गीता
गीता
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।
आगमापायिनोऽनित्यांस्तांस्तितिक्षस्व भारत ।। १४ ।।
तात्पर्यम्
तददर्शनादिनिमित्तं सोढव्यमित्याह । मात्रास्पर्शा इति । विषयसम्बन्धाः
।। १४ ।।
प्रकाशिका
तददर्शनादिनिमित्तं दुःखमित्यर्थः । फलन्तु विषयापायादिनिमित्तदुःखसहनजम् ।। १४ ।।
न्यायदीपिका
देहान्तरप्राप्तौ तद्दर्शनाद्यसम्भवाच्छोक इत्याशङ्कापरिहाराय श्लोकमवतारयति ।। तदिति ।। दुःखमिति शेषः ।। सोढव्यमिति ।। अनभिमानेन परिहर्तव्यमित्यर्थः । मात्रास्पर्शा इत्येतच्छब्दश्रवणेन भिन्नपदत्वशङ्कापरिहाराय व्याचष्टे ।। विषयेति ।। १४ ।।
किरणावली
मूले तददर्शनादिनिमित्तं तददर्शनाद्यर्थमित्यन्यथाप्रतीतिवारणाय तददर्शनादिनिमित्तं अस्येति विग्रहमभिप्रेत्यान्यपदार्थमध्याहारेण दर्शयति ।। दुःखमिति शेष इति ।। सोढव्यमित्यस्य दुःखमनुभूय सोढव्यमित्यन्यथाप्रतीतेर्व्याचष्टे ।। अनभिमानेनेति ।। मात्रास्पर्शा इत्येतच्छब्दश्रवणेनेति ।। एकपदत्वे भिन्नपदत्वे वा विन्यासस्यैकविधत्वादुभयसाधारणशब्दश्रवणेनेत्यर्थः । विषयसम्बन्धा इत्युक्ते मीयन्त इति मात्रा विषयास्तेषां स्पर्शाः सम्बन्धा इति व्याख्यातत्वेनैकपदत्वं ज्ञायत इति भावः ।। १४ ।।
भावप्रकाशः
तददर्शनादिनिमित्तं यस्येत्यन्यपदार्थं दर्शयति । दुःखमिति शेष इति । सोढव्यमित्यस्योत्पन्नदुःखमनुभूय सोढव्यमिति अन्यथाप्रतीतिनिरासायाह । अनभिमानेन परिहर्तव्यमितीति । भिन्नपदत्वशङ्कापरिहारायेति ।। भिन्नपदत्वेहि विषयाणाम् । सम्बन्धानां च पृथक् शीतोष्णसुखदुःखत्वं प्रतीयते तच्चानुपपन्नमिति भावः ।। १४ ।।
वाक्यविवेकः
तस्यैव पुनरिति । कौमारादिदेहस्यैव यौवनादिदेहात्मना परिणामात् यौवनादिप्राप्तौ कौमारादिदेहदर्शनं युज्यते । देहान्तरप्राप्तौ न पूर्वदेहदर्शनं युज्यते । पूर्वदेहस्य नष्टत्वादिति भावः ।। भिन्नपदत्वेति । मात्रा इति शब्दश्रवणमात्रेण जननीवाचकं तृतीयान्तं पदमिति भ्रमः स्यात् । ततश्च वाक्यार्थबोधो न स्यादिति भावः ।। १४ ।।