गीता
सात्विकराजसतामसानां स्वरूपभेदाः
गीता
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ।। ३ ।।
तात्पर्यम्
सत्त्वानुरूपा जीवानुरूपा अतो ये सात्त्विकश्रद्धास्ते सात्त्विका इति ज्ञायन्तेऽन्येऽन्य इति । श्रद्धामयः श्रद्धास्वरूपः ।
‘श्रद्धा स्वरूपं जीवस्य तस्माच्छ्रद्धाविभेदतः ।
उत्तमाधममध्यास्तु जीवा ज्ञेयाः पृथक् पृथक् ।
स्वरूपभूता श्रद्धैव तमोगानां च मोक्षिणाम् ।
शिष्यते संसृतिस्थानां श्रद्धारूपं मनोऽपरम् ।
तत्र स्वरूपश्रद्धैव व्यज्यते प्रायशः क्वचित् ।
सात्त्विकी तामसस्यापि भूयस्त्वात् तद् विविच्यते ।। ३ ।।
प्रकाशिका
अस्मिन्नध्याये सत्कर्मासत्कर्मविवेको निरूप्यते
‘‘ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ।।
तेषां निष्ठा तु का कृष्ण सत्वमाहो रजस्तम’’
इत्यस्य यदुत्तरवाक्यं ‘‘सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं पुरुष’’ इति तदर्थमाह ।। जीवानुरूपेत्यादिना ।। सात्विक्या श्रद्धया युक्ता यजन्ते चेदपरिज्ञानात् शास्त्रविध्युत्सर्गेऽपि सात्विकाः ।। राजस्या श्रद्धयाऽन्विता यजन्ते चेद्राजसाः । तामस्या श्रद्धयाऽन्विता यजन्ते चेत्तामसा इत्यर्थः ।। या प्राकृतमनसि बाहुल्येनाभिव्यज्यते श्रद्धा, सा जीवस्य न स्वरूपभूता । या क्वचिज्जायते सा प्राकृतमनोधर्म इत्येतदुच्यते ।। ‘‘भूयस्त्वात्तद्विविच्यत’’ इत्यनेन ।। ३ ।।
न्यायदीपिका
ये शास्त्रविधिमुत्सृज्येति प्रश्नस्योत्तरमुच्यते ।। त्रिविधेति ।। तत्र नाज्ञानाच्छास्त्रविधिमुत्सृज्य यजनं सात्विकत्वादिज्ञापकम् । किंतु सात्विकत्वादिभेदेन श्रद्धा त्रिविधा भवति ।। तत्र यो यजमानो यादृशश्रद्धः स तादृश इति श्रद्धयैव तज्ज्ञानमित्युक्तस्योपपादनायोक्तम् ।। सत्वानुरूपेति ।। तत्र श्रद्धायाः सत्वगुणानुरूपत्वोक्तया कथं यो यच्छ्रद्धः स एव स इत्यस्योपपादनमित्यत आह ।। सत्त्वेति ।। सत्वशब्दस्य जीववाचित्वं पूर्वमेव साधितम् । किमतो यद्येवमित्यत आह ।। अत इति ।। श्रद्धाया जीवानुरूपत्वोत्तया तत्स्वरूपं ज्ञायत इत्यर्थः । श्रद्धाया जीवस्य रूपत्वं कुत इत्यत आह ।। श्रद्धामय इति ।। तत्र मयट्शब्दस्यानेकार्थत्वादत्रोपयुक्तमर्थमाह ।। श्रद्धेति ।।
तां ृण्विति प्रतिज्ञातं यो यच्छ्रद्ध इत्यस्य विवरणेनोच्यते ।। यजन्त इति ।। तत्रान्तःकरणवृत्तिश्रद्धाया अपि विद्यमानत्वेन स्वरूपभूताया विवेक्तुमशक्यत्वोत्तया कथं जीवस्वरूपज्ञानं सर्वेषामपि देवतायाजित्वात्कथं यक्षरक्षांसीत्यादि । कथं च नित्याकृशमीश्वरं तामसाः कर्शयन्तीत्यादिशङ्कापरिहाराय सत्त्वानुरूपेत्यादि प्रमाणवाक्येनैव व्याचष्टे ।। श्रद्धेति ।। किं श्रद्धा