तात्पर्यम्

परमात्मनः उभयविधनाशो न

तात्पर्यम्

न तावत्परमचेतनस्य मम नाशोऽस्ति । एवमेव तवान्येषां च ।

नित्यो नित्यानां चेतनश्चेतनानाम् ।

एको बहूनां यो विदधाति कामान्’ ।। इत्यादि श्रुतेः ।

स्वदेहयोगविगमौ नाम जन्ममृती पुरा ।

इष्येते ह्येव जीवस्य मुक्तेर्न तु हरेः क्वचित्’ ।। इति स्कान्दे ।

ईश्वरस्यापि युद्धगतत्वान्मोहात्तस्याप्युभयविधानित्यत्वशङ्का प्राप्तौ तदपि निवार्यते । न त्वेवाहमिति । यद्यप्येषा शङ्काऽर्जुनस्य नास्ति तथापि प्राप्तलोकोपकारार्थं भगवता निवार्यते । एकान्ते कथयन्नपि व्यासरूपेण तदेव लोके प्रकाशयिष्यति हि ।। १२ ।।

प्रकाशिका

‘न योत्स्य’ इति अर्जुनवचनं कथं प्राज्ञमतविरुद्धमित्यत आह ।। बन्धुस्नेहादिति ।। यच्चोक्तं निवृत्तस्य प्रवृत्तिनिमित्तमीश्वरवज्जीवनित्यत्ववचनादिकं मानं नत्वेवेति तदर्थमनुवदति ।। न तावदिति ।। नित्यानां चेतनानां नित्यचेतन इत्यतिशयेनेश्वरनित्यत्वं श्रूयते तत्कथमित्यत आह ।। स्वदेहेति ।। नत्वेवाहं जातु नासमित्येतत्प्रकारान्तरेण वर्णयति ।। ईश्वरस्येति ।। १२ ।।

न्यायदीपिका

द्वितीयं चोद्यं परिहर्तुमनुवदति ।। बन्धुस्नेहादिति ।। बन्धुस्नेहनिमित्तात्तन्नाशभयादित्यर्थः । सत्यमित्यतोविकल्पासहत्वात्तत्प्राज्ञमतविरुद्धमिति भावेन बन्धुशब्दस्य शरीरविशिष्टचेतनेप्रयोगाद्विकल्पयति ।। तत्रेति ।। आद्यं दूषयितुं देहिन इति श्लोकतात्पर्यमाह ।। देहस्येति ।। न तत्र भये प्रयोजनमिति देहनाशभयनिमित्तया स्वधर्महान्या प्रयोजनं नास्तीत्यर्थः ।

परिहारो हिभये प्रयोजनम् । नचासौ सम्भवति । कौमारादीनामिव देहस्य सर्वथा विनाशित्वात् । प्रयोजनाभावेनच भयानुपपत्तौ न तेन स्वधर्म निवृत्तिर्युक्तेत्यर्थः । भयस्यास्वाधीनत्वेन प्रयोजनापेक्षापूर्वत्वाभावात्कथमितिचेन्न यदृच्छया भयोत्पत्तावपि प्रयोजनाभावपरामर्शेन तत्परिहारस्याभिप्रेतत्वात् । द्वितीयनिरासाय तत्वेवेति श्लोकतात्पर्यमाह । अविनाशित्वेन भयप्राप्तेरयोगात् भयेन स्वधर्मनिवृत्तिः सुतरामयुक्तेत्यर्थः । न तु ईश्वरनाशस्य अनाशङ्कितत्वात् किमर्थं नत्वेहमित्युक्तिः इत्यतो दृष्टान्तत्वेन श्लोकं व्याचष्टे । न तावदिति । प्रागभावश्चेति द्रष्टव्यम् । तावदितीश्वरस्य स्वरूपतोदेहतश्चनाशाद्यभावं सूचयति ।। परमचेतनस्येति ।। स्वतन्त्र चेतनत्व हेतुं सूचयति ।। एवमेवेति ।। चेतनमात्रत्वेन स्वरूपतोनाशादिर्नास्तीत्यर्थः । ईश्वरस्य परमनित्यत्वचेतनत्वे कुतः प्रसिद्धे । येनासौ दृष्टान्ततयोपादीयत इत्यतः श्रुतिप्रसिद्धिं दर्शयति ।। नित्य इति ।। नित्यो नित्यानामित्यतिशये नित्यत्वमेवोच्यते । नतु विवक्षितार्थ इत्यतस्तत्स्मृत्या विवृणोति ।। स्वदेहेति ।। विष्णोरपिजीववद्देहयोगादि सद्भावात्स्वदेहेत्युक्तम् । मुक्तेः पुरेति संबन्धः ।

