तात्पर्यम्

भगवतो विश्वरूपं स्वयोग्यत्वानुसारतः सर्वैरपि दृष्टम्

तात्पर्यम्

त्रिलोकेषु स्थितैर्भक्तैरर्जुनाय प्रदर्शितम् ।

दृष्टं विष्णोर्विश्वरूपं स्वयोग्यत्वानुरूपतः ।

प्रायः सहैव पार्थेन प्रायो भीताश्च तेऽखिलाः ।

दर्शनाभ्यासतो दृष्टिरानन्दोद्रेकता भवेत् ।

तस्मिन् काले तु भूमेश्च भारहारार्थमुद्यमात् ।

उग्रत्वमिव सर्वत्र न भीतिर्ब्रह्मदर्शिनाम् ।

अर्जुनादधिका ये तु तेषां भीतिर्नचाभवत् ।

श्रीब्रह्मरुद्रपूर्वाणां कृष्णाया भीमरामयोः’ इत्याग्नेयवचनात्

दृष्ट्वाऽद्भुतं रूपम्’ इत्यादि युज्यते ।। १९,२० ।।

प्रकाशिका

‘‘द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वा’’ इत्यत्रैकशब्दस्य सार्थक्यमाह ।। एकेनैव रूपेण व्याप्तमिति ।। सर्वा दश दिशो रूपान्तरैर्भगवता व्याप्ता इत्यर्थः ।। अस्मिन्वाक्येऽप्यपरिमितत्वमुच्यते विष्णोः ।। अनादिमध्यान्तमिति ।। तत्परिमाणेतरगुणानन्त्यापेक्षया युज्यते ।। ‘‘नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वरेति पूर्वमुक्तत्वात् परिमाणानवधिकत्वस्य ।। कालतश्चानन्त्यमुत्तरत्रोच्यते विष्णोः ‘‘त्वया ततं विश्वमनन्तरूपे’’त्यत्रानन्तरुपशब्देन ।। तदाह ।। नान्तमिति ।। त्वया ततं विश्वमित्यस्यार्जुनवाक्यस्याभिप्रायमाह ।। स्वयमिति ।। अन्यदप्यस्मिन्नध्याये यदर्जुनवचनं पश्यामि त्वां सर्वतोऽनन्तरूपमित्यादि तद्देशतः कालतो गुणतश्च विष्णोरपरिमितत्वे तात्पर्यम्

 ।। अभ्यासस्य तात्पर्यज्ञापकत्वात् ।। न च वाच्यं ‘‘नमोऽस्तु ते सर्वत एव सर्वे’’त्यर्जुनेन विष्णोः सर्वात्मकत्वभुक्तमिति । ‘‘सर्वं समाप्नोषि ततोऽसि सर्व’’ इत्युक्तत्वात् ।। अनेन ‘‘सर्वं खल्विदं ब्रह्मे’’त्यादि वाक्यगतसर्वशब्दो व्याख्यातो भवति ।। तदेतदाह ।। अन्यदित्यादिना ।। ‘‘दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन्नि’’त्यादेरर्थं सर्वशङ्कोद्धारेणाह ।। त्रिलोकेष्वित्यादिना ।। २० ।।

