गीता

सात्विकाहाराः

गीता

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।

रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ।। ८ ।।

तात्पर्यम्

स्थिराः स्थिरगुणाः घृतादयः । कट्वादीनामप्यारोग्यरसाद्यर्थत्वेन सात्त्विकत्वमेव । रस्यादीनामपि राजसत्वमनारोग्यादिहेतुत्वे । ‘दुःखशोकामयप्रदाः’ इत्युक्तेः । सत्त्वं साधुभावः । भवति हि सोऽपि शुच्यन्नात् ।

हृद्यं पश्चान्मनोहारि प्रियं तत्कालसौख्यदम् ।

सुखदं दीर्घसुखदं रस्यमभ्यास सौख्यदम्’ इति शब्दनिर्णये ।। ८ ।।

प्रकाशिका—आयुस्सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः रस्याः

स्निग्धा स्थिरा हृद्या आहारास्सात्विकप्रियाः ।

कट्वाम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।

आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ।।

यातयामं गतरसमि’त्यस्यार्थमाह ।। स्थिरा इत्यादिना ।। ८ ।।

न्यायदीपिका

रस्याः स्निग्धाः स्थिरा हृद्या इत्याहाराणां किं नाम स्थिरत्वं केषां चोच्यत इत्यत आह ।। स्थिरा इति ।। बहुकालं गुणप्रदा इत्यर्थः । कट्वाम्ललवणेति कट्वादीनां यद्राजसत्वमुक्तं तन्न नियतं कदाचित्सात्विकत्वमपि स्यादित्याह ।। कट्वादीनामिति ।। रसो रसायनम् । एवं रस्याः स्निग्धाः स्थिरा हृह्या इति सात्विकत्वेनोक्तानां रस्यादीनां सात्विकत्वं न नियतं, कदाचिद्राजसत्वमपि भवतीत्याह ।। रस्येति ।। कट्वादीनां राजसत्वनियमः किं न स्यात् कदाचित्सात्विकत्वं कुत इत्यत आह ।। दुःखेति ।। दुःखादिप्रदाश्चेद्राजसा इत्युक्तत्वादारोग्यादिहेतुत्वे कट्वादीनां सात्विकत्वावगतेर्न राजसत्वनियम इत्यर्थः । रस्यादीनां सात्विकत्वानियमे चायुः सत्त्वेत्याद्युदाहर्तव्यम् । बलशब्दात्सत्त्वशब्दस्यानतिभिन्नार्थत्वात्पुनरुक्तिरित्यत आह ।। सत्त्वमिति ।। नात्रायं सत्त्वशब्दार्थः साधुभावः । तस्यान्नोत्पन्नत्वाभावादित्यत आह ।। भवतीति ।। सुखप्रीतिविवर्धनाः, हृद्या, इति शब्दस्यैकार्थत्वप्रतीतिनिरासायाह ।। हृद्यमिति ।। सेवानन्तरमपि यत्पुनर्भूयादिति मनोहरति तद्धृद्यम् । उपयोगकाल एव सौख्यप्रदं प्रियम् । सकृदुपयुक्तं दीर्घकालं सुखं ददत् सुखदम् । बहुवारोपभोग एव सौख्यदं रस्यमित्यर्थः ।। ८ ।।

किरणावली

केषाञ्चोच्यत इति ।। किंरूपाणामाहाराणां स्थिरत्वमुच्यत इत्यर्थः । रसाद्यर्थत्वेनेत्यत्र रसपदार्थमाह ।। रसोरसायनमिति ।। एतेन रस्याःस्निग्धा इति गीतायां रस्या रसायनयोग्या इत्यर्थ उक्तो भवति ।। रस्यादीनां सात्विकत्वानियम इति ।। रस्यादीनां सात्विकत्वनियमः किं न स्यात् कदाचिद्राजसत्वं कुत इत्यतः आयुःसत्त्ववलादिविवर्धनाश्चेत्सात्विका इत्येवोक्तत्वादायुराद्यनर्थत्वे रस्यादीनां राजसत्वावगतेर्न सात्विकत्वनियम इति । रस्यादीनां सात्विकत्वानियमे आयुः सत्त्वबलारोग्य सुखप्रीतिवर्धना इत्युक्तेरिति ज्ञापकमुदाहर्तव्यमन्यथा रस्यादीनामपि राजसत्वमेवेत्येतदनुपपादितं स्यादिति भावः ।।

