तात्पर्यम्

तात्पर्यम्

अश्रुतप्रतिभा यस्य श्रुतिस्मृत्यविरोधिनी ।

विश्रुता नृषु जातं च तं विद्याद् देवसत्तमम् ।

यश्च स्वमुखमानेन नवाधोदेहवान् पुमान् ।

अष्टमानवती स्त्री च षण्णवत्यङ्गुलौ पुनः ।

दशताौ सप्तपादौ विद्यात् तौ च सुरोत्तमौ ।

यावत् पञ्चाङ्गुलोनं तद्देवमानं क्रमात परम् ।

पादे त्वङ्गुलमात्रोनं तदूनं चतुरङ्गुलम् ।

यावद्देवोपदेवानां पादे चोनाङ्गुलं पुनः ।

तावन्मनुष्यमानं स्यात् ततोऽधस्त्वासुरं स्मृतम् ।

द्विचत्वार्यधिकं तस्मात् षण्णवत्यङ्गुलादधः ।

ज्ञेयमङ्गुलमानं तदुपदेवादिषु स्फुटम् ।

देवेष्ववरवज्ज्ञेयमृषीणां चक्रवर्तिनाम् ।

यावद् यावत् प्रियो विष्णोस्तावत् स्त्रीपुंस्वरूपिणः ।

हरेः सादृश्यमस्य स्यादनादिक्रमसुस्थिरम्’ इति च ।। २४२६ ।।

न्यायदीपिका

यदुक्तं मनुष्याणां प्रतिभा मूलप्रमाणसापेक्षा प्रायो न सम्यगुत्पद्यतेऽल्पा चेति तदयुक्तम् । पाण्डवादिमनुष्याणामश्रुतार्थेऽपि सम्यक् बहुप्रतिभादर्शनादित्याशङ्कां प्रमाणेनैव परिहरति ।। अश्रुतेति ।। विश्रुता व्याप्ता बहुलेत्यर्थः । तल्लक्षणान्तराणि चाह ।। यश्चेति ।। यः पुरुषः स्वमुखपरिमाणेन नवपरिमाणाधोदेहवान्, याच स्त्री स्वमुखपरिमाणेनाष्टपरिमाणवती तौ पुनः स्वस्वांगुलिपरिमाणेन षण्णवत्यङ्गुलौ । स्वस्वतालपरिमाणेन दशतालौ । स्वस्वपादपरिमाणेन सप्तपादौ तौच सुरोत्तमौ विद्यादित्यर्थः । अत्र तालो नाम मध्यमाङ्गुल्यग्रान्मणिबन्धपर्यन्तःकर उच्यते । देवोत्तमलक्षणमुक्त्वा देवमात्रलक्षणमाह ।। यावदिति ।। तत् षण्णवत्यङ्गुलं क्रमेण ह्रसदेकनवत्यङ्गुलपर्यन्तमुत्तमावरसुरावधिकदेवमानं भवति ।। अत्र सप्तपादपरिमाणं क्रमेण ह्रसदेकाङ्गुलोनमेव भवतीत्यर्थः । गन्धर्वादिलक्षणमाह ।। तदूनमिति ।। तदेकनवत्यंगुलं सप्ताशीत्यंगुलपर्यन्तं क्रमेण ह्रसद्गन्धर्वादिपरिमाणं भवति । अत्रापि सप्तपादपरिमाणं क्रमेण ह्रसत्पुनरेकाङ्गुलोनं भवतीत्यर्थः । मनुष्यलक्षणमाह ।। तावदिति ।। सप्ताशीत्यङ्गुलं मनुष्यपरिमाणमित्यर्थः असुरलक्षणमाह ।। तत इति ।। सप्ताशीतेरधस्तादसुरपरिमाणमित्यर्थः । देवोपदेवानां मानस्य सम्भूय कियतीष्वंगुलिषु परिसमाप्तिरित्यत आह ।। द्विचत्वारीति ।। तस्मात्सप्ताशीत्यङ्गुलादुपरि देवोत्तमपरिमाणात् । षण्णवत्यंगुलादधो यदष्टाङ्गुलं तद्देवोपदेवपरिमाणं ज्ञातव्यमित्यर्थः । ऋष्यादिलक्षणमाह ।। देवेष्विति ।। च्यवनादीनां पृथ्वादीनामवरदेववत्परिमाणं ज्ञातव्यमित्यर्थः । एतल्लक्षणतारतम्ये हेतुमाह ।। यावदिति ।। अनेनैतत्स्वाभाविकमिति चोक्तं भवति ।। २४२६ ।।

