गीता

सात्विकराजसतामसबुद्ध्यः

गीता

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।

बन्धं मोक्षं च यो वेत्ति बुद्धिः सा पार्थ सत्त्विकी ।। ३० ।।

यया धर्ममधर्मं च कार्यं चाकार्यमेव च ।

अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ।। ३१ ।।

अधर्मं धर्ममिति या मन्यते तमसावृता ।

सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ।। ३२ ।।

तात्पर्यम्

किञ्चिद् यथावद् धर्मादीनयथावच्च पश्यति ।

यया बुद्ध्या राजसी सा मिथ्यादृक् त्वेव तामसी’ इति च ।। ३१,३२ ।।

प्रकाशिका

‘‘यया धर्ममधर्म च कार्य चाकार्यमेव च ।। अयथावत्प्रजानाति बुद्धिस्सा पार्थ राजसी ।। अधर्म धर्ममिति या मन्यते तमसाऽऽवृता ।। सर्वार्थान्विपरीतांश्च बुद्धिस्सा पार्थ तामसी ।।’’ इत्यत्र राजसतामसबुद्ध्योः परस्परं वैलक्षण्यमाह ।। किञ्चिदिति ।। ३१३२ ।।

न्यायदीपिका

बुद्धेरिति प्रतिज्ञातमुच्यते ।। प्रवृत्तिमिति ।। तत्र यया धर्ममधर्ममित्युक्तबुध्द्योरेकप्रकारत्वात्कथं राजसतामसत्वमित्यतः तद्विभागं वाक्यान्तरेण दर्शयति ।। किञ्चिदिति ।। अनेनायथावदिति नियमेन यथावन्नेत्युक्तं भवति ।। ३०३२ ।।

किरणावली

बुद्धेरिति प्रतिज्ञातमिति ।। बुद्धिर्यस्य नलिप्यत इति प्रसक्तायाः बुद्धेर्धृत्युत्साह समन्वित इति प्रसक्ताया धृतेश्च भेदं ृण्विति प्रतिज्ञातमुच्यत इत्यर्थः ।। तत्र ययाधर्ममिति ।