अथवा दृष्टान्ततां विना ईश्वरोपि पक्षे निक्षिप्यत इति तत्प्राप्तिपूर्वकमाह ।। ईश्वरस्येति ।। तदपि उभयविधानित्यत्वमपि । नन्वत्रेश्वरस्य जीववत्स्वरूपनाशाद्यभाव एवोच्यते तत्कथमुभयविधानित्यत्वं निवार्यत इत्युच्यत इत्यत आह ।। नत्वेवेति ।। तुशब्देनेश्वरस्य विशेषतोनाशाद्यभावो ज्ञायते स चोक्त विध एवेति भावः ।

नन्वर्जुनस्य ज्ञानित्वाद्युद्धगतेपि भगवत्येतच्छङ्काभावादप्राप्तप्रतिषेधोऽयमित्यत आह ।। यद्यपीति ।। प्राप्तः योग्यः शङ्कावां सज्जनश्च । अनेनैवेश्वरानित्यत्वस्याप्रस्तुतत्वादिति भाष्यविरोधोपि परिहृतः । एकान्ते कथ्यमानेनानेन कथं लोकोपकार इत्यत आह।। एकान्त इति ।। व्यासरूपेण गीतायां निबध्य ।। १२ ।।

किरणावली

बन्धुस्नेहस्य स्वधर्मनिवृत्तौ हेतुत्वाभावादेतद्दूषणाय भयविकल्पायोगाच्चेत्यतो व्याचष्टे ।। बन्धुस्नेहादिति ।। सत्यमित्यत इति ।। सत्यं मया बन्धुस्नेहनिमित्तात्तन्नाशभयात्स्वधर्मनिवृत्तिः क्रियत इत्यत इत्यर्थः ।। विकल्पयतीति ।। चेतनाचेतनयोश्चेतनस्य प्रधानत्वात् । तद्विवक्षया प्रवृत्तगीतानुसारेण भाष्येऽथवा जीवनाशं देहनाशं वापेक्ष्य शोक इति विकल्प्य तदुत्तरत्वेन ‘‘न त्वेवाहमि’’त्यादि श्लोकद्वयस्यावतार्य व्याख्यातत्वेऽपि । अत्र देहनाशस्यैव सम्भावितत्वाद्बन्धुशब्दस्य दृश्यमानशरीरविशिष्टचेतने प्रयोगात् । पुरःस्फूर्तिकत्वाच्च देहस्य तद्वैपरीत्येन विकल्पयतीत्यर्थः ।। श्लोकतात्पर्यमिति ।। श्लोकार्थस्तु देहिनो देहाभिमानिनोऽस्मिन्देहे कौमाराद्यवस्थाः यथैकैकापगमे क्रमेण भवन्ति तथा तत्तद्देहनिवृत्तौ देहान्तरप्राप्तिर्भवति । तत्रैवमवश्यंभाविन्यर्थे धीरो नमुह्यतीति । न तत्र भये प्रयोजनमित्यत्र तत्रेति देहपरामर्शः भय इति निमित्तसप्तमी । स्वधर्महान्येति दोषस्तथा च तत्र देहनाशे सति यद्भयं तन्निमित्तया स्वधर्महान्येत्यर्थमभिप्रेत्य व्याचष्टे ।। देहनाशभयनिमित्तया स्वधर्महान्येति ।। देहस्येतीति प्रतीकग्रहणानन्तरं परिहारो हि भये प्रयोजनं न चासौ सम्भवतीत्यारभ्य तत्परिहारस्याभिप्रेतत्वादित्यन्तोऽधिकः पाठो दृश्यते । तस्यायमर्थः । न तत्र भये प्रयोजनमिति देहनाशभयनिमित्तस्वधर्महानिः प्रयोजनमित्यर्थः ।

