गीता
के पापयोयनः
गीता
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ।। ३२ ।।
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ।। ३३ ।।
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायण ।। ३४ ।।
इति श्रभिगवद्गीतायां नवमोऽध्यायः
तात्पर्यम्
‘पापादिकारिताश्चैव पुंसां स्वाभाविका अपि ।
विप्रत्वाद्यास्तत्र पुण्याः स्वाभाव्या एव मुक्तिगाः ।
यान्ति स्त्रीत्वं पुमांसोऽपि पापतः कामतोऽपि वा ।
न स्त्रियो यान्ति पुंस्त्वं तु स्वभावादेव याः स्त्रियः ।
पुंसा सहैव पुंदेहस्थितिः स्याद् वरदानतः ।
तज्जन्मनि वराः पापजाताभ्यो निजसत्स्त्रियः ।
सर्वेषामपि जीवानामन्त्यदेहो यथा निजः।
मुक्तौ च निजभावः स्यात् कर्मभोगान्ततोऽपि वा’
इति भविष्यत्पर्ववचनात् पापयोनयः पुण्या इति विशेषणम् ।। ३४ ।।
इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये नवमोऽध्यायः
प्रकाशिका
‘मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।। स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् । किं पुनर्ब्राह्मणाः पुण्या’ इति विशेषणात् स्वाभाविकाश्च प्रतीयन्ते । तदेतद्विविच्य प्रमाणेन दर्शयति ।। पापेत्यादिना ।। ब्राह्मणस्य शूद्रत्ववत् पुरुषाणां स्त्रीत्वं कारणेन भवति । न तु स्वभावस्त्रीणां पुरुषत्वं परं तु ‘‘पुंसा सहैव पुन्देहे स्थितिस्स्याद्वरदानतः तज्जन्मनि’’ । यथा अम्बायाः स्थूणाकर्णांशेन सह स्थूणाकर्णवरदानतः स्थूणाकर्णदेहे स्थितिः तस्मिन्नेव जन्मनि नाभूत् । सत्स्त्रिय इत्यासुर्यादिव्यावृत्त्यर्थमुक्तम् ।। अन्त्यदेहश्चरमदेह इत्यर्थः
।। ३२,३३ ।।
इति श्रीमदानन्दतीर्थभगवत्पादविरचितस्य श्रीमद्गीतातात्पर्यनिर्णयस्य प्रकाशिकायां पद्मनाभतीर्थविरचितायां नवमोध्यायः ।।
न्यायदीपिका
ननु भगवदाश्रिताः सर्वेऽपि पुण्या एव । सत्वाधिकः पुल्कसोऽपि यस्तु भागवतः सदेत्यादेः अतः कथं मां हि पार्थेति स्त्रीवैश्यशूद्राणां पापयोनय इति विशेषणं ब्राह्मणराजर्षीणां पुण्या इति विशेषणमुच्यत इत्यत आह ।। पापादीति ।। स्वतो विप्राद्युत्तमवर्णानां क्षत्रियाद्यधमवर्णित्वं पापकारितम् । स्वतः शूद्राद्यधमवर्णानां वैश्याद्युत्तमवर्णित्वं पुण्यकारितमित्यर्थः । अत्रादिपदेन कामश्च भवति । स्वाभाविकविप्रत्वाद्याः पुण्या इत्युच्यन्त इत्यर्थः । तल्लक्षणमाह ।। मुक्तिगा इति ।। मुक्ताववशिष्यमाणविप्रत्वाद्याः स्वाभाविका इत्यर्थः ।
