गीता

किं नाम हरेः समत्वम्

गीता

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।

ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ।। २९ ।।

अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।

साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ।। ३० ।।

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।

कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ।। ३१ ।।

तात्पर्यम्

नास्य भक्तोऽपि यो द्वेष्यो नचाभक्तोऽपि यः प्रियः ।

किन्तु भत्तयनुसारेण फलदोऽतः समो हरिः’ इति पाद्मे ।

प्रीत्या मयि ते ।। २९३१ ।।

प्रकाशिका

समोहमित्यस्यार्थमाह ।। नास्येति ।। ‘ये भजन्ति तु मां भक्त्या मयि त’ इत्यस्यार्थमाह ।। प्रीत्या मयि त इति ।। २९,३१ ।।

न्यायदीपिका

भक्तयुपहृतमश्नामीति भक्तप्रियत्वमुक्तम् । तथा सत्यभक्तेष्वप्रीतिश्च स्यात् । ततश्च भगवतो वैषम्यमापन्नमित्यत उच्यते ।। समोऽहमिति ।। तदस्फुटार्थत्वात्स्मृत्यैव व्याचष्टे ।। नास्येति ।। भक्तोऽपि योऽद्वेष्योऽसौ नास्ति । अभक्तोऽपि यः प्रियोऽसौ नास्तीत्यर्थः । अनेन न मे द्वेष्योऽस्ति न प्रिय इत्यत्रापि भक्तोऽभक्तश्चेति संयोज्यमित्युक्तं भवति । भक्तयनुसारेण फलद इति भक्तेष्वेव प्रीतिं करोमि अभक्तेष्वेवाप्रीतिमित्यर्थः । यदि भक्तेषु द्वेषं अभक्तेषु प्रीतिं कुर्यात्तर्ह्येव विषमः स्यान्न चैवम् । अतः सम एवेति भावः । ये भजन्तितु मां भक्तया तेषु प्रीतिं करोमीति वक्तव्यम् । किमेतदभक्तसाधारणं मयि त इत्याद्युच्यत इत्यत आह ।। प्रीत्येति ।। वर्तन्त इत्यादि शेषः । तदेवोच्यत इति भावः ।। २९३१ ।।

किरणावली

तर्ह्येव विषमः स्यादिति ।। एवशब्देन तु भक्तेषु प्रीतिं कुर्वन्नभक्तेष्वप्रीतिं कुर्वन् विषमः स्यात्साधनानुसारेण फलप्रदानादिति भावः ।। तेषु प्रीतिं करोमीति वक्तव्यमिति ।। उपलक्षणमेतत् । तेऽपि पुनर्मय्यनुरज्जन्त इत्यपि वक्तव्यमित्यर्थः ।। वर्तन्त इत्यादिशेष इति ।। प्रीत्या मयि त इत्यतः परं वर्तन्त इति पदस्य शेषः । तेषु चाप्यहं प्रीत्या वर्ते इति वाक्यस्य च शेष इत्यादि शब्दार्थः ।। तदेवोच्यत इति भाव इति ।। अनया वाचोभङ्ग्या मयि ते पुनरनुरज्यन्ते तेषु चाहं प्रीतिं करोमीति वक्तव्यमिति यदा शङ्कितं तदेवेत्यर्थः ।। २९३१ ।।

भावदीपः

इत्यादि शेष इति ।। तेष्वहं प्रीत्या वर्तत इत्यादिपदार्थः ।। तदेवेति ।। भक्तेष्वेव प्रीतिं करोमीत्येतदेवेत्यर्थः ।। २९३१ ।।

भावप्रकाशः

तर्ह्येव विषमः स्यादिति ।।

यस्य यत्र वृथावृत्तिर्विहिता वर्त्तनम् तथा ।

ज्ञानं वापि समत्वं तद्विषयत्वमतोऽन्यथा ।।

इत्युक्तत्वादिति भावः ।। इत्यादिशेष इत्यत्रादिपदेन वर्त्त इत्यस्य ग्रहणम् । तदेवेति । प्रीतिं करोमीत्येतदेवेत्यर्थः ।। २९३१ ।।

वाक्यविवेकः

अभक्तसाधारणमिति । भगवतः सर्वाश्रयत्वात् भक्ता इव अभक्ता अपि सर्वेश्चरे वर्तन्ते भगवतो व्याप्तत्वाद्भगवद्भक्तेष्वप्यस्तितो मयि ते अतेषु चाप्यहमित्यनुपपन्नमिति भावः

।। २९३१ ।।