ततश्च किमित्यत आह ।। परिहारो हि भये प्रयोजनमिति ।। शरीरनाशपरिहारो हि भयनिमित्तस्वधर्महानिप्रयोजनमित्यर्थः । ततश्च किमित्यत आह ।। न चासौ सम्भवतीति ।। न तत्र भये प्रयोजनमित्यतः परं वाक्यमध्याहरति ।। प्रयोजनाभावेन चेति ।। शङ्कते ।। भयस्येति ।। तत्परिहारस्याभिप्रेतत्वादिति ।। भयपरिहारस्येत्यर्थः) ।। अविनाशित्वेनेत्यादि ।। अत्र न तु चेतननाशभयादित्यत्र स्वधर्मनिवृत्तिरित्यनुवर्तत इति भावेन व्याख्यातम् ।। भयेनस्वधर्मनिवृत्तिस्सुतरामयुक्तेत्यर्थ इति ।। भयेन चेतननाशभयेन । ननु भयाख्यस्वधर्मनिवृत्तिहेतोः सद्भावात्कथं निषेध इत्यतः प्रवृत्तस्याविनाशित्वादेवेत्यस्यापेक्षिताध्याहार मध्याहृतेनैवकारस्य सम्बन्धं च मत्वोक्तम् ।। अविनाशित्वेन भयप्राप्तेरेवायोगादिति ।। एवकारसूचितकैमुत्यप्रकटनायोक्तं सुतरामिति । न त्वेवाहमिति पूर्वार्धानुसारेणाह ।। प्रागभावश्चेति ।। तावदितीति ।। यावत्तावच्च साकल्य इत्यभिधानात् । तावन्नाशः सकलोऽपि नाश इति लाभादिति भावः ।। स्वतन्त्रचेतनत्वहेतुमिति ।। नत्वेवेति विशेषद्योतकेन तुशब्देन सूचितं स्वतन्त्रचेतनत्वहेतुमित्यर्थः । एतेनाहं नस्वरूपतो देहतश्च प्रागभावप्रध्वंसप्रतियोगी स्वतन्त्रचेतनत्वादित्यनुमानमुक्तं भवति । एवमेवेत्ययुक्तम् । उक्तहेतुकोक्तसाध्यस्यान्येष्वभावाद्दृष्टान्तदार्ष्टान्तिकभावायोगादित्यत एकदेशानुगमेन तमुपपादयति ।। चेतनमात्रत्वेनेति ।। परमनित्यत्वचेनत्वे इति ।। परमे च ते नित्यत्वचेतनत्वे इत्यर्थः । कुतः प्रमाणात् । ननु परमनित्यत्वे परमचेतनत्वमेव हेतुरित्युक्तत्वात्परमचेतनत्वमात्रे प्रमाणं प्रष्टव्यम् । कथमुभयत्र प्रमाणप्रश्न इति चेन्न । दृष्टान्ताभावेन प्रत्यक्षेण व्याप्तिग्रहानुपपत्तेः । महालक्ष्म्यां साध्यसद्भावेऽपि हेतोरभावेन सति सपक्षे तत्राविद्यमानो हेतुरसाधारण इत्यसाधारण्यात् । सपक्षसद्भावेन केवलव्यतिरेकित्वानुपपत्त्याऽनुमानेनापि व्याप्तिग्रहायोगात् । परमनित्यत्वचेतनत्वे व्याप्यव्यापकतया कुतः प्रमाणात्प्रसिद्धे इत्यर्थस्य विवक्षितत्वात् ।।

