गीता

गीता

जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।

शीतोष्णसुखदुःखेषु तथा मानापमानयोः ।। ७ ।।

ज्ञानविज्ञानतृप्तात्मा कूढस्थो विजितेन्द्रियः ।

युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ।। ८ ।।

तात्पर्यम्

सर्वत्र विष्णोरुत्कर्षज्ञानं ज्ञानमितीर्यते ।

तद्विशेषपरिज्ञानं विज्ञानमिति गीयते’ इति च ।। ७,८ ।।

प्रकाशिका

‘‘ज्ञानविज्ञानतृप्तात्मा’’ इत्यत्र ज्ञानविज्ञानयोरर्थमाह ।। सर्वत्रेति ।। ७,८ ।।

न्यायदीपिका

योगारूढलक्षणं प्रपंच्यते ।। शीतोष्णेति ।। तत्र ज्ञानविज्ञानशब्दयोरर्थभेदं स्मृत्यैवाह ।। सर्वत्रेति ।। सर्वत्र वेदादौ ।। ७,८ ।।

भावदीपः

यदा हि नेन्द्रियार्थेष्वित्यत्र लक्षणस्योक्तत्वादाह ।। प्रपञ्च््यत इति ।।