यथा स्वतो विप्रादीनां क्षत्रियादित्वं स्वतः क्षत्रियादीनां विप्रादित्वं भवति तथा स्वाभाविकपुंसां स्त्रीत्वं, स्वाभाविकस्त्रीणां पुंस्त्वं स्यात्किमित्याशङ्कायामाह ।। यान्तीति ।। पापतो यथा सुद्युम्नस्य इलात्वं कामतो यथाऽग्निपुत्राणामप्सरस्त्वम् । इलायाः सुद्युम्नत्वदर्शनात्कथं न स्त्रियो यान्ति पुंस्त्वमित्युच्यते इत्यत आह ।। स्वभावादिति ।। स्वभावादेव स्त्रिया अम्बायाः शिखण्डित्वं स्थूणाकर्णवरेण दृष्टमित्यत आह ।। पुंसेति ।। अंबायाः स्थूणाकर्णवरेण तद्देहे तेन सह तस्मिन् जन्मनि स्थितिरेवासीन्नतु स्वातन्त्र्येण पुरुषदेहः । तावन्मात्रं त्वङ्गीक्रियत इति भावः । स्वभावात्पुंसां पापतः स्त्रीत्वे तासां स्वभावतः स्त्रीणां च मध्ये कासां श्रेष्ठत्वमित्यपेक्षायामाह ।। वरा इति ।। पापजाताभ्य इत्यनेन कामतो जातानां वरत्वं सूचितम् । स्वभावतः स्त्रीणां पापजाताभ्यः श्रेष्ठतायामिलादिभ्य आसुरीणां श्रेष्ठत्वं प्रसज्यते । तन्निरासार्थमुक्तं सत्स्त्रिय इति । अत्र वरत्वमौपाधिकमभिप्रेतं । स्वाभाविकविशेषस्य कालान्तरं चाह ।। सर्वेषामिति ।। चरमदेहः स्वभावानुसारीत्यर्थः। पूर्वानुवादेन कालान्तरं चाह ।। मुक्तौ चे(त्वि)ति ।। इति वचनानुसारोणाविरुद्धतया व्याख्यातुं शक्यत्वादेतद्विशेषणं युक्तमित्यर्थः । अनेनैतदेवं व्याख्यातं भवति । ये पापादियोनयोऽस्वाभाविकाः स्त्रियो वैश्यास्तथा शूद्रा ब्राह्मणा राजर्षयश्च तेऽपि यान्ति परां गतिम् । किं पुनः पुण्याः स्वाभाविका एते स्त्रीवैश्यादयः । अत्र पापयोनयः स्त्रिय इतिवत्पुमांस इत्यनुक्तिः पापादिकारितपुंसामभावादिति ।। ३२३४ ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां नवमोऽध्यायः ।। ९ ।।
किरणावली
सत्वाधिक इति ।। सत्वाधिक्ये पुण्यत्वं सिद्धमिति भावः । पापादिकारिताश्चेति मूलस्य पुंसां विप्राद्या वर्णाः स्वाभाविकाः । पापादिकारिताः पापपुण्योपाधिनिमित्तका अपि वर्तन्त इत्यर्थं सिद्धवत्कृत्य कथं तेषां पापपुण्योभयकारितत्वमित्याशङ्क्य तद्विभागेन दर्शयन्नर्थमाह ।। स्वतो विप्रादीत्यादिना ।। कामतोऽपि वेति वक्ष्यमाणत्वात्तदनुसारेणादिशब्दस्यार्थान्तरमाह ।।
आदिपदेन कामश्चेति ।। न केवलं पुण्यमिति चार्थः । भवत्वेवं स्वाभाविकौपाधिकभेदेन वर्णभेदः । ततश्च किमित्यत उक्तस्य विप्रत्वाद्यास्तत्र पुण्याः स्वाभाव्या एवेत्यस्यार्थमाह ।। स्वाभाविका इति ।।