श्रुतिप्रसिद्धिमिति ।। ब्राह्मणत्वाहंतव्यत्वयोर्व्याप्यव्यापकतायाः श्रुतिप्रसिद्धत्ववदत्रापि श्रुतिप्रसिद्धिं दर्शयतीत्यर्थः ।। न तु विवक्षितार्थ इति ।। स्वरूपतो देहतश्च प्रागभावविनाशयोरभावरूपो विवक्षितोऽर्थ इत्यर्थः ।। विवृणोतीति ।। नित्योनित्यानामित्यत्रातिशयेन नित्यत्वमुच्यते नित्यत्वं च सर्वदैकप्रकारकत्वम् उत्पत्तिमरणाभावरूपम् । अतिशयश्च सदा देहतोऽप्युत्पत्तिविनाशाभावरूपः । स्वरूपोत्पत्तिविनाशाभावस्य देहोत्पत्तिविनाशाभावस्य च मुक्तौ जीवेष्वपि विद्यमानत्वादित्यर्थस्य स्वदेहयोगेत्यत्र स्फुटप्रतीतेरिति भावः ।। तत्प्राप्तिपूर्वकमिति ।। द्विविधनाशशङ्काप्राप्तिपूर्वकमित्यर्थः । शङ्कापरामर्शे सापीति स्यादित्यत आह ।। तदप्युभयविधानित्यत्वमपीति ।। पूर्वे व्याख्याने प्रतीकस्य गृहीतत्वादत्र प्रतीकग्रहणं व्यर्थमित्यतस्तद्व्यावर्त्याशङ्कामुद्घाटयति ।। नन्वत्रेति ।। प्रतीकग्रहणेन तात्पर्यं किंतूक्तशङ्कापरिहाराय तुशब्दसूचन एवेति भावेनाह ।। तुशब्देनेति ।। उक्तविध एव द्विविधनाशाभावरूप एव । प्राप्त इत्यस्य प्रतिदंयोग्य इति । उपदेशयोग्यश्च क इत्यत आह ।। शङ्कावान्सज्जनश्चेति ।। निश्चितत्वे अयोग्येति प्रसङ्गपरिहारार्थमुभयोपादानम् ।। अनेनैवेति ।। अत्र लोकस्य प्रसक्तिकथनेन भाष्येऽर्जुनापेक्षयाऽप्रस्तुतत्वोक्तिविरो(धो)नेत्यर्थः ।। १२ ।।

भावदीपः

सत्यमिति ।। बन्धुस्नेहनिमित्तान्नाशभयात् ‘न योत्स्ये’ इत्येतत्सत्यमित्यर्जुनोक्तिपरिहारार्थं विकल्पयतीत्यन्वयः ।। तदिति ।। उक्तरूपमर्जुनवचनमित्यर्थः । एवमेवेत्यस्य परमचेतनत्वेनेति भ्रमनिरासायाह ।। चेतनमात्रत्वेनेति ।। अतिशयेन नित्यत्वमेवेति ।। ‘चेतनश्चेतनानाम्’ इत्यत्रेति भावः ।। विवक्षितेति ।। स्वरूपतो देहतश्च प्रागभावविनाशयोरभाव रूपोऽर्थ इत्यर्थः ।। उभयविधेति ।। स्वरूपतो देहतश्चेत्यर्थः । प्रतीकग्रहणबलाच्छङ्कानिरासलाभ इति भावेनाह ।। तुशब्देनेति ।। लोकपदेन विवक्षितमर्थमाह ।। प्राप्त इत्यादिना ।। अनेनेति ।। लोकस्य प्रसक्तिकथनेनार्जुनापेक्षयाऽप्रस्तुतत्वोक्तिविरोधो नेत्यर्थः ।। १२ ।।