किरणावली

मनुष्याणामिति मूले मनुष्याणामल्पा चापि प्रतिभेति योज्यम् । नत्वल्पत्वमपि श्रवणैकाश्रयत्वव्यपदेशे हेतुः । तथात्वे टीकायामस्वतन्त्रे साधुन्यल्पे चासत्वोक्तिदर्शनादिति वक्तव्यत्वात् । ‘‘अश्रुता प्रतिभे’’ति मूले अश्रुतेत्यस्याश्रुतार्थविषयिणीत्यर्थः । विश्रुतेत्यस्य विश्रुता प्रसिद्धा सर्वत्र कीर्त्याव्याप्ता । अल्पत्वे लोके कीर्तिव्याप्तेरभावात् बहुलेति पर्यवस्यतीति भावेन तात्पर्यार्थमाह ।। विश्रुतेति ।। तल्लक्षणान्तराणीति ।। पाण्डवादयो न साधारणमनुष्याः । किंतु देवांशाः देवतालक्षणाश्रुतप्रतिभावत्वादित्युक्तं देवतालक्षणान्तरवत्वाच्च न साधारणमनुष्यत्वमिति भावेन तल्लक्षणान्तराण्याहेत्यर्थः ।। नवपरिमाणाधोदेहवानिति ।। ननु नवांगुललसन्मुख इति वचनान्मुखस्य नवाङ्गुलत्वान्नवत्यङ्गुललाभेऽपि षण्णवत्यङ्गुललाभः कथमिति चेन्न । तन्त्रसारे नासाया उच्चत्वेनैव मापने अर्धाङ्गुलाधिकं सर्वमुखस्य तु भविष्यतीत्युक्तत्वेन नासिकोच्चत्वेन सह मुखस्य सार्धनवाङ्गुलत्वेन पञ्चनवत्यङ्गुललाभात् । मन्दहासार्थमीषन्मुखविवरस्यापेक्षितत्वेन सार्धनवाङ्गुलापेक्षया मुखस्य किञ्चिदधिकत्वाच्च षण्णवत्यङ्गुललाभः । यद्वा नासिकोच्चत्वं हासं चाविवक्षित्वा मुखमानं नवाङ्गुलम् । नवाधोदेहवानित्यत्राधोदेहशब्देन गलाधोदेहो विवक्षितः । तथा च । गले च चतुरङ्गुलमितिवचनान्मुखादूर्ध्वं द्व्यङ्गुलोच्चमिति वचनाच्च षण्णवत्यङ्गुललाभो द्रष्टव्यः ।। अष्टपरिमाणवतीति ।। अष्टपरिमाणाधोदेहवतीत्यर्थः । तदुक्तं श्रीमत्पद्मनाभतीर्थीये । या स्त्रीस्वमुखमानेनाष्टमानाधोदेहवतीति स्त्रीमुखस्य पुरुषमुखवदति वर्तुलत्वाभावेनैकाङ्गुलदैर्घ्यान्नवत्यङ्गुललोभ उक्तप्रकारद्वयेन षण्णवत्यङ्गुत्वं बोध्यम् । ननु साङ्गुलस्तु तलः नवाङ्गुल उदाहृत इति वचनात्तलतालशब्दयोः पर्यायत्वात् । दशतालत्वे पञ्चनवत्यङ्गुललाभेऽपि षण्णवत्यङ्गुललाभः कथमित्यत आह ।। अत्र तालो नामेति ।। नात्र तालपदेनान्तर्भागे रोमरहितः सार्धनवाङ्गुलस्तलो विवक्षितः । किंतु मध्यमाङ्गुल्यग्रान्मणिबन्धपर्यन्तः करस्तस्य च रोमवन्मणिबन्धपर्यन्तत्वात्तलापेक्षया किञ्चिदधिकत्वात्तद्दशपरिमितत्वे षण्णवत्यङ्गुलत्वोपपत्तिरिति भावः ।।