न्यायदीपिका

द्यावापृथिव्योरित्यत्र त्वयेत्युक्तयैवैकेनेति सिद्धत्वात्किमर्थं पुनरेकेनेत्युच्यत इत्यतस्तस्य सार्थक्यमाह ।। द्यावापृथिव्योरिति ।। अनादिमध्यान्तमिति परिमाणानन्त्यमुच्यत इत्यन्यथाप्रतीतिनिरासायाह ।। नान्तमिति ।। अनादिमध्यान्तमित्यत्र परिमाणेतरगुणानन्त्यमेवोच्यते न तु परिमाणानन्त्यम् । तस्य नान्तं न मध्यमित्यनेनोक्तत्वादित्यर्थः । त्वया ततं विश्वमनन्तरूपेत्यत्रानन्तरूपेति पुनरुक्तिरित्यत आह ।। त्वयेति ।। तर्हि नान्तं न मध्यं न पुनस्तवादिं पश्यामीति परिमाणानन्त्यस्योक्तत्वात् । त्वया ततं विश्वमिति पुनरुक्तिरित्यत आह ।। स्वयमिति ।। नान्तं पश्यामीत्युक्ते नेश्वरस्य परिमाणानन्त्यं सिध्यति । विद्यमानमन्तं स्वयं न पश्यतीत्यपि प्रतीतेः । तन्निवृत्त्यर्थं न केवलमहं पश्यामि किंतु त्वया ततं विश्वमित्युक्तत्वेन सप्रयोजनत्वान्न पुनरुक्तिरिति भावः । तथापि पश्यामि त्वां सर्वतोऽनन्तरूपं द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वा इत्यादिपुनरुक्तिरित्यत आह ।। अन्यदिति ।। एतद्वाक्यजातस्य विष्णोर्देशतः कालतो गुणतश्चानन्त्ये स्वस्य महातात्पर्यज्ञापनायाभ्यासरूपत्वान्न पुनरुक्तिदोष इति भावः । अनन्तवीर्यामितविक्रमस्त्वं, सर्वं समाप्नोषीति पुनरुक्तिशङ्का पूर्वोक्तयैव गर्भस्रावेण गता । तथापि तस्य प्रयोजनान्तरमाह ।। सर्वमिति ।। सर्वं खल्विदं ब्रह्मेत्यादेः सर्वस्य जगतो ब्रह्मात्मकत्वात् त्वमस्य विश्वस्य परं निधानमित्याद्ययुक्तमित्याशङ्क्य तच्छतिगतसर्वशब्दस्य ब्रह्मैवार्थः सर्वव्याप्तत्वादित्यत्रोच्यते । अतो न पौनरुक्तयमिति भावः । ननु स्वयमेव नमोऽस्तुते सर्वत एव सर्वेति सर्वशब्देन सम्बोध्य सर्वं समाप्नोषीति किमर्थमसौ व्याख्यायत इत्यतो वाऽऽह ।। सर्वमिति ।। नात्र स्ववचनं व्याक्रियते येन वैयर्थ्यं स्यात् । किं तु सर्वं खल्विदं ब्रह्म सर्वं ह्येतद्ब्रह्मेत्यादि वाक्येषु श्रुतसर्वशब्दमनूद्य तद्व्याख्यानमिदं स्वोक्तस्थापनार्थमिति ।।

ननु मन्यसे यदि तच्छक्यं मया दृष्टुं इति स्वस्यापि यद्दर्शनमसुलभमुक्तं तादृशरूपदर्शनं कथं लोकत्रयस्य दृष्ट्वाऽद्भुतं रूपं इत्यादिनाऽर्जुनेनोच्यते । सुखमात्यन्तिकं इत्यादौ भगवद्दर्शनस्य परमानन्दहेतुत्वेनोक्तत्वात् कथं विश्वरूपदर्शनस्य व्यथाहेतुत्वमुच्यत इत्यत आह ।। त्रिलोकेष्विति ।। किं विश्वरूपदर्शनं सर्वभयङ्करमित्यत आह ।। दर्शनेति ।। किमेवं सर्वरूपेष्वपि प्रथमतो भीतिर्भवतीत्यत आह ।। तस्मिन्निति ।। उग्रत्वमिव, अतो भीतिरिति शेषः । तर्हि सर्वेषामपि भयसम्भवात् किमर्थमुच्यते प्रायो भीता इत्यत आह ।। अर्जुनादिति ।। एतद्वचनबलेन लोकत्रयशब्दस्य तत्र स्थितविश्वरूपदर्शनयोग्यप्रतिबन्धकहीनभक्तविषयत्वाद्भगवतः किंचिदुग्रत्वात्तद्दर्शिनां भयस्यापि सम्भवाद्दृष्ट्वाऽद्भुतमित्यादिवाक्यमुपपन्नमिति भावः ।। १९२० ।।