भावप्रकाशः

बन्धुस्नेहस्य स्वधर्मनिवृत्तौ हेतुत्वाभावादाह । बन्धुस्नेहनिमित्तादिति । आद्यं दूषयितुं देहिन इति श्लोकतात्पर्यमाहेति । गीतानुसारेण भाष्ये अथवा जीवनाशं वा अपेक्ष्य शोक इति विकल्प्य तदुत्तरत्वेन श्लोकद्वयस्यावतार्य व्याख्यातत्वेऽपि अत्र देहनाशस्यैव सम्भावितत्वाभिप्रायेण तद्वैपरीत्येन विकल्प्याद्योत्तरत्वेन द्वितीय श्लोकतात्पर्यमाहेत्यर्थः । बन्धुस्नेहाद्धि त्वया स्वधर्मनिवृत्तिः क्रियत इति पूर्ववाक्यानुसारेण व्याचष्टे । देहनाशभयनिमित्तया स्वधर्महान्या प्रयोजनं नास्तीत्यर्थ इति । अयं क्वचित्कपाठः । देहस्येतीत्यनन्तरं परिहारोहि भयप्रयोजनमित्यादिपाठान्तरम् । न तत्र भये प्रयोजनमित्युक्तमुपपादयति । परिहारो हि भयप्रयोजनमिति । शरीरनाशभयपरिहारोहि भयनिमित्तमस्वधर्महानिप्रयोजनमित्यर्थः । न तत्र भये प्रयोजनमित्यनन्तरं त्वया स्वधर्मनिवृत्तिः क्रियत इति पूर्ववाक्यानुसारेण किञ्चिदुपस्करोति । प्रयोजनाभावेन चेति । प्रयोजनाभावेन च भयानुपपत्तावित्युक्तिरेवानुपपन्नेति शङ्कते । भयस्यास्वानधीनत्वेनेति । कथमेतदिति । प्रयोजनाभावेन च भयानुपपत्तावित्येतदित्यर्थः । द्वितीयनिरासायेति । चेतननाशभयादिति द्वितीयपक्षनिरासायेत्यर्थः । अविनाशित्वादेवेत्येवशब्दार्थमाह । भयेन स्वधर्मनिवृत्तिः सुतरामयुक्तेत्यर्थः इति ।

इश्वरानित्यत्वस्याप्रस्तुतत्वाद्दृष्टान्तत्वेनाहेति भाष्यं मनसि निधायोत्तरवाक्यमवतारयति । नन्वीश्वरनाशस्येति । नत्वेवाहमिति पूर्वार्धानुसारेणाह । प्रागभावश्चेति । द्रष्टव्यमिति । तावदितीति ।। यावत्तावच्च साकल्ये इत्यभिधानेन तावच्छब्दस्य कृत्स्नार्थकत्वादिति भावः । एवमेवेत्यस्येश्वरवद्द्विविधनाशाभावोऽर्थ इति प्रतीतिनिरासार्थमाह । एवमेवेतीति । नतु विविक्षितार्थ इति । द्विविधनाशशून्यत्वरूपमित्यर्थः । तत्प्राप्तिपूर्वकमिति ।। इश्वरानित्यत्वशङ्काप्राप्तिपूर्वकमित्यर्थः ।। शङ्कापत्तेः परामर्शे सापीति स्यादित्यत आह । तदप्युभयविधानित्यत्वमपीति । सचोक्तविध एवेति । स्वरूपतो देहतश्च नाशाद्यभाव इत्यर्थः । प्राप्त इत्यस्य प्रतिपदं योग्य इति । तदर्थमाह । शङ्कावान्सज्जनश्चेति ।। निश्चितत्वे अयोग्येचातिप्रसङ्गपरिहारार्थं विशेषणद्वयम् ।।

