
ननु मत्कर्मकृदिति श्लोके मया यत्कर्तव्यं तन्मत्कर्म तत् कृदिति प्रतीयते । न तु स्वविहितवृत्त्या भक्तया भगवदाराधनं कर्तव्यमित्युच्यत इत्यत आह ।। यदुक्तमिति ।। ‘‘मन्मना भव मद्भक्तो मद्याजी’’त्यत्र भगवता कृष्णेन यत् स्वविहितवृत्तिरूपं भक्तया स्वाराधनरूपत्वान्मद्विषयं च कर्म तदेव मत्कर्मकृदिति श्लोके मत्कर्मोक्तमिति योजना । मूले तत्कर्म विकर्मत्यागश्चेत्यत्र तत्कर्मकर्तव्यमवगम्यते । विकर्मत्यागश्चावगम्यत इत्युक्तम् । तत्रापि तत्कर्मेत्यस्यायमेवार्थ इत्याह ।। तदेव तत्कर्मेति ।। मत्कर्म कृदिति श्लोके तद्विरुद्धत्यागबोधकपदाभावात्कथं तस्यावगम इत्यत आह ।। सङ्गवर्जित इति ।। ननु मूले तद्विरुद्धः सर्वोऽपीत्युक्तरीत्या तद्विरुद्धकर्मत्यागश्चेति वक्तव्ये विकर्मत्याग इति कथमुक्तमित्यत आह ।। तदेव विकर्मेति ।। अस्वविहिताभगवद्विषयं तद्विरुद्धं कर्मैवेत्यर्थः । ननु मत्कर्मकृदित्यत्र सत्कर्मविकर्मणोः कर्तव्यत्वत्याज्यत्वबोधकपदाभावात्कथं तत्रावगम इत्यतः स मामेतीत्यनेनैव कर्तव्यत्वत्याज्यते उक्तप्राये इत्याहुः ।। भगवत्प्राप्तिहेतुतयेति ।। तदर्थत्वेनेत्यस्य भगवत्प्राप्त्यर्थत्वेनेत्यर्थः ।। गीताभिमतत्वादिति ।।
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यत
इति गीताभिमतत्वादित्यर्थः । यस्त्वात्मरतिरिति वचनमसंप्रज्ञातसमाधिस्थपरं मुक्तपरं वा । न तु ज्ञानिमात्रपरमित्यभिप्रेत्याह ।। न ज्ञानिन इति ।। कुरु कर्मेत्यत्र ज्ञानिवाचकपदाभावादर्जुनस्य ज्ञानित्वस्येदानीमप्यसिद्धत्वात्पूर्वार्धमुदाहरति ।। तत्र एवं ज्ञात्वाकृतं कर्मेति ।। ननु पूर्वैःकर्मकृतमिति तत्रोच्यते । तत्स्वविहितं भगवदाराधनरूपमिति कथमवगतमित्यत आह ।। स्वविहितं भगवदर्थमेव पूर्वैः कृतमिति ।। गीतायां चतुर्थेऽध्याये ज्ञानिनामपि मोक्षेऽतिशयानन्दाकांक्षया कर्मकरणाचारप्रतिपादके एवं ज्ञात्वेति श्लोके मुमुक्षुभिस्तत्साधुकारिण्युप्रत्यय इति प्रमेयदीपोक्तेः । मोक्षस्य साधुत्वमतिशयानन्दलक्षणं काङ्क्षद्भिः पूर्वैर्ज्ञात्वा ह्यपरोक्षतो भगवत्स्वातन्त्र्यादिकं च ज्ञात्वा कर्मकृतम् । तस्मात् ज्ञान्यपि त्वं कर्म कुर्वित्युक्त्वा किं तत्पूर्वैः कृतं कर्म यन्मां प्रति विधीयत इत्याशङ्कायां तत्ते कर्म प्रवक्ष्यामीति प्रतिज्ञाय ‘‘कर्मण्यकर्म यः पश्येदि’’ति संक्षेपतः यस्य सर्वे समारम्भा इत्यादिश्लोकपञ्चकेन प्रपञ्चेन तत्स्वरूपनिरूपणात् स्वविहितं भगवत्पूजार्थं भक्तिपूर्वमीश्वरार्पणबुध्द्या कृतमेव पूर्वैः कृतं कर्मेत्यवगमादिति भावः । मूले भगवत्कर्मेत्यनेन स्वविहितत्वभगवदर्थत्वरूपप्रकारद्वयोपेतमेव विवक्षितमित्याह ।। तदुभयमिति ।।
भावदीपः
परमधर्मत्वेन भक्तिर्गीतायामभिमतेति कुत इत्यतो मूलं योजयति ।। परोक्षेति ।। ज्ञातुं द्रष्टुं चेत्युक्तपरोक्षापरोक्षयोः प्रवेष्टुं चेत्युक्तज्ञानिमोक्षस्य च भक्त्या त्वनन्ययेति भक्त्यधीनत्वावगमादित्यर्थः ।। अन्यथेति ।। ज्ञानस्य श्रवणाद्यधीनत्व इत्यर्थः । शङ्कोत्तरत्वेन मूलार्थमाह ।। श्रवणादेरिति ।। उत्तमत्वस्येति ।।