अग्निपुत्राणामप्सरस्त्वमिति ।। प्राप्याप्सरस्त्वं राजकुलेषु जाता इति महाभारततात्पर्यनिर्णये सर्वेषां प्रथममप्सरोजन्मोक्तेरप्सरसामित्युक्तम् । तेन कृष्णमहिषीणां राजदेवगन्धर्वकन्यात्वात्कथमप्सरस्त्वमिति न चोद्यावकाशः । वरदानत इत्यस्य शिवेन वरस्य दत्तत्वादित्यर्थप्रतीतेरर्थमाह ।। स्थूणाकर्णवरेणेति ।। उक्तं च श्रीमत् पद्मनाभतीर्थीये स्थूणाकर्णाद्वरदानत इति ।। कामतो जातानां वरत्वमिति ।। स्वभावतः स्त्र्यपेक्षया वरत्वमित्यर्थः । निजस्त्रियः स्वाभाविकस्त्रिय इत्येतावता पूर्तेः सत्पदं व्यर्थमित्यतोऽवतारयति ।। स्वभावतः स्त्रीणामिति ।। ननु वराः पापजाताभ्यो निजसत्स्त्रिय इत्यनुपपन्नम् । स्वरूपतः इलातोऽधमानां स्वाभाविकानां मानुषादिस्त्रीणामिलात उत्तमत्वायोगादिलापेक्षयोत्तमानां देवतास्त्रीणां इलोत्तमत्वस्य स्वत एव सिद्धत्वेनेलाया अधमत्वस्य पापहेतुकत्वाभावात् । यदप्युक्तं कामतो जातानां स्वाभाविकस्त्र्यपेक्षयोत्तमत्वमिति तदप्ययुक्तम् । मानुषस्त्र्यपेक्षयाऽग्निपुत्राणामुत्तमत्वस्य स्वतः सिद्धत्वेन कामहेतुकत्वाभावात् । स्वाभाविकस्त्रीभ्यः स्वोत्तमाभ्यस्तूत्तमत्वस्य सर्वथाऽप्राप्यत्वादित्यत आह ।। अत्र वरत्वमौपाधिकमिति ।। अत्रेलादिभ्यः पापजाताभ्यो मानुषादिस्त्रीणामेव वरत्वं विवक्षितम् । तच्च न स्वाभाविकम् । ज्ञानभक्तयादिगुणानां तदपेक्षयाऽत्यल्पत्वात्किंतु प्रतियोगिनिष्ठस्त्रीत्वस्य पापोपाधिकृतत्वेन कादाचित्कतयाऽल्पत्वात् । तन्निरूपितमुत्तमत्वमप्यौपाधिकं स्वाभाविकस्त्रीत्वजातिमात्रकृतमित्यर्थः । यदप्युक्तं कामतो जातानां स्वाभाविकस्त्र्यपेक्षयोत्तमत्वमिति । तच्चावराभ्यः स्वतः सिद्धत्वात्स्वाभाविकोत्तमस्त्रीभ्य इति विवक्षितम् । तच्च न स्वाभाविकं किं त्ववतारे तपआदिसाधनविशेषेण रमावेशविशेषं संपाद्य कृष्णप्रियात्वं प्राप्य तात्कालिकप्रीत्याधिक्यविषयत्वेनौपाधिकमिति भावः ।।
कालान्तरमिति ।। मुक्तिकालमपेक्ष्य कालान्तरमित्यर्थः । यथा निज इत्यस्य निजं स्वभावमनतिक्रम्य वर्तत इति यथानिज इति विग्रहमभिप्रेत्याह ।। स्वभावानुसारीति ।। कर्मभोगान्तत इत्यस्य प्रारब्धभोगावसाने चरमशरीरादुत्क्रम्य सान्तानिकलोकनिवासकालेऽपि स्यादित्यर्थः । यद्वा स्वतो वृक्षादिजीवानां मानुष्याद्यापादककर्मभोगानन्तरमित्यर्थः ।। अविरुद्धतयेति ।। सत्वाधिकवाक्याविरुद्धतयेत्यर्थः । न स्त्रियो यान्ति पुंस्त्वमित्यादि मूलवाक्यार्थस्य गीतायां ज्ञापकं दर्शयति ।। अत्र पापयोनयःस्त्रिय इतिवदिति ।। अत्र गीतायाम् ।। ३२३४ ।।
इति श्रीमद्विठ्ठलाचार्यपुत्रेण श्रीमत्तीर्थाचार्यचरणसेविना श्रीनिवासेनरचितायां
न्यायदीपकिरणावल्यां नवमोऽध्यायः ।। ९ ।।
भावदीपः