देवोत्तमलक्षणमिति ।। विष्णुश्रीब्रह्मवायुतत्पत्नीलक्षणमित्यर्थः ।। देवमात्रलक्षणमिति ।। देवोत्तमदेवावरावधिकयावद्देवलक्षणमित्यर्थः । यावत्पञ्चाङ्गुलोनमित्यस्य तत् षण्णवत्यङ्गुलं परिमाणस्योपदेवमानैकनवत्यङ्गुलावधिकं पञ्चाङ्गुलोनं भवतीति तावत्सर्वदेवमानम् । तथा च सर्वे देवाः क्रमेण षण्णवत्यारभ्य एकनवत्यङ्गुलपरिमाणिन इति भावः । तदिदमाह ।। तत् षण्णवत्यङ्गुलमिति ।। एकनवतीत्युपदेवमानैकनवत्यङ्गुलावधिकमित्यर्थः । पदेत्वङ्गुलमात्रोनमित्यस्य सप्तपादपरिमाणविषये उत्तमावरसुरावधिकदेवमानं क्रमावरम् । क्रमेण ह्रसदेकाङ्गुलोनमेव भवति । सप्तपादपरिमाणं उत्तमपादस्य षण्णवत्यङ्गुलसप्तमांशत्वात् । तत्र संपूर्णमप्यवरपादानां षण्णवत्यङ्गुल मध्ये स्वस्वक्लृप्ताङ्गुलसप्तमांशत्वाभावात् । षोडशाष्टमांशपादार्धादिरूपेण क्रमेण ह्रसदेकाङ्गुलोनमेव भवतीत्यभिप्रेत्य व्याचष्टे ।। अत्रेति ।। अत्र देवेषु सप्तपादपरिमाणं क्रमेण ह्रसदेकाङ्गुलोनमेव भवतीत्यर्थः । तदूनं चतुरङ्गुलमित्यस्य तद्देवावमावधित्वेनोक्तमेकनवत्यङ्गुलं क्रमावरम् । क्रमेण ह्रसितं सत् यावत् द्व्यवधिकं चतुरङ्गुलमूनं भवति तदवधिकमुत्तमावरावधिकोपदेवानां मानं भवति । उपदेवोत्तमेषु पूर्णस्य क्रमेण ह्रसितस्यैकनवत्यङ्गुलपरिमाणस्योपदेवानन्तरकक्ष्यामानसप्ताशीत्यङ्गुलावधिकं चतुरङ्गुलौन्यं भवतीति तावदुपदेवमात्रमानम् । एकनवत्यारभ्याष्टाशीत्यङ्गुलपरिमाणिनः क्रमेण सर्वे उपदेवा इति भावः । तदिदमाह ।। तदेकनवत्यङ्गुलमिति ।। सप्ताशीत्यङ्गुलपर्यन्तमित्यस्योपदेवाधमकक्ष्यामानसप्ताशीत्यङ्गुलावधिकमित्यर्थः ।। अत्रापीति ।। गन्धर्वाद्युपदेवेष्वपि सप्तपादपरिमाणं पुनः देवेभ्योऽतिशयेनैकाङ्गुलोनम् । द्व्यङ्गुलोनमिति यावत् । पूर्ववदुपपादनं द्रष्टव्यम् ।। मनुष्यलक्षणमिति ।। मनुष्यगन्धर्वक्षितिपमनुष्योत्तमलक्षणमित्यर्थः ।। असुरलक्षणमिति ।। एकगुणोपासकमनुष्यान्तामोक्षयोग्याः सुरास्तदन्येऽसुरा इति द्रष्टव्यम् । तेन नित्यसंसारिणामपि सङ्ग्रहः । द्विचत्वार्यधिकं तस्मादित्यत्र तस्मादधिकमित्यस्यार्थः तस्मात्सप्ताशीत्यङ्गुलादुपरीति । द्विचत्वारीत्यस्यार्थो यदष्टाङ्गुलमिति । उपदेवादिष्वित्येतत् । प्राधान्यक्रमेणादिपदार्थकथनपूर्वकं व्याचष्टे ।। तद्देवोपदेवपरिमाणमिति ।। ऋष्यादिलक्षणमिति ।। मनुष्यगन्धर्वाधिकानां देवगन्धर्वचिरपित्राजानजतत्समशतसङ्ख्याकदेवगन्धर्वान्तानां लक्षणमुक्त्वा कर्मजसमर्ष्यादिलक्षणमाहेत्यर्थः । च्यवनादीनां च्यवनोचथ्यादीनां ऋषीणम् । पृथ्वादीनां पृथुहैहयशशिबिन्द्वादीनां चक्रवर्तिनाम् । देवेष्ववरवत् तत्वदेवेष्ववराणां यथा द्विनवत्यङ्गुलपरिमाणं लक्षणं तथा ज्ञातव्यमित्यर्थः । नन्वनुव्याख्याने कर्मदेवसमौच्यवनोचथ्यौ द्वावृषी उक्तौ । कथं च्यवनादीनां ऋषीणामिति बहुवचनम् । नारदभृगुवसिष्ठादीनां देवोत्तमत्वेन तदवरसाम्यायोगादिति चेन्न । अनुव्याख्याने च्यवनोचथ्यग्रहणस्य कर्मजसमेष्वृषिषु तयोरीषदुत्तमत्वाभिप्रायेण कृतत्वेऽपि ऋष्यशीतिस्तथासप्तपितर इति पञ्चमस्कन्धतात्पर्योक्तानां ग्राह्यत्वात् । अत्र कर्मजसमऋषिराजग्रहणेन बल्याद्याः कर्मदेवाः पितृणां सप्तकं यत्तत् कर्मदेवसमं स्मृतमिति वचनात्सप्तपितरः कर्मदेवगणाः । अष्टपितरः अवरमनव इत्येवमादयो यथाशास्त्रं ग्राह्याः । अत एव वाजसनेयभाष्य देवावरा यथा तद्वन्मनवोऽपि प्रकीर्तिता इत्युक्तम् ।