तथा च सूत्रं— ‘‘परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्तनुबन्धः’’ (ब्र.सू.३३५४) इति ।। तत्रेति ।। सर्वधर्मानिति श्लोकेकर्तव्यस्य त्याज्यस्य चाभावोऽभिमत इत्यर्थः । हेयोपादेयाभावेन शरणागतिरेव तस्याभिप्राय इति शङ्कितुर्भावः । यद्वा तत्रेत्यस्य गीतायामित्यर्थ इति ज्ञेयम् । एतद्द्वयं मत्कर्मकृन्मत्परम इति श्लोके कथमवगम्यत इत्यतोऽनुवादव्याजेन व्यनक्ति यदुक्तमित्यादिना । गीतापदार्थमुक्त्वा तत्कर्मेति मूलपदस्यार्थमाह ।। तदेव तत्कर्मेति ।। कर्मधारय इत्युक्तं भवति । अस्मच्छब्दात्तद्भगवद्विषयं कर्मैव भक्तस्य कर्मेत्यर्थः । तदर्थत्वेन भगवदर्थत्वेन निषिद्धमेवेत्यर्थः ।। तत्रेति ।। गीतायामित्यर्थः । तद्व्यञ्जयन् मूलार्थमाह ।। स्वविहितमिति ।। अवगम्यत इति सर्वत्र योज्यमिति प्रागेवोक्तम् । तदुभयमित्यस्य स्वविहितं भगवदर्थं चेत्यर्थः ।।
भावप्रकाशः
तदधीनत्वावगमादिति । भक्तयधीनत्वावगमादित्यर्थः । श्रवणादिवैय्यर्थ्यमिति । भक्तयैव ज्ञानादिसम्भवादिति भावः । अन्यथेति । श्रवणाद्यङ्गीकारे तेनैव ज्ञानादिसम्भवात् भक्तयधीनत्वं न स्यादित्यर्थः । कर्तव्यत्याज्याभावस्याभिधानादिति । अपि चेत्सुदुराचार इत्युक्तेरिति भावः । भगवदाराधनस्यैव कर्तव्यतयेति । अपि चेदित्युक्तिस्तु भक्तिस्तुत्यर्थत्वेनोपन्यस्तेति भावः । मत्कर्मकृदित्यत्र तत्कर्मविकर्मणां केन पदेनोक्तमित्यत आह । यदुक्तमिति । यत्पूर्वं गीतायामुक्तं स्वविहितवृत्तिरूपं मद्विषयं च कर्म तन्मत्कर्मपदवाच्यम् ।। तदेव मूलं तत्कर्मपदेनोक्तमिति भावः । सङ्गवर्जित इति गीतापदानुवादेनास्वविहित इत्यादि व्याख्यानम् । तदेवविकर्मोथ्यत इति । अस्वविहितमभगवद्विषयकमेव कर्मविकर्मपदेनोच्यत इत्यर्थः ।। स मामेतीत्यनेन कर्तव्यत्वत्याज्यत्वे सिद्धे इत्याह । भगवदिति । ज्ञानिनस्तदभावस्य गीताभिमतत्वादिति । यस्त्वात्मरतिरेव स्यादित्यात्मतृप्तश्च मानवः, आत्मन्येव च सन्तुष्टः तस्य कार्यं न विद्यत इत्युक्तेरिति भावः । यस्त्वात्मरतिरिति वचनं असंप्रज्ञातसमाधिस्थपरं न तु ज्ञानिमात्रपरमित्यभिप्रेत्याह । न ज्ञानिन इति । कुरु कर्मैवेत्यत्र ज्ञानिवाचकपदाभावात् तत्पूर्वार्धमुदाहरति । तत्रैवं ज्ञात्वा कर्मेति ।
नन्वेवं ज्ञात्वेत्यत्र भगवत्कर्म किमित्यत आह । स्वविहितं भगवदर्थमेवेति । अत्र मुमुक्षुभिरिति विशेषणात्कर्मपदं विशिष्टकर्मपरं इत्यवगम्यते इति भावः । तदुभयमेव भगवत्कर्मेति स्वविहितभगवदर्थत्वरूपोभयविधत्वोपेतमित्यर्थः ।
वाक्यविवेकः
तत्साधनस्येति ।। श्रवणादिसाधनस्य गुरुशुश्रूषादेरित्यर्थः ।। अन्यथेति ।। श्रवणादेः परोक्षज्ञानादिसाधनत्व इत्यर्थः ।। ननु कर्मणः कर्तव्यत्वं तथा सङ्गवर्जनं चोक्तम् ।। तत्कथं तत्कर्मणां कर्तव्यत्वं त्याज्यत्वं च अवगम्यत इत्युच्यत इत्यत आह ।। यदुक्तमिति । कृष्णेन मत्कर्मेति यदुक्तं तदेव तत्कर्मेति शब्देनोक्त्वा सङ्गवर्जित इत्यत्र सङ्गप्रतियोगित्वेन यत् विवक्षितं तदेव विकर्मशब्देनोक्तमिति भावः । ननु मत्कर्मकृदित्यनेन मत्कर्मशब्दार्थकर्मकर्तुः भगवत्प्राप्तिरेवोक्ता न तु मत्कर्मशब्दार्थकर्मणः कर्तव्यतेत्यत आह । भगवत्प्राप्तीति । सङ्गवर्जित इति अधिकारिस्वरूपमेवोक्तं न तु तस्य त्याज्यत्वमित्यत आह । तदर्थत्वेनेति । भगवत्प्राप्त्यर्थत्वेनेत्यर्थः । तदुभयमेवेति । स्वविहितत्वभगवदर्थत्वरूपोभयविशेषस्य विशिष्टं कर्मेत्यर्थः । देवैः सह पठितत्वेनेति ।