श्री भगवानुवाच

पञ्चदशोऽध्यायः

जगद्वृक्षस्वरूपम्

श्री भगवानुवाच—

ऊर्ध्वमूलमधःशाखं अश्वत्थं प्राहुरव्ययम् ।

छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ।। १ ।।

तात्पर्यम्

त्रयोदशोक्तं विविच्य दर्शयति

पृथङ् मूलं हरिस्त्वस्य जगद्वृक्षस्य भूमिवत् ।

सत्त्वादियुक्ते चिदचित्प्रकृती मूलभागवत् ।

अत्रापि चिदचिद्योगो वृक्षवत् सम्प्रकीर्तितः ।

पृथिवीदेवतावत् तद्धरिर्मृद्वदचेतना ।

उत्तमत्वात्तु मूलानामूर्ध्वमूलस्त्वयं स्मृतः

नीचास्ततो महदहम्बुद्धयो भूतसंयुताः ।

शाखाश्छन्दांसि पर्णानि काममोक्षफले ह्यतः ।। १ ।।

प्रकाशिका

ऊर्ध्वमूलमित्यादेरर्थमाह ।। पृथङ्मूलमित्यादिना । त्रयोदशाध्याये यत् क्षेत्रशब्दोक्तं तदश्वत्थशब्देनोच्यते । अश्वत्थसाम्यात् ।। सत्वादियुक्ते चिदचित्प्रकृती मूलभागवत् इत्यनेन सत्त्वरजस्तमोगुणत्रिमूलो जगदश्वत्थ इत्युक्तं भवति ।। मृदाद्यचेतनेत्यचेतनप्रकृतिरित्यर्थः ।। उर्ध्व उत्कृष्टः विष्णुः मूलं यस्यासौ ऊर्ध्वमूलो जगदश्वत्थोऽधोभूता विष्ण्वपेक्षया महदादयः शाखा यस्यासावधःशाख इत्यर्थः ।। ‘‘पर्णानन्तरभावित्वात् वृक्षफलस्य काममोक्षफले ह्यत इत्युक्तम् ।। १ ।।

न्यायदीपिका

एतदध्यायप्रतिपाद्यमर्थं दर्शयति ।। त्रयोदशेति ।। यत् त्रयोदशाध्याये जगत्स्वरूपं वर्णितं तदस्मिन्नध्याये विविच्य दर्शयति ।। तस्यैव संसाररूपत्वात् । संसारं जिहासता तत्स्वरूपस्य ज्ञातव्यत्वात् । यश्च तत्र संसारात्ययोपायो निरूपितस्तं चात्र दर्शयतीत्यर्थः । तत्राप्रतिपत्त्यन्यथाप्रतिपत्तिनिरासाय श्रुत्यैवाध्यायो व्याख्यायते ।। पृथगिति ।। तत्रोर्ध्वमूलमित्यस्यार्थः पृथगिति ।। जगद्वृक्षस्य हरिर्मूलं चेत्तर्हि तस्य जगदेकदेशत्वं स्यादित्यतः पृथगित्युक्तम् । यथा प्रसिद्धस्य वृक्षस्य भूमिरतदेकदेशत्वेन मूलं तथैवेत्यर्थः । प्रकारान्तरेणोर्ध्वमूलत्वं दर्शयति ।। सत्त्वादीति ।। मूलभागवदिति ।। प्रसिद्धवृक्षस्यैकदेशभूतमूलवन्मूलमित्यर्थः । सत्त्वादियुक्ते इत्यनेन त्रिमूलो जगद्वृक्ष इत्युक्तं भवति ।। गुणप्रवृद्धा इत्यस्य तात्पर्यं चोक्तं भवति । मूलैर्हि शाखाः प्रवर्धन्ते । ननु जगतोऽचेतनत्वादचेतनप्रकृतेरेवैतन्मूलत्वं न चेतनप्रकृतेरित्यत आह ।। अत्रापीति ।। यदि हरिर्भूमिवन्मूलं तर्हि तस्य जगद्रूपेण परिणामः स्यात् । भूम्यंशानां लोके परिणामित्वदर्शनादित्यत आह ।। पृथिवीति ।। तत्तत्र जगद्वृक्षे हरिः प्रसिद्धवृक्षस्य पृथिवीदेवतावन्निमित्तत्वेनैव मूलं नतु मृद्वदुपादानतयेत्यर्थः । तर्हि तद्वत्परिणामितया मूलं किमित्यत आह ।। मृद्वदिति ।। अचेतना अचेतनप्रकृतिः । एवं चेज्जगद्वृक्षो विष्ण्वादिमूलः स्यादूर्ध्वमूलः कथमित्यत आह ।। उत्तमत्वादिति ।। विष्णोः सर्वोत्तमत्वाच्छ्रियः परतन्त्रेषूत्तमत्वादचित्प्रकृतेरचेतनेषूत्तमत्वादूर्ध्वानि उत्तमानि विष्ण्वादिमूलानि यस्यासावूर्ध्वमूल इत्यर्थः । अधःशाखमित्यस्यार्थो नीचा इति । अधो भगवदपेक्षया नीचामहदादयः शाखा यस्यासावधःशाख इत्यर्थः । जगद्वृक्षस्येति सम्बध्यते । छन्दसां पर्णत्वमुपपादयति ।। कामेति ।। लोके पर्णोत्पत्त्यनन्तरमेव फलदर्शनादत्रापि फलहेतुत्वाच्छन्दसां पर्णत्वमिति भावः । अनेन धर्मार्थयोः काममोक्षार्थत्वात्काममोक्षाख्यद्विफलो जगद्वृक्ष इत्युक्तं भवति ।। १ ।।