ननु कर्मदेवानां तत्वदेवावरसमानलक्षणत्वे तदवरत्वं तेषां कथमिति चेन्न । देवोत्तमानां सरस्वत्यन्तानां षण्णवत्यङ्गुलपरिमाणसाम्येऽपि तारतम्यवन्मनुष्याणां सप्ताशीत्यङ्गुलपरिमाणत्वेऽपि तारतम्यवदत्राप्युपपत्तेरिति ज्ञेयम् । यावद्यावत्प्रिय इति मूलस्य स्त्रीपुंस्वरूपिणो र्विष्णोर्यावद्यावद्यथा यथा प्रियस्तावत्तथा प्रीतिविषयत्वतारतम्येनैव स्त्रीपुंस्वरूपिणोऽस्य चेतनस्य हरेः सादृश्यं भगवल्लक्षणसदृशलक्षणवत्त्वं स्यादत्र स्यादित्युक्त्याङ्गुलिकत्वप्रतीतिं वारयितुमुक्तम् अनादीति ।। अनादि योग्यता क्रमसुस्थिरमनपायियावद्द्रव्यभावीत्यर्थः । ननु लक्षणतारतम्ये हेतुमाहेत्यवतारिकाऽयुक्ता । एतल्लक्षणं स्वाभाविकमित्युच्यते यावदितीति पद्मनाभतीर्थीयावतारिकाविरुद्धत्वादित्यत आह ।। अनेनेति यावद्द्रव्यभावित्ववचनेनेत्यर्थः ।। २४२६ ।।

