गीता
गीता
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ।। ३५ ।।
इति श्रीभगवद्गीतायां त्रयोदशोऽध्यायः
तात्पर्यम्
जीवानामचेतनप्रकृतेर्मोक्षं भूतप्रकृतिमोक्षम् ।। ३५ ।।
इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये त्रयोदशोऽध्यायः
न्यायदीपिका
अध्यायार्थ उपसंह्रियते ।। क्षेत्रेति ।। तत्र भूतप्रकृतिमोक्षपदं तिरोहितार्थत्वाद्व्याचष्टे ।। जीवानामिति ।। मोक्षं मोक्षसाधनममानित्वमित्याद्युक्तम् ।। ३५ ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां त्रयोदशोऽध्यायः ।। १३ ।।
किरणावली
ननु जीवानां प्रकृतेर्मोक्षस्य प्रागनुक्तत्वादेवमुक्तरीत्या ‘‘भूतप्रकृतिमोक्षं ये विदुरि’’त्ययुक्तमित्यतो मोक्षसाधनममानित्वादिकमिति भाष्यं मनसि निधायाह ।। मोक्षं मोक्षसाधनमिति ।। भूतानां प्रकृतेर्मोक्षो यस्मादिति विग्रह इति भावः । मोक्षसाधनमपि नोक्तं कथमेवमुक्तिरित्यत आह ।। अमानित्वमिति ।। ज्ञानसाधनमपि परंपरया मोक्षसाधनमिति भावः ।। ३५ ।।
इति श्रीमद्विठ्ठलाचार्यपुत्रेण श्रीमत्तीर्थाचार्यचरणसेविना श्रीनिवासेनरचितायां
न्यायदीपकिरणावल्यां त्रयोदशोऽध्यायः ।। १३ ।।
भावदीपः
भूतानां प्रकृतेस्सकाशान्मोक्षो यस्मादिति विग्रहमाश्रित्याह ।। मोक्षं मोक्षसाधनमिति ।। तत्किमित्यत उक्तम् ।। अमानित्वादिकमिति ।। ३५ ।।
इति राघवेन्द्रयतिकृते श्रीमद्गीतातात्पर्यटीकाभावदीपे त्रयोदशोऽध्यायः ।। १३ ।।
भावप्रकाशः
भाष्यानुसारेण मोक्षशब्दार्थमाह । मोक्षसाधनमिति ।। ३५ ।।
इति श्रीमत्सत्यव्रतपूज्यपादशिष्यसत्यप्रज्ञभिक्षुविरचिते
तात्पर्यनिर्णयन्यायदीपिकाभावप्रकाशे त्रयोदशोऽध्यायः ।।