किरणावली

ननु त्रयोदशाध्याये षट्कद्वयोक्ताः ज्ञानसाधनज्ञेयस्वरूपक्षेत्रपुरुषाः पिण्डीकृत्योक्ताः । भाष्यतात्पर्ययोस्तथावगमात् । एतदध्यायभाष्ये तु संसारस्वरूपतदत्ययोपायविज्ञानान्यस्मिन्नध्याये दर्शयतीत्यध्यायप्रतिपाद्यमुक्तम् । तत्कथं भाष्यतात्पर्ययोरेकवाक्यतेत्यत आह ।। यदित्यादिना ।। त्रयोदशाध्याये इदं शरीरं कौन्तेयक्षेत्रमित्यभिधीयत इत्युपक्रम्य महाभूतानीत्यादिना यज्जगत्स्वरूपं वर्णितं तदस्मिन्नध्याये ‘‘ऊर्ध्वमूलमधः शाख’’मित्यादिना विविच्य दर्शयतीत्यर्थः । भाष्येणैकवाक्यतामाह ।। तस्यैवेति ।। बन्धकत्वादिति भावः । किमर्थं तद्वर्णनीयमित्यत आह ।। संसारमिति ।। यश्च तत्रेति ।। त्रयोदशे यश्च तदत्ययोपायः अमानित्वमित्यादिना ‘‘अध्यात्मज्ञाननित्यत्वं तत्वज्ञानार्थदर्शन’’मित्यन्तेनोक्तस्तं चात्र ‘‘निर्मानमोहाजितसंगदोषा अध्यात्मनित्या’’ इत्यादिना दर्शयति । उपलक्षणमेतत् । यच्च तत्र ज्ञेयं यत्तत्प्रवक्ष्यामीत्युपक्रम्यानादिमत्परं ब्रह्म न सत्तन्नासदुच्यत इत्यादिना ज्ञेयस्वरूपमुक्तं तच्चात्र द्वाविमावित्यादिना दर्शयतीत्यादि ज्ञेयम् ।। अप्रतिपत्त्यन्यथाप्रतिपत्तीति ।। ऊर्ध्वादिशब्दानां भगवदादिविवक्षितार्थाप्रतीतिः । ऊर्ध्वशब्दस्य स्वर्गाद्यर्थतया अधःशब्दस्य पातालाद्यर्थतया परेण व्याख्यातत्वादन्यथाप्रतीतिरिति भावः ।। जगदेकदेशत्वमिति ।। वृक्षमूलस्य वृक्षैकदेशत्वादिति भावः ।। प्रकारान्तरेणोर्ध्वमूलत्वमिति ।। ऊर्ध्वं उत्तमं चिदचित्प्रकृत्याख्यं जगद्वृक्षान्तर्गतं प्रधानमूलं यस्य ऊर्ध्वा उत्तमाः सत्त्वादयो गुणाः अर्वाचीनमूलानि यस्य स ऊर्ध्वमूलस्तमिति प्रकारान्तरेणेत्यर्थः ।।

त्रिमूल इति ।। अर्वाचीनमूलत्रयवानित्यर्थः । ततः जडप्रकृतेर्गुणानां च मूलत्वं भूमिवदुपादानत्वेन चित्प्रकृतेस्तन्नियामकत्वेनेति द्रष्टव्यम् । अत्रापि चिदचिद्योग इत्यस्यात्रापि जगद्वृक्षेऽपि प्रसिद्धवृक्षवच्चिदचिद्योगः सर्वत्र संप्रकीर्तितः । अचेतनानां चेतनाभिमतत्वादन्ततस्तथाश्मानः तृणकाष्ठाश्च सर्वेदिष्टक्षये स्वां प्रकृतिं भजन्त इति भारतवचने यत्किञ्चेदं प्राणिजङ्गमं चेत्यैतरेये चाश्मादेरचेतनस्यापि चेतनेनाभिमतत्वस्योक्तत्वादित्यर्थः ।। अधो भगवदपेक्षया नीचा महदादय इति ।। भूतानि शाखा इति भाष्योदाहृत भाल्लवेयशाखायां भूतग्रहणमुपलक्षणमित्यविरोधः ।। भगवदपेक्षयेति ।। उपलक्षणमेतत् । प्रकृत्याद्यपेक्षयेति च ज्ञेयम् ।। फलहेतुत्वाच्छन्दसामिति ।। गायत्र्यादिछन्दोबद्धानां वेदानामैहिकामुष्मिकफलहेतुत्वादित्यर्थः । एतेन हि यस्मादतः छन्दसः काममोक्षफले काम्यत इति काम ऐश्वर्यादिरैहिकः स्वर्गादिरामुष्मिकश्च विषयः मोक्षश्च काममोक्षौ तावेव फले भवतस्तस्माच्छन्दांसि पर्णानीति व्याख्यातं भवति ।

