गीता

गीता

संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।

योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ।। ६ ।।

तात्पर्यम्

‘मोक्षोपायो योग इति तद्रूपो न्यास एव तु ।

विष्ण्वर्पिततया भद्रो नान्यो न्यासः कथञ्चने’ त्याग्नेये । विष्ण्वर्पितत्वादियोगरूपत्वं विना केवलकर्मत्यागो नरकफल एव । ‘यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डवे’ति वक्ष्यमाणत्वात् । योगविशेषत्वान्न्यासस्य पृथगुक्तिः ।। ६ ।।

प्रकाशिका

सन्यासस्त्वत्येतद्व्याचष्टे ।। मोक्ष इत्यादिना ।। संन्यासस्यायोगरूपत्वं निषिध्य योगरूपत्वमुत्तराध्यायगतवाक्येन योजयति ।। यं संन्यासमिति ।। संन्यासस्य योगरूपत्वेऽपि क्वचित् पृथक् निर्देशो युज्यत इत्याह ।। योगविशेषत्वादिति ।। ६ ।।

न्यायदीपिका

समुच्चितयोरेव योगसंन्यासयोर्निःश्रेयसकरत्वमुक्तम् । असमुच्चये बाधकमुच्यते ।। संन्यासस्त्विति ।। तत्स्मृत्यैव व्याचष्टे ।। मोक्षेति ।। योग इति उच्यत इति शेषः । विष्ण्वर्पिततया तद्रूप इति सम्बन्धः । पादत्रयमुत्तरार्धव्याख्यानम् । नान्य इति पूर्वार्धस्य । तद्विवृणोति ।। विष्णिवति ।। आदिपदेन स्वोचितकर्मणां विष्ण्वर्पणादिकं न कार्यमिति बुद्ध्या कृतो नरकफल इति ज्ञातव्यम् । अयोगत इति योगरूपत्वं विनेति किमर्थमुच्यते । योगं विनेत्येव किं न स्यादित्यत आह ।। यमिति ।। यं सन्यासमिति योगसंन्यासयोरैक्यस्य वक्ष्यमाणत्वात्संन्यासस्य योगरूपत्वमेव वाच्यमित्यर्थः । योगसंन्यासयोरैक्ये संन्यासः कर्मयोगश्चेति पृथगुक्तिः कथमित्यत आह ।। योगेति ।। योगो न्यासश्चेत्येक एवार्थः । अपितु न्यासो योगावान्तरभेदोऽतः कुरुपाण्डववत्पृथगुक्तिरुपपन्नेत्यर्थः ।। ६ ।।

किरणावली

पादत्रयमुत्तरार्धव्याख्यानमिति ।। मोक्षोपाय इति मूले मोक्षोपाय एवेत्येवकारान्वयः । तु शब्दोऽवधारणे । विष्ण्वर्पिततयैव तद्रूपोयोगरूपोन्यासो भद्रः मोक्षहेतुरित्यर्थः । अनेन पादत्रयेण योगयुक्तो विष्ण्वर्पिततया योगरूपन्यासयुक्तो मुनिः संन्यासी ब्रह्म नचिरेणाधिगच्छतीत्यर्थ उक्तो भवतीत्यर्थः ।। ६ ।।

भावदीपः

उत्तरार्धव्याख्यानमिति ।। मोक्षेति प्रथमपादेन योगपदार्थस्य योगयुक्तो मुनिरित्यस्य पादद्वयेन ब्रह्मेत्यादेर्व्याख्यानं भद्र इत्यनेन कृतमित्यर्थः ।। पूर्वार्धस्येति । अन्यो न्यासः भद्रो नेत्युक्त्या तद्व्याख्यानं स्पष्टमेव ।। तदिति ।। पूर्वार्धव्याख्यानमित्यर्थः ।। न कार्यमिति ।। बुद्ध्या कृतो योग इत्यर्थः ।। वक्ष्यमाणत्वादिति ।। उत्तराध्याय इति योज्यम् ।। ६ ।।

भावप्रकाशः

पादत्रयमिति ।। मोक्षोपाय इति पादत्रयम् । योग इत्युक्त इत्युत्तरार्धव्याख्यानमित्यर्थः ।। तदिति ।। नान्य इत्यनेन कृतं पूर्वार्धव्याख्यानमित्यर्थः ।। ६ ।।

वाक्यविवेकः

समुच्चितयोरेव योगसंन्यासयोरिति ।। निश्रेयसकरत्वमुक्तिमित्यर्थः । तत्स्मृत्यैव व्याचष्ट इति । संन्यासो योगाद्भिन्न इति प्रतीतिनिरासाय तद्वाक्यं स्मृत्यैव व्याचष्ट इत्यर्थः । योग इतीत्यनन्तरमध्याहार्यमाह ।। योग इतीति । विष्ण्वर्पिततयेत्यस्य भद्र इत्यनेनान्वय इति प्रतीतिनिरासायाह ।। विष्ण्वर्पिततयेति । पादत्रयमिति । मोक्षोपायो योग इत्यादिपादत्रयं योगयुक्तो मुनिरित्युत्तरार्धव्याख्यानमित्यर्थः ।

नान्य इतीति । नान्यो न्यासः कथंचनेति चतुर्थपादः सन्न्यासस्त्विति पूर्वार्धव्याख्यानमित्यर्थः ।। एतद्विवृणोतीति । प्रमाणेन कृतं गीताव्याख्यानं स्पष्टमाहेत्यर्थः । अनेन हे माहाबाहो संन्यासः अयोगत इत्यत्र योगेति भावप्रधानो निर्देशः । ल्यब्लोपनिमित्तपञ्चम्यास्तसिः । सामर्थ्यात् नञः प्राप्येत्यनेन सम्बन्धः । अयोगतः योगत्त्वमप्राप्य । तुशब्द एवार्थे दुःखमाप्तुं भवत्येव । योगयुक्तो मुनिः योगत्त्वोपेत संन्यासयुक्तोऽधिकारी नचिरेण शीघ्रं ब्रह्म अधिगच्छतीति गीताश्लोको व्याख्यातो भवति ।। ६ ।।

Load More