स्वरूपभूतैवोतभिन्नाऽप्यस्तीत्यत आह ।। स्वरूपेति ।। तर्हि स्वरूपश्रद्धाया एव ज्ञातुमशक्यत्वान्न तया जीवस्वरूपविवेक इत्यत आह ।। तत्रेति ।। व्यज्यतेऽन्तःकरणे । एवं राजसस्यापि सात्विकी तामसी क्वचिदेव भवतीति ज्ञातव्यम् । किं तत इत्यत आह ।। भूयस्त्वादिति ।। एवं स्वरूपश्रद्धाया एवाधिक्येनाभिव्यक्तेर्ज्ञातुं शक्यत्वात्तया जीवस्वरूपं विविच्यत इत्यर्थः ।। ३ ।।
किरणावली
ये शास्त्रविधिमुत्सृज्येति प्रश्नस्येति ।। वेदः कृत्स्नोऽधिगन्तव्य इत्यर्थज्ञानपर्यन्तं विधिं वेदतात्पर्यापरिज्ञानित्वादुत्सृज्य श्रद्धयाऽन्विता ये यजन्ते तेषां शास्त्रविधिमजानतां निष्ठा स्वरूपव्यवस्थितिः का किंरूपा तत्स्वरूपपर्यवसानकारणं किं सत्वमुत रजोऽथवा तमः । किं सात्विकाः राजसास्तामसावेति प्रश्नस्येत्यर्थः । नन्वज्ञानपूर्वं यजनं त्रिविधमनुक्त्वा श्रद्धावैविध्यं किमर्थमुच्यत इत्यतस्तन्निमित्तं वदन् त्रिविधेति श्लोकतात्पर्यमाह ।। तत्र नाज्ञानादिति ।। पूर्ववाक्योक्तयोरज्ञानाच्छास्त्रविधिमुत्सृज्य यजनश्रद्धयोर्मध्ये नाज्ञानाच्छास्त्रविधिमुत्सृज्य यजनं सात्विकत्वादिज्ञापकं अज्ञानस्य त्रिविधसाधारणत्वेन भेदकत्वासम्भवात् । न चाज्ञानप्रभेदाः सम्भवन्ति । किंतु श्रद्धयान्विता इति तद्विशेषणत्वेनोक्ता श्रद्धैव सत्वादिभेदेन त्रिविधा भवतीत्यर्थ इति भावः । भवत्वेवं श्रद्धात्रैविध्यं तेषां का निष्ठेत्यस्य किमुत्तरमित्यतः प्रवृत्तस्य यो यच्छ्रद्धः स एव स इत्यस्यार्थं वदंस्तत्संगतत्वेन सत्त्वानुरूपा सर्वस्येत्येतदवतारयति ।। तत्र यो यजमान इति ।। यो यजमानः शास्त्रविध्यपरिज्ञानेऽपि सात्विकश्रद्धः स सात्विकः राजसश्रद्धो राजसः तामसश्रद्धस्तामस इति । श्रद्धयैव श्रद्धाविभागेनैव । तज्ज्ञानं सात्विकत्वादिज्ञानम् । इत्यस्य पश्चादुक्तत्वेऽप्याकाङ्क्षाक्रमेण शृण्वित्यनन्तरं संयोज्योक्तस्योपपादनायोक्तमित्यर्थः ।। कथं योयच्छ्रद्धः स एव स इत्यस्योपपादनमिति ।। श्रद्धायाः सत्त्वगुणानुरूपत्वे सात्विकत्वादिभेदेन श्रद्धात्रैविध्यस्य व्याहतत्वेन यो यच्छ्रद्धः स एव स इत्यस्य कथमुपपादनमित्यर्थः ।। पूर्वमेवेति ।। सत्वं जीवः क्वचित्प्रोक्त इति पूर्वाध्याय एवेत्यर्थः। श्रद्धायाः जीवानुरूपत्वे तत्तज्जीवानुरूपया सात्विकत्वादिभेदभिन्नया श्रद्धया तदनुरूपिसात्विकत्वादि रूपभेदवत् जीवस्वरूपत्वं कुत इत्यर्थः ।