अनतिभिन्नार्थत्वादिति ।। सत्त्वशब्दस्य बलज्ञानसमाहारः सत्त्वमिति वचनाज्ज्ञानांशमादाय भिन्नार्थत्वेऽपि समाहारे बलस्यापि प्रविष्टत्वादनतिभिन्नार्थत्वमिति भावः । मूले सत्त्वं नाम गुणः क्वापि क्वचित्साधुत्वमुच्यत इति त्रयोदशेऽभिधानस्योक्तत्वात् सत्त्वं साधुभाव इत्युक्तम् ।। सुखप्रीति विवर्धनाः हृद्या इतिशब्दस्येति ।। समुदायैकवचनम् । एतच्छब्दत्रयस्येत्यर्थः । रस्यमभ्याससौख्यदमित्यस्य गीतायां व्याख्येयाभावात् प्रमाणशेषत्वमिति ज्ञापनाय शब्दत्रयग्रहणम् ।। एकार्थत्वेति ।। प्रीतिः सुखमित्यन्यत्र व्याख्यातत्वात् । हृद्यशब्दस्य मनोहारिवाचकत्वात्सुखसाधनस्यैव मनोहारित्वादिति भावः । यद्यपि तृतीयेध्याये प्रीतिस्तु द्विविधः स्नेहः कर्मजो निज एव चेति शब्दनिर्णयवचनोदाहरणादत्र स्नेहमादाय न पौनरुक्तयमिति शक्यते वक्तुं तथापि सत्वं साधुभाव इति साधूनां ज्ञानभक्तयादिधर्माणां प्राप्तत्वादर्थान्तरं वक्तव्यमिति भावः । पश्चान्मनोहारीत्युक्तत्वात् सेवाकाले तदभावप्रतीतिनिरासायाह ।। सेवानन्तरमपीति ।। ननु प्रीतिसुखशब्दयोः सुखविशेषसाधनार्थत्वे सुखप्रीतिविवर्धना इत्यसङ्गतमिति चेन्न । यत्र ग्रन्थे आहारस्यैव प्रीतित्वं सुखत्वं चोच्यते तत्र प्रीतिसुखशब्दयोः तत्साधनार्थत्वेऽपि प्रकृते सुखविशेषमात्रपरत्वोपपत्तेः ।। ८ ।।

भावदीपः

रसाद्यर्थमित्यत्र रसपदस्यार्थमाह ।। रसो रसायनमिति ।। मूले कट्वादीनां राजसत्वनियमे दुःखशोकेत्यादिविशेषणं ज्ञापकतया यथोदाहृतं तथा रस्यादीनां सात्विकत्वनियमे आयुरित्यादि विशेषणं ज्ञापकतयोदाहर्तव्यमित्यर्थः । तथा च दुःखशोकाद्यहेतुत्वे यथा न राजसत्वं तथा आयुरादिविवर्धनाहेतुत्वे सात्विकत्वं रस्यादीनां नेति ज्ञातव्यमिति भावः ।। शङ्कते ।। नात्रायमिति ।। अन्नोत्पन्नत्वेऽपीति ।। विवर्धत इत्यनेन सत्त्वस्य तदुत्पन्नत्वश्रवणादिति भावः ।। ८ ।।

भावप्रकाशः

अन्नादीनामपि स्थिरगुणत्वात् घृतादेरेव को विशेष इत्यत आह ।। बहुकालं गुणप्रदा इति । रसशब्दस्य ृङ्गाराद्यनेकार्थत्वेन प्रकृते विविक्षितमर्थमाह ।। रसो रसायनमिति । रस्यादीनां सात्विकत्वनियमः किं नस्यात् कदाचित् राजसत्वं कुत इत्यत आह । रस्यादीनामिति । अनतिभिन्नार्थत्वादिति । सत्वशब्दस्य बलज्ञानसमाहाररूपसत्ववाचकस्य बलवाचकत्वेऽपि बलशब्दस्य सत्ववाचकत्वाभावादनतिभिन्नार्थत्वमित्यर्थः । हृद्या इतिशब्दस्येति । इति शब्दत्रितयस्येत्यर्थः पश्चान्मनोहारीत्युक्तत्वात् सेवाकाले तदभावप्रतीति निरासार्थमाह । सेवानन्तरमपीति ।। ८ ।।