ननु जगद्वृक्षस्य गीतायां फलानिरूपणान्न्यूनतेत्यत आह ।। अनेनेति ।। छन्दसां फलहेतुत्वेन पर्णत्वोक्तयैव काममोक्षाख्यद्विफलोजगद्वृक्ष इत्युक्तं भवतीत्यन्वयः । ननु चतुर्विधाः पुरुषार्थाः । कथं जगद्वृक्षो द्विफल इत्यत उक्तम् ।। धर्मार्थयोः काममोक्षार्थत्वादिति ।। धर्मो द्विविधः प्रवृत्तो निवृत्तश्च । अर्थोऽपि द्विविधः विद्यारूपो दैवो हिरण्यादिरूपो मानुषश्चेति । तथा धर्मार्थयोर्यथायोग्यं काममोक्षार्थत्वात्प्राधान्येन द्विफलत्वमिति भावः ।। १ ।।

भावदीपः

जगत्स्वरूपमिति ।। महानहङ्कार इत्यादिना प्रकृतिमहदादिचतुर्विंशतितत्त्वात्मकमिच्छाद्वेषात्मकं इच्छाद्वेषादिविकारसहितं सदैव तं यज्जगत्स्वरूपमुक्तमित्यर्थः । संसारस्वरूपं दर्शयतीति भाष्याविरोधायाह ।। तस्यैवेति ।। संसरत्यनेनेति व्युत्पत्त्येति भावः ।। जिहासता त्यक्तुमिच्छतेत्यर्थः ।। निरूपित इति ।। य एनं वेत्ति पुरुषमित्यादिना भगवदादिज्ञानरूपोपाय इत्यर्थः ।। अतदेकदेशत्वेनेति ।। तदेकदेशत्वाभावेनेत्यर्थः ।। धर्मार्थयोः काममोक्षार्थत्वादिति ।। धर्मो मोक्षार्थः अर्थः कामार्थ इत्यर्थः ।। १ ।।

भावप्रकाशः

विविच्यदर्शयतीति । समग्रं दर्शयतीत्यर्थः ।। पूर्वाध्यायेतु संसारैकदेशानां गुणानामेव वृत्तं दर्शितमिति भावः ।। संसारस्वरूपतदत्ययोपायविज्ञानान्यस्मिन् अध्याये दर्शयतीति भाष्यं मनसि निधायाह । तस्यैव संसाररूपत्वादिति ।। यश्च तत्रेति । अमानित्वमदम्भित्वमित्यादिना संसारात्ययोपायो निरूपित इत्यर्थः ।। अत्र दर्शयतीति । निर्मानमोह इत्यादिनेत्यर्थः ।। उपलक्षणमेतत् । तत्प्रसङ्गादलौकिकं भगवन्महिमानं च दर्शयतीति द्रष्टव्यम् ।। भूमिरतदेकदेशत्वेनेति । भूम्यभिमानिनी धरेत्यर्थः ।। त्रिमूल इति । त्रिगुणरूपभूम्यन्तर्गतपादाख्यावाचीन मूलोपेत इत्यर्थः । न चेतनप्रकृतेरिति । चेतनप्रकृतेर्जगदेकदेशत्वं लक्षणे मूलत्वं न सम्भवतीत्यर्थः । अत्रापीति मूलेन प्रसिद्धवृक्षे जीवस्य चेतनत्वं शरीरस्याचेतनत्वं जगद्वृक्षेपीत्युक्तया उक्तशङ्कापरिहार इति द्रष्टव्यम् ।। फलहेतुत्वात् । छन्दसामिति । छन्दःपदोदितवेदानां मोक्षादि फलहेतुत्वादित्यर्थः ।। ननु फलस्य धर्मादिरूपेण चतुष्टवात् । काममोक्षयोरेव फलत्वोक्तिः कथमित्यत आह । अनेन धर्मार्थयोरिति ।। १ ।।

वाक्यविवेक

यथेति । अन्तर्यामिदेवता यथा तथेत्यर्थः ।। ननु धर्मार्थकाममोक्षभेदेन फलचतुष्टयस्य वक्तव्यत्वात् काममोक्षयोरेव फलत्वेनोक्तिरनुपपन्नेत्यत आह । धर्मार्थयोरिति ।। १ ।।

इति श्रीमत्सत्यनिधितीर्थश्रीचरणचरणाराधकश्रीसत्यनाथयतिविरचिते

न्यायदीपिकाव्याख्याने वाक्यविवेके पञ्चदशोऽध्यायः ।।

Load More