किरणावली

द्यावापृथिव्योरित्यत्र त्वयेत्युक्तयैवेति ।। एकवचनेनैव द्व्येकयोर्द्विवचनैकवचने इत्युक्तरीत्यैकेनेति सिद्धत्वादित्यर्थः ।। तस्य सार्थक्यमाहेति ।। त्वया व्याप्तमित्युक्ते त्वयानन्तरूपैर्व्याप्तमित्यपि प्रतीयेत । तन्निरासाय द्यावापृथिव्योरिदमन्तरं त्वयैकेन ह्येकेनैव रूपेण व्याप्तम् । हिर्हेताववधारण इति हिशब्दस्यावधारणार्थेऽभिधानात् । चस्त्वर्थः । सर्वा दिशस्तु रूपान्तरैर्व्याप्ता इति गीतार्थ इति भावेन सार्थक्यमाहेत्यर्थः । उक्तं च श्रीपद्मनाभतीर्थीये । सर्वादिशो रूपान्तरैर्भगवता व्याप्ता इति । तथा च भाष्ये । मातापित्रोरन्तरगः स एकरूपेण चान्यैःसर्वगतः स एक इति वारुणश्रुतेरेकेन रूपेण द्यावापृथिव्योरन्तरं व्याप्तो भवति । पश्य मे पार्थरूपाणीति बहुदेशस्थरूपानन्त्यविवरणेन गुणप्रकरणत्वादिति भावः ।। तस्य नान्तमिति ।। हे विश्वरूप व्याप्तरूपेति सम्बोधनादिति भावः ।। अनन्तरूपेति पुनरुक्तिरिति ।। नान्तं न मध्यमिति परिमाणानन्त्यस्यानादिमध्यान्त इति वीर्यादिगुणानन्त्यस्य चोक्तत्वादिति भावः । भाष्ये तु । अनन्तरूपेत्येतदेकत्रानन्तान्यस्य रूपाणि सन्तीत्यनन्तरूपेति व्याख्यातम् ।। इत्यादिपुनरुक्तिरिति ।। उदाहृतं देशतो व्याप्त्या परिमाणानन्त्यपरं वाक्यद्वयं नान्तं न मध्यं न पुनस्तवादिं पश्यामि त्वां सर्वत इत्यादिवाक्येन पुनरुक्तम् । आदिपदोपात्तमनन्तरूपम् । त्वमव्ययः सनातन इत्यादिकं कालानन्त्यपरमनन्तरूपेत्यनेन पुनरुक्तम् । ‘‘त्वमस्य विश्वस्य परं निधानमि’’ति सर्वाश्रयत्वस्य त्वमक्षरमित्यक्षरपदोदितस्याक्षयाप्रतिरूपत्वादक्षेषु रमणादपीत्युक्तरीत्याऽनन्दादिगुणस्य दीप्तमनेकवर्णमिति प्रकाशादिगुणस्य च प्रतिपादकं वाक्यजातमनादिमध्यान्तमनन्तवीर्यमित्यादि गुणानंत्यप्रतिपादकवाक्येन पुनरुक्तमित्यर्थः ।