ननु सात्विकादिभेदभिन्नां श्रद्धां ृण्विति प्रतिज्ञातं नोच्यते यजन्ते सात्विका इत्यप्रसक्तं चोच्यत इत्यत अवतारयति ।। तांशृण्विति ।। प्रतिज्ञातमुच्यत इत्यन्वयः । तथाप्रतिभासात्कथमुच्यत इत्यत उक्तम् ।। योयच्छ्रद्ध इत्यस्य विवरणेनेति ।। यो यच्छ्रद्ध इत्यत्र सात्विकादिश्रद्धः सात्विकादिरित्युक्ते कः सात्विकादिश्रद्ध इति जिज्ञासायां देवादियाजी सात्विकादिश्रद्ध इति तां शृण्विति प्रतिज्ञातमेवोच्यत इत्यर्थः ।। सर्वेषामपीति ।। अग्नये जुष्टं निर्वपामीत्यादिशास्त्रानुसारेण त्रयाणामपि देवतायाजित्वादित्यर्थः । न च शास्त्रविध्युत्सर्गोक्तिविरोधः । शास्त्रविधिमुत्सृज्येत्यस्य शास्त्रविधानमप्रामाण्यबुद्ध्या परित्यज्येति नार्थः । तथात्वे तादृशानां बौद्धादीनां सात्विकादिभेदेन त्रैविध्यप्रसङ्गात् । तस्य चायोगात् । किंतु साकल्येन वेदविधिमज्ञात्वेत्यस्य स्वीकृतत्वेन तैरप्यग्नये स्वाहा सूर्याय स्वाहेत्यादि रूपेणैव यजनादिति भावः ।। इत्यादिशङ्कापरिहारायेति ।। कथं च शरीरस्थस्याकाशादिभूतग्रामस्य कर्शनं भूतपदस्य भगवदन्यचेतनपरत्वे वा कथं लक्ष्म्यादीनां कर्शनमित्यादिशङ्कापरिहारायेत्यर्थः । श्रद्धास्वरूपं जीवस्येत्यादेरयमर्थः । यस्माच्छ्रद्धा तत्तज्जीवस्वरूपं नातिरिक्ता तस्मात् श्रद्धाविभेदतस्तु तत्तज्जीवानुरूपश्रद्धाविभेदत एव जीवा उत्तमाधममध्यमाः पृथग्विविच्य ज्ञेयाः । नाज्ञानाच्छास्त्रविधिमुत्सृज्य यजनेन तस्य त्रिविधसाधारणत्वादिति । अत्र जीवाः सात्त्विकादिभेदतो ज्ञेया इत्यनुक्त्वोत्तमाधममध्यमाः इत्युक्तया स्वरूपसत्वरजस्तमोगुणानां भेदकानामभावात्सात्विकादिशब्देनोत्तमाधममध्यमा एव विवक्षिताः । सांसारिकसत्त्वादिगुणकार्यश्रद्धाविभेदेन स्वरूपश्रद्धाया अभिव्यक्तेस्तेषां सात्विकादित्वोक्तिरत एव गुणभेदकथनाध्याये स्वरूपश्रद्धाभेदस्य तेन चोत्तममध्यमाधमजीवस्वरूपज्ञानस्य कथनं युक्तमिति भावः । वक्ष्यते चैतत् । अत्र जीवानां सात्विकत्वाद्युत्तमत्वादीति ज्ञातव्यमिति । संसृतिस्थानामिति मूलस्य संसृतिस्थानां त्रिविधजीवानां अपरं स्वरूपातिरिक्तं श्रद्धां रूपयति निरूपयति जनयतीति श्रद्धारूपं मनोस्तीत्यर्थः ।। तर्हीति ।। प्राकृतमनोजन्यश्रद्धाया अप्यङ्गीकारे मनसस्त्रिगुणात्मकत्वात्रिविधजीवानामपि स्वरूपाननुसारित्रिविधश्रद्धोदयेन स्वरूपभूतश्रद्धाया एव विविच्य ज्ञातुमशक्यत्वात् । न तया जीवस्वरूपविवेक इत्यर्थः । तत्र स्वरूपश्रद्धैवेति मूलस्य तत्र स्वरूपास्वरूपश्रद्धयोर्मध्ये स्वरूपश्रद्धैव स्वरूपान्तःकरणे प्रायशो बहुकालं व्यज्यते । तदनुरूपा तद्व्यंजकीभूता अन्तःकरणात्मिकाच श्रद्धा प्रायशः उदेति । प्रायःशब्दव्यावर्त्यमुक्तं मूले क्वचिदिति । क्वचित्सात्विकस्यान्तःकरणात्मिकान्तः करणपरिणामरूपाऽत एवान्तःकरणस्य त्रिगुणात्मकत्वात्तमोरूपा तमोगुणकार्यरूपा श्रद्धा भवति । तामसस्यापि क्वचिदन्तःकरणात्मिकाऽत एव सात्विकी श्रद्धा भवतीत्यर्थः । ननु संसृतिस्थानामित्यत्र त्रिविधानां संसृतिस्थानां स्वरूपास्वरूपश्रद्धे उक्त्वा तत्र स्वरूपश्रद्धैव प्रायशो व्यज्यत इति चोक्त्वा प्रायःशब्दव्यावर्त्यकथनग्रन्थे राजसस्य क्वचिच्छ्रद्धानुक्तौ न्यूनतेत्यत आह ।। एवमिति ।। ३ ।।
