श्री भगवानुवाच

दशमोऽध्यायः

भगवाननादिः

श्री भगवानुवाच—

भूय एव महाबाहो ृणु मे परमं वचः ।

यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ।। १ ।।

न मे विदुः सुरगणाः प्रभवं न महर्षयः ।

अहमादिर्हि देवानां महर्षीणां च सर्वशः ।। २ ।।

तात्पर्यम्

उपलक्षणार्थं सुरगणा इत्यादि ।। १,२ ।।

न्यायदीपिका

षष्ठे ध्यानमुक्तम् । तत्र ध्येयतया भगवद्विभूतिरूपाण्यत्रोच्यन्त इत्यध्यायार्थस्यातिरोहितत्वादनुक्तिः । भूयो महिमानं ृण्विति प्रतिज्ञातमुच्यते ।। नमे विदुरिति ।। तत्र मे महिमानं सुरगणा महर्षयश्च न विदुरित्येवोक्तत्वाद्गन्धर्वादयो विदुरित्यन्यथाप्रतीतिनिरासायाह ।। उपलक्षणार्थमिति ।। सुरगणा महर्षय इति पदद्वयं सर्वोपलक्षकम् । सुरगणादीनामज्ञानेऽन्येषां सुतरां तद्भावादिति भावः ।। १,२ ।।

किरणावली

भाष्योक्तमध्यायार्थमाह ।। षष्ठ इति ।। मन्मना भवेति नवमान्ते स्मारितं चेत्यपि ग्राह्यम् । तेन षष्ठानन्तर्यशङ्कानवकाशः । भोक्तारं यज्ञतपसामित्यादिना पञ्चमादौ तत्र तत्र यद्यपि ध्येयमुक्तम् । तथाऽपि विशिष्टाधिकारिणां भगवद्विभूतय उपास्या अत्रोच्यन्त इति भावेनोक्तम् ।। तत्र ध्येयतया भगवद्विभूतीति ।। उपलक्षणमेतत् । सर्वाज्ञेयत्वं यथाशक्तिस्वज्ञानान्मोक्षप्रदत्वं बुध्द्यादीनां च सामर्थ्यातिशयोपेततया भगवतो निर्माणं चात्रोच्यते । विभूतिरूपप्रतिपादनस्यात्र प्रायिकत्वादध्यायस्यैकवाक्यत्वं बोध्यम् ।। तद्भावादिति ।। अज्ञानभावादित्यर्थः । तदभावादिति क्वचित्पाठः । ज्ञानाभावादित्यर्थः ।। १,२ ।।

भावदीपः

भाष्योक्तमध्यायार्थमाह ।। षष्ठ इति ।। मन्मना भवेति नवमान्ते स्मारितं चेत्यपि ग्राह्यम् । तेन षष्ठानन्तर्यशङ्कानवकाशः । भोक्तारं यज्ञतपसामिति पञ्चमान्तादौ तत्र तत्र ध्येयमुक्तम् । तथापि विशिष्टाधिकारिणां भगवद्विभूतय उपास्या इति भावेनोक्तम् ।। भगवदित्यादि ।। विभूतिशब्दार्थोऽग्रे व्यक्तः ।। तद्भावादिति ।। अज्ञानभावादित्यर्थः ।। १,२ ।।

भावप्रकाशः

उपासनार्थं विभूतीर्विशेषकारणत्वं च केषाञ्चिदनेनाध्यायेनाहेति भाष्यं मनसि निधाय पूर्वाध्यायसङ्गतत्वेनैतदध्यायार्थं दर्शयति ।। षष्टे ध्यानमिति ।। उक्तमित्यनन्तरं तन्नवमान्ते मन्मना भवेति स्मारितं तच्च ध्येयसापेक्षमिति शेषः ।। भगवद्विभूतिरूपाणीति । विशिष्टाधिकारिणां भगवद्विभूतिरूपाणामेवोपास्यत्वादिति भावः ।। उपलक्षणमेतत् । बुध्यादीनां महर्ष्यादीनां चादौ सामर्थ्यातिशयोपेततया भगवतः सकाशान्निर्माणं चाहेति द्रष्टव्यम् ।। प्रतीतार्थे बाधकमाह । सुरगणादीनामिति । तदभावादिति । ज्ञानाभावादित्यर्थः । तद्भावादिति पाठे त्वज्ञानभावादित्यर्थः ।। १२ ।।

वाक्यविवेकः

मूले अध्यायप्रतिपाद्यप्रतिपादकं वाक्यमुच्छिन्नमिति शङ्कां परिहर्तुमाह । षष्ठे ध्यानमुक्तमिति । मूले उपलक्षणार्थं सुरगणा इत्यादीति ।। सुरगणाः महर्षय इति पदद्वयं व्यासज्यवृत्तिलक्षणया गन्धर्वादीनां बोधकमिति भावः ।। एतेन द्वाभ्यां पदाभ्यां लक्षणायां द्विर्बोधप्रसङ्ग इति परास्तम् ।। १२ ।।