गीता
तामसाहाराः
गीता
यातयामं गतरसं पूति पर्युषितं च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ।। १० ।।
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ।। ११ ।।
तात्पर्यम्
‘यामान्तरितपाकं तु यातयाममुदीर्यते ।
क्वचिच्च गतसारं स्यान्नियम्यं यातमस्य यत्’
इति च । पूर्वं स्वादु पश्चादन्यथाजातं गतरसम्
‘शुद्धभागवतानां तु स्वभावापेक्षयैवतु ।
स्वादुत्वादि विजानीयात् पदार्थानां न चान्यथा’
इति सूदशास्त्रे ।। १०, ११ ।।
न्यायदीपिका
पङ्क्तिपावनपुरुषशेषान्नस्य सात्त्विकत्वप्रसिद्धेः कथं यातयामं तमसमित्यतः प्रकारान्तरेण प्रमाणत एव व्याचष्टे ।। यामेति ।। यामं याम्यं नियम्यं अपेक्षितांशः सार इति यावत् । तर्हि गतरसमिति पुनरुक्तिरित्यत आह ।। पूर्वमिति ।। यो वा को वा यस्य सारस्तदपगमे यातयामम् । स्वादुत्वापगमे गतरसमित्यर्थ भेद इति भावः । रूक्षशब्देन राजसतयोक्तनीरसस्य कथं तामसत्वमुच्यत इत्यतोवाऽऽह ।। पूर्वमिति ।। स्वत एव नीरसं रूक्षम् । पूर्वं स्वाद्वेव पश्चादन्यथा जातं गतरसमित्यदोष इति भावः । अपगतस्वादुत्वं तामसत्वमिति दुर्गमम् । एकस्यैव वस्तुनः पुरुषभेदेन स्वादुत्वास्वादुत्वसम्भवेन स्वाद्वादेरनिश्चयादित्यत आह ।। शुद्धेति ।। १०११ ।।
किरणावली
कथं यातयाममिति ।। पङ्क्तिपावनोपभुक्तशेषान्नस्य यामान्तरितपाकत्वस्यावर्जनीयत्वादिति भावः ।। प्रकारान्तरेणेति ।। प्रकारान्तरेणापीत्यर्थः । गतसारस्य यातयामशब्दार्थत्वमुपपादयन्नियम्यं यातमस्य यदिति मूलं योजयितुमाह ।। यामं याम्यमिति ।। अनेन कर्मणि घञन्तं यामपदमित्युक्तं भवति । यमेरनेकार्थत्वात्किंनाम याम्यमित्यतः प्रवृत्तं मूलं संगमयति ।। नियम्यमिति ।। तद्व्याचष्टे ।। अपेक्षितांश इति ।। इदमेव मे स्यादिति नियम्यमपेक्षितांश एवेति भावः । सारग्रहणं तात्पर्यकथनपरमिति भावेनाह ।। सार इति यावदिति ।। ननु गदमदचरयमश्चानुपसर्गे । एभ्यो धातुभ्योऽनुपसर्ग एव यत्प्रत्ययविधानात्कथं नियम्यमिति सोपसर्गो यत्प्रत्यय इति चेन्न । अत्र केचिन्नायमुपसर्गः किंतूपसर्गप्रतिरूपको निःशब्द एवेत्याहुः । अन्येतुनात्र गदमदेत्यादिसूत्रेण यत्प्रत्ययो येन सोपसर्गे तदयोगः स्यात् । किंतु पोरदुपधादित्यनेन यत्प्रत्ययः । तथाचोपसर्गसाहित्येपि पवर्गात् अदुपधाच्च यत्प्रत्ययोपपत्तेरस्य चादुपधत्वाद्यत्प्रत्ययोपपत्तिरित्याहुः । अपरेतु । नियम्यमित्यस्य नियमे साधु नियम्यमित्यर्थः । तथा च तत्र साधुरित्यनेन यत्प्रत्यये सामान्ये कर्मण्य इत्यादिवन्नियम्यमिति सिद्ध्यतीत्याहुः ।। तदपगम इति ।। धर्मिभूतसारापगमे यातयामम् । सत्यपि सारे तस्य स्वादुत्वापगमे गतरसमित्यर्थभेद इत्यर्थः ।।
एकस्यैव वस्तुनः पुरुषभेदेनेति ।। एकस्यैव कदलीफलस्य परिपाकदशायामेकस्य स्वादुत्वमतीव परिपाकेऽन्यस्य स्वादुत्वमिति पुरुषभेदेन स्वादुत्वास्वादुत्वसम्भवेनैकं प्रति स्वादुत्वापगमेऽप्यन्यं प्रति तदनपगमाद्दुरवगममित्यर्थः । एतेनापगतस्वादुत्वं तामसत्वमिति दुर्गममिति प्रतिज्ञाय पुरुषभेदेन स्वादुत्वास्वादुत्वनिरूपणमसङ्गतम् । एकस्यैव तिंतिणीफलस्य मधुरे प्रीतियुक्तं प्रत्यस्वादुत्वात् आम्ले प्रीतिमन्तं प्रति स्वादुत्वात्पुरुषभेदेन स्वाद्वस्वादुनिफलेऽपगतसारत्वाभावादिति निरस्तम् । पक्वातिपक्वकदलीफलादेरुदाहरणात् । शुद्धभागवतानामिति मूले भागवतत्रैविद्यनिरासाय शुद्धेतिविशेषणम् । आद्यस्तुशब्दोऽवधारणे । शुद्धभागवतानामपरोक्षज्ञानिनां निश्चितत्वानामेवतु विशिष्य प्रायशोऽभिव्यक्तस्वभावापेक्षयैव स्वादुत्वादिविजानीयान्नचान्यथा विजानीयात् । न यस्य कस्यचित्स्वादुत्वास्वादुत्वविवक्षया । नापि शुद्धभागवतानामेव कदाचित्पित्तादिधात्वौपाधिकभावापेक्षयेत्यर्थः ।। १०,११ ।।
भावदीपः
कर्मणि घञन्तं यामपदमित्युपेत्याह ।। यामं याम्यमिति ।। तत्रेति ।। याग इत्यर्थः
।। १० ।।
भावप्रकाशः
कथं यातयाममिति ।। पङ्क्तिपावनपुरुषशेषान्नस्य यामान्तरितपाकत्वस्यावर्जनीयत्वादित्यर्थः ।। प्रकारान्तरेणेति । प्रतीतप्रकारापेक्षया प्रकारान्तरेणेत्यर्थः ।। सारस्य यामशब्दार्थत्वमुपपादयति । यामं याम्यमित्यादिना ।। १०११ ।।