भावदीपः
ननु ये शास्त्रविधिमुत्सृज्येत्यत्र तेषां निष्ठा तु केति पृष्टे सात्त्विकत्वादिकमेव वाच्यम् । त्रिविधेत्यादिकं किमुच्यत इत्यत आह ।। इति प्रश्नस्यैवेति ।। शास्त्रविधिमजानतां निष्ठायाः तदज्ञानस्य सात्विकादित्रयाणां सम्भवेनाज्ञानमुखेन सात्विकादिभेदस्य वक्तुमशक्यत्वात् । प्राक् यष्टृविशेषणतया यागाङ्गत्वेनोक्तश्रद्धां विभज्य तदाश्रयेण तेषां सात्विकत्वादिस्वरूपमुच्यत इति भवति तत्प्रश्नस्येदमुत्तरमिति नासङ्गतमिति भावेन तदुत्तरत्वं विवृण्वन्नुत्तरश्लोकमवतारयति तत्रेत्यादिना भवतीत्यन्तेन । त्रिविधेति श्लोकार्थ उक्तः । यो यछ्रद्ध इत्यस्यार्थस्तत्रेत्यादिनोच्यते ।। तज्ज्ञानमिति ।। सात्त्विकत्वादिज्ञानम् । इत्युक्तस्येति । चतुर्थपादोक्तस्येत्यर्थः ।। पूर्वमेवेति ।। ‘‘सत्वं जीवः क्वचित्प्रोक्त’’ इत्यादिना त्रयोदशाध्याये ।। अनेकार्थत्वादिति ।। ‘‘तादात्म्यार्थे विकारार्थे प्राचुर्यार्थे मयट् त्रिधे’’त्युक्तेरिति भावः ।। तामिति ।। सात्विकादिश्रद्धां सात्विकादिश्रद्धावद्भिः क्रियमाणयजनमिति यावत् । इत्यस्य विवरणेनेति ।। य इत्यत्र सात्विकादिश्रद्धः सात्विकादिरित्युक्ते कः सात्विकश्रद्धादिरिति जिज्ञासायां देवादियाजी सात्विकश्रद्धादिरिति विवरणेनेत्यर्थः ।। एवमिति ।। सात्विकी तामसस्यापीति एवं राजसस्यापीत्यादि ध्येयमित्यर्थः । उभयत्रान्तःकरणात्मिकेत्यनुषङ्गो मूले ध्येय इति भावः ।। ३ ।।
भावप्रकाशः
श्रद्धयैव तद्ज्ञानमिति । सात्विकत्वादिज्ञानमित्यर्थः । सत्वगुणानुरूपत्वोक्तया कथमिति । सर्वगुणानुरूपद्धायाः सर्वेषामपि सत्वे सर्वेषामपि सात्विकत्वापत्या यो यच्छ्रद्ध इत्येत उपपादकत्वं सम्भवतीत्यर्थः ।। सत्वशब्दस्य जीववाचित्वं तु सत्वं जीवः क्वचित्प्रोक्तः इत्यभिधानेन प्रागेव साधितमित्याह । सत्वशब्दस्येति ।। मयट्प्रत्ययस्यानेकार्थत्वादिति । मयं प्रधानमुद्दिष्टमिति वक्ष्यमाणरीत्यानेकार्थत्वादित्यर्थः ।। किं तत इति । तत्र स्वरूपश्रद्धैवेत्यनेन अन्तःकरणवृत्ति श्रद्धाया अपि विद्यमानत्वेनेत्यस्य कः परिहारः सिद्ध इत्यर्थः ।। ३ ।।
वाक्यविवेक
सत्वशब्दस्य जीववाचित्वमिति ।। सत्वं जीवः क्वचित्प्रोक्त इत्यभिधानेन सत्वशब्दस्य जीववाचित्वं प्रागेव साधितमित्यर्थः ।। विवरणेनोच्यत इति ।। विवरणव्याजेनोच्यत इत्यर्थः ।। ३ ।।