यस्तु भागवतस्सदेत्यादेरिति ।। अष्टादशे वक्ष्यमाणस्मृतेरित्यर्थः ।। आदिपदेनेति ।। पापादीत्यादिपदेनेत्यर्थः ।। सुद्युम्नस्य इलात्वमिति ।। व्यक्तमेतन्नवमस्कन्धे द्वितीये, होतुस्तद्व्यभिचारेण कन्येला नाम साऽभवदित्यादिना ।। अग्निपुत्राणामप्सरस्त्वमिति ।। पुत्रा ह्यग्नेः पूर्वमासंश्च तेऽथ स्त्रीत्वप्राप्त्या इत्यादिना राजकुलेषु जाता इत्यन्तेन ग्रन्थेन व्यक्तमेतद्भारततात्पर्ये विंशेऽध्याये ।
अग्निपुत्रा महात्मानस्तपसा स्त्रीत्वमागताः ।
भर्तारं वा जगद्योनिं वासुदेवमजं विभुम् ।। इति ।
महाकौर्मे इति प्रथमस्कन्धतात्पर्ये दशमेऽध्याये च व्यक्तम् ।। अंबाया इति ।। भविष्यति पुमान् इति, साऽम्बा ततोऽजनि । नाम्ना शिखण्डिनीत्यादिना स शिखण्डी नामतोऽभूदित्यन्तेन व्यक्तमेतद्भारततात्पर्ये (च) एकादशेऽध्याये ।। तत्रेति ।। इलादौ श्रेष्ठत्वमुत्तमकुलजत्वाद्युपाधिकृतमित्यर्थः ।। कालान्तरं चेति ।। न केवलं वरत्वमिति चार्थः । स्वाभाव्या एव मुक्तिगा इति प्रागुक्तत्वान्मुक्तौ चेति पुनरुक्तिरिति शङ्काव्युदासायाह ।। पूर्वानुवादेनेति ।। अविरुद्धतयेति ।। सत्त्वाधिक इति प्रागुक्तवचनाविरद्धतयेत्यर्थः । दुर्गमत्वादर्थं व्यनक्ति ।। अनेनेति ।। पापादिकारिण इति वचनेनेत्यर्थः ।। ३२३४ ।।
इति राघवेन्द्रयतिकृते श्रीमद्गीतातात्पर्यटीकाभावदीपे नवमोऽध्यायः ।। ९ ।।
भावप्रकाशः
मूले पुंसां विप्रत्वाद्याः पापादिकारिताः, स्वाभाविका अपीति द्वेधेत्यध्याहृतेन द्वेधेत्यनेनैव शब्दसम्बन्धो द्रष्टव्यः ।। कामतोऽपिवेति वक्ष्यमाणानुसारेणादिशब्दार्थमाह । अत्रादिपदेनेति । ननु तथापि मनुष्योत्तमस्त्रीणामिलादिभ्य उत्तमत्वं स्यादित्यत आह । अत्रवरत्वमिति । औपाधिकावरत्वं त्विष्टमेवेति भावः ।। पूर्वानुवादेनेति । मुक्तिगा इत्यस्यानुवादेनेत्यर्थः ।। कालान्तरं चेति । स्वतो वृक्षादिजीवानां मानुषादिशरीरापादककर्मभोगानन्तरकालं चेत्यर्थः ।। अविरुद्धतयेति ।। सत्वाधिक इति वाक्याविरुद्धतयेत्यर्थः ।। पापादिकारितपुंसामभावादिति । स्वतः स्त्रीणां हि पापादिकारितं पुंस्त्वमिति वक्तव्यम् ।। तच्च न स्त्रियो यान्ति पुंस्त्वं त्वित्युक्तत्वादयुक्तमिति भावः।। ३२३३ ।।
इति श्रीमत्सत्यव्रतपूज्यपादशिष्यसत्यप्रज्ञभिक्षुविरचिते
तात्पर्यनिर्णयन्यायदीपिकाभावप्रकाशे नवमोऽध्यायः ।।
वाक्यविवेकः
अंबायाः शिखण्डित्वमिति । अम्बायाः पुरुषविशेषत्वं दृष्टमित्यर्थः ।। ननु तारतम्यस्य स्वभाविकत्वेनान्यथाभावासम्भवात् इलादिमोक्षयोग्यमनुष्यस्त्रीणां उत्तमत्वकथनमयुक्तमित्यत आह । अत्र वरत्वमौपाधिकमिति । नेदमानन्दतारतम्योपयुक्तावरत्वं स्त्रीपूजाकाले विवक्षितं वरत्वमिति भावः ।। ३२ ।।
इति श्रीमत्सत्यनिधितीर्थश्रीचरणचरणाराधकश्रीसत्यनाथयतिविरचिते
न्यायदीपिकाव्याख्याने वाक्यविवेके नवमोऽध्यायः ।।