भावदीपः

तल्लक्षणान्तराणि चेति ।। भूमिजातदेवलक्षणान्तराणि चेत्यर्थः ।। क्रमेण ह्रसदिति ।। पञ्चनवतिचतुर्नवतित्रिनवतिद्विनवतीत्येवंरूपेणेत्यर्थः । पादे त्वित्यस्यार्थमाह ।। अत्रेति ।। उत्तमावरसुरावधिके देवमानविषय इत्यर्थः ।। क्रमेण ह्रसदिति ।। एकांगुलमध्य एव पादाङ्गुलार्धाङ्गुलादि रूपेण ह्रसदित्यर्थः । चतुरङ्गुलं यावदित्यस्यार्थः सप्ताशीत्यङ्गुलपर्यन्तमिति ।। अत्रापि ।। गन्धर्वादिविषयेऽपीत्यर्थः ।। देवोपदेवेति ।। देवानामुपदेवशब्दितगन्धर्वाणां च परिमाणमित्यर्थः ।। अवरदेववदिति ।। एकनवत्यङ्गुलपरिमाणमित्यर्थः ।। २४२६ ।।

भावप्रकाशः

वीत्यस्य निषेधार्थत्वेन विश्रुतेत्यस्याश्रुतेत्यर्थ इति प्रतीतिनिरासाय प्रतिपदं दर्शयति । व्याप्तेति । परमात्मातिरिक्तानां प्रतिभाया व्याप्तत्वस्य बाधितत्वादाह । बहुलेत्यर्थ इति । तालोनाम तृणराज इति प्रतीतिनिरासायाह ।। अत्र तालोनामेति । खरतालवनान्तरस्था इत्यत्राप्येतदर्थत्वं प्रतीतिनिरासायोक्तमत्रेति । सप्ताशीत्यङ्गुलपर्यन्तमिति । अत्र सप्ताशीत्यङ्गुलपरिमाणं मर्यादात्वेनोक्तम् । नतु गन्धर्वादिनिष्टत्वेन तस्योत्तरवाक्ये मनुष्यमानत्वेन वक्ष्यमाणत्वादिति द्रष्टव्यम् । पुनरेकाङ्गुलोनमिति । देवमात्रपरिमाणापेक्षयाप्येकाङ्गुलोनमित्यर्थः । यदष्टाङ्गुलमिति । अनेन द्विचत्वारीत्येतत् द्विगुणितचत्वारीति व्याख्यातं भवति । ऋषीणां वशिष्ठादीनामिति प्रतीतिनिरासाय व्याचष्टे । च्यवनादीनामिति ।। २४२६ ।।

वाक्यविवेक

लक्षणान्तराण्याहेति । उत्तमानां चत्वारि लक्षणान्याहेत्यर्थः ।। मुखमानेनैकं आङ्गुलिमानेन द्वितीयम् । तालव्यमानेन तृतीयं पादमानेन चतुर्थमिति विवेकः । षण्णवत्यङ्गुलमिति । एकनवतिमारभ्य पूर्णषण्णवत्यङ्गुलिपर्यन्तमानं उत्तमावरसु भवलक्षणेति ।। पुनरेकाङ्गुलोनमिति । सप्तपादपरिमाणस्य क्रमेण ह्रासे एकाङ्गुलोनत्वे गन्धर्वादिलक्षणमित्युच्यत इति द्रष्टव्यम् ।। मूले स्त्रीपुंस्वरूपिण इति समासान्ताभावच्छान्दसः ।। २५२६ ।।