ननु भाष्ये इश्वरानित्यत्वस्याप्रस्तुतत्वाद्दृष्टान्तमाहेत्युक्त्वा अत्र प्रसक्तिपूर्वमीश्वरस्य पक्षत्वकथने तद्विरोधः स्यादित्यत आह । अनेनैवेति ।। अर्जुनातिरिक्तानामीश्वरानित्यस्य प्रस्तुतिकथनेनेत्यर्थः ।। भाष्ये त्वर्जुनेनेश्वरानित्यत्वस्यानाशङ्कितत्वाभिप्रायेणेश्वरानित्यत्वस्या प्रस्तुतत्वामिति भावः ।। १२ ।।

द्वितीयं चोद्यमिति । न योत्स्य इत्येतत् कथं प्राज्ञमतविरुद्धमिति चोद्यं परिहर्तुं कृष्णेन कृतं गीतात्मकग्रन्थबहिर्भूतं अर्जुनचोद्यानुवादं प्रकटीकरोतीत्यर्थः ।। एतेन अर्जुनचोद्यानुवादस्याचार्यैरव कृतत्वात् अर्जुनचोद्यमाचार्यो अनुवदतीति कथनमयुक्तमिति चोद्यं परास्तम् । अस्य कृष्णनुवादानुकरणत्वमङ्गीकृत्य स्वातन्त्र्येणाचार्यैरनुवादः कृत इत्यनङ्गीकारात् । विकल्पयतीति । कृष्णाभिप्रेतं विकल्पं प्रकटीकरोतीत्यर्थः । परिहारोहीति । देहनाशपरिहारः भयनिमित्तस्वधर्महानिप्रयोजनमित्यर्थः ।। द्वितीयनिरासायेति ।। एतेन नाशभयादिति द्वितीयनिरासायेत्यर्थः ।। नत्वेवाहं जातु नासमिति भागस्य अर्थमाह । प्रागभावश्चेति । तावदितीति । तावच्छब्दस्य क्रमार्थत्वात् तावच्छब्देनोभयविधनाशाभावसूचनमिति भावः ।

ननु विशेषाभावात् ईश्वरस्योभयविधनाशाभाववत्वं कुत इत्यत आह ।। परमचेतनस्येति । परमचेतनस्येति पदेनोभयविधनशराहित्ये स्वतन्त्रचेतनत्वरूपं विशेषं सूययतीत्यर्थः । न तु विवक्षितार्थ इति । उभयविधनाशाभावरूपो विवक्षितार्थ इत्यर्थः ।। अथेति ।। अत्र अथशब्दात् परो वाशब्दः लेखकदोषात् इश्वरोऽपीत्यतः परं पतित इति द्रष्टव्यम् । ततश्चैवं टीकावाक्यपाठः । अथवा दृष्टान्ततां विनेश्वरोऽपि पक्षे निक्षिप्यत इतीति ।। प्राप्त इत्यस्य उपदेशयोग्यतां प्राप्त इत्यर्थमभ्युपेत्याह । प्राप्तो योग्य इति ।। कीदृशः पुमान् उपदेशयोग्यो भवतीत्यत आह । शङ्कावानिति । शङ्कासज्जनरूपधर्मद्वयवान् योग्य इत्यर्थः । अनेनैवेति । अर्जुनस्य शङ्काभावप्रतिपादनेन भाष्यमर्जुनपरमिति सूचनात् तद्विरोधः परिहृत इति भावः । मूले प्रकाशयिष्यति हीति । यद्यपि भारतं पूर्वभावि तथापि एतत्कल्पीयकृष्णार्जुनसंवादात् पूर्वकल्पीयकृष्णार्जुनसंवादविषयम् । उत्तरत्रैतत्कल्पीयकृष्णार्जुनसंवादविषयकं भविष्यतीति भावेन प्रकाशयिष्यतीति लृडन्तप्रयोग इति द्रष्टव्यम् ।। १२ ।।