यद्यपि ‘‘पश्यामि त्वां सर्वतोऽनन्तरूपमि’’ति वाक्यं तानि चैकैकानि रूपाण्यनन्तानि चैकत्र भवन्तीति भाष्योक्तरीत्या सर्वत्र हृदयाकाशादिगते रूपेऽप्यनन्तपरिमाणवत्वप्रतिपादकत्वान्न पुनरुक्तम् । तथापि पश्यामि त्वां सर्वतोऽनन्तरूपमित्यस्यैतद्ग्रन्थरीत्या देशकालानन्त्यपरत्वप्रतिभासानन्तरूपमनवधिकपरिमाणं सर्वत्र त्वां पश्यामीति प्रवृत्तविश्वरूपस्य परिमाणानन्त्यमात्रपरत्वेन प्रकारान्तरेण व्याख्यातत्वाच्च पौनरुक्तयं द्रष्टव्यम् । तथा च भाष्यमन्यत्रत्वपरिमाण इति ।। पूर्वोक्त्यैवेति ।। अभ्यासरूपमित्युक्तयैवेत्यर्थः ।। सर्वं खल्विदं ब्रह्मेत्यादेः सर्वस्येति ।। आदिपदेन अहमेवेदं सर्वोऽस्मीत्यादेर्ग्रहणम् ।। सर्वशब्दस्य ब्रह्मैवार्थ इति ।। न तु जगदित्येवार्थस्तथाचेदं ब्रह्मैव सर्वं सर्वत्र परिपूर्णमित्यर्थ इति भावः । यद्वा सर्वव्याप्तत्वात्सर्वनामकमिदं भगवत्स्वरूपं ब्रह्मपरिपूर्णमित्यर्थ इति भावः ।। नात्र स्ववचनं व्याक्रियत इति ।। स्ववचनमात्रं न व्याक्रियत इत्यर्थः । एतेन श्रीमत्पद्मनाभतीर्थभट्टारकैर्नच वाच्यं नमोऽस्तुते सर्वत एव सर्वेत्यर्जुनेन विष्णोः सर्वात्मकत्वमुक्तमिति । सर्वं समाप्नोषि ततोऽसि सर्व इत्युक्तत्वात् । अनेन सर्वं खल्विदं ब्रह्मेत्यादिवाक्यगतसर्वशब्दोऽपि व्याख्यातो भवतीत्युक्तत्वाद्विरोध इति निरस्तम् ।। सुखमात्यन्तिकमित्यादाविति ।।

सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् ।

वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ।।

इत्यत्र यत्र समाधियोगावस्थायां स्थित आत्यन्तिकं सुखं स्वरूपसुखं वेत्त्यनुभवतीत्युक्तत्वादित्यर्थः । त्रिलोकेषु स्थितैरित्यादि मूले ज्ञानप्रतिबन्धकयुक्तभक्तव्यावृत्त्यर्थमुक्तं प्राय इति । कालेत्विति तुशब्दो विशेषार्थः । भूमेश्चेति चशब्दोऽवधारणे । कृष्णस्योद्यमादेवेति सम्बध्यते ।

ननु विश्वरूपप्रदर्शनेन यथाभीतिः तथा रूपान्तरदर्शनेऽपि किं भीतिर्भवतीति प्रश्ने तत्रैव भीतिर्न सर्वत्रेति वक्तव्यम् । विश्वरूपस्योग्रत्वमिवेत्यनुत्तरमित्यतो व्याचष्टे ।। उग्रत्वमिवातो भीतिरिति शेष इति ।। एतेन तस्मिन्काले कृष्णस्य विशेषाकारेण भूभारहरणार्थमुद्यमादेव विश्वरूपस्योग्रत्वमिव किंचिद्भयहेतुत्वम् । उपमार्थे तथाल्पेऽपीवशब्दः प्रयुज्यत इति वचनात् । वक्ष्यति च किंचिदुग्रत्वेनेति । अत एव गीतायां हृषितोऽस्मि दृष्ट्वा भयेन चेत्युक्तं बहुतरभयहेतुत्वे हर्षानुपपत्तेः । यत एवं भयहेतुत्वमतस्तद्दर्शिनां भीतिः सर्वत्र सर्वत्र सर्वस्मिन्काले सर्वत्र रूपेषु नोग्रत्वमिव किंचिद्भयहेतुत्वं च नास्त्यतो भगवत्स्वरूपदर्शिनां नभीतिरिति योजनोक्ता भवति । एतेन महाभारततात्पर्यनिर्णये सौम्यस्वरूपोऽप्यतिभीषणं मृषा तच्चक्षुषो रूपमहं प्रदर्शय इत्युग्रत्वाभावस्योक्तत्वात् । अत्र किंचिदुग्रत्वमित्यङ्गीकारे विरोध इति निरस्तम् ।

