गीता

गीता

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।

तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ।। २५ ।।

तात्पर्यम्

सर्वगतश्चेत्परमात्मा किमिति तथा न दृश्यत इत्यतो वक्ति । अव्यक्तोऽय मिति । कथमेतद्युज्यते ? अचिन्त्यशक्तित्वात् । न च सा शक्तिः कदाचिदन्यथा भवति । अविकार्यत्वात् । यानि यान्यस्य रूपाणि तानि सर्वाण्यप्येवंभूतानीति दर्शयितुमेनमयमित्यादिपृथग्वचनम् । जीवे तु सर्वजीवेष्वनुगमार्थम् । सर्वं चैतत् श्रुतिसिद्धम् ।

सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः ।

 ज्ञानज्ञानः सुखसुखः स विष