तत्र राक्षसादीनामिवातिभीषकविकृताकाराभावस्योक्तत्वादत्र परममङ्गलविग्रहस्यैव भयहेतुत्वमात्रोक्तेरिति । अर्जुनादधिकायेत्विति तुशब्दो धर्मेभ्यो विशेषं द्योतयति । य एवेत्यवधारणेवा । य एवार्जुनादधिकास्तेषां भीतिर्नचाभवन्नैव वा भवेत् । अधमेषु कस्यचिन्नारदस्यैव न भीतिरुत्तमानां तु सर्वेषामिति विशेषो बोध्यः । तथा च भाष्ये न तु नियमतो भयप्रदं तद्रूपम् । नारदस्य तदभावादिति । ननु लोकत्रयस्य कथं विश्वरूपसन्दर्शनं जडत्वात् । लोकत्रयशब्दस्य तत्स्थजनलक्षकत्वेऽपि कथमयोग्यानां तद्दर्शनम् । योग्यजनपरत्वेऽपि कथमेकप्रकारेण सर्वेषां तद्दर्शनं कथं वा प्रतिबन्धकयुक्तजनस्य तद्दर्शनं कथं प्रव्यथितत्वं भगवद्दर्शनस्य सुखहेतुत्वादिति शङ्कायां कथं त्रिलोकेषु स्थितैरित्याद्याग्नेयवचनाद्दृष्ट्वाऽद्भुतं रूपमित्यादि युज्यत इति समाधानमित्यत आग्नेयवचनेन शङ्कापरिहारलाभप्रकारमाह ।। एतद्वचनबलेनेति ।। त्रिलोकेषु स्थितैरिति वचनबलेन लोकत्रयशब्दस्य तत्रस्थजनविषयत्वाद्भक्तैरिति वचनबलेन विश्वरूपदर्शनयोग्यविषयत्वात् । स्वयोग्यत्वानुरूपत इति वचनबलेन स्वयोग्यतानुसारेण विश्वरूपदर्शनयोग्यजनपरत्वात्प्रायो दृष्टमिति वचनबलेन प्रतिबन्धकहीनभक्तजनविषयत्वावगमात् । उग्रत्वमिवेति वचनबलेन प्रव्यथितमिति व्यथितशब्दस्याल्पभयवत्त्वार्थकत्वावगमाद्दृष्ट्वाऽद्भुतमित्यादिवाक्यमुपपन्नमित्यर्थः ।। १९२० ।।

भावदीपः

परिमाणतो परिच्छिन्नरूपेति मत्वाऽऽह ।। अनन्तरूपेति ।। पुनरुक्तिरिति ।। पूर्वोक्त्यैवेति ।। अभ्यासरूपमित्युक्त्यैवेत्यर्थः ।। परं निधानम् ।। उत्तमाश्रय इत्यर्थः । मयेदं व्याप्तमित्यादिरादिपदार्थः ।। अत्रोच्यते ।। गीतायामुच्यत इत्यर्थः ।। असाविति ।। सर्वशब्द इत्यर्थः । स्वोक्तस्थापनायेति ।। परं निधानमित्याद्युक्तस्थापनायेत्यर्थः ।। १९ ।।

भावप्रकाशः

परिमाणस्य गुणत्वापुनरुक्तिस्तदवस्थैवेत्यतो व्याचष्टे । अनादिमध्यान्तमित्यत्रेति । पूर्वोक्तेनेति । अन्यतात्पर्यज्ञापनायेत्यनेनेत्यर्थः । इदानीं श्रुतिव्याख्याने का सङ्गतिरित्यत आह । सर्वं खल्विदं ब्रह्मेत्यादेरिति । मूले इत्यादिष्वित्यनन्तरं वाक्येषु श्रुतिपदद्वयस्थमध्याहृत्य व्याचष्टे । इत्यादिवाक्येषु श्रुतेति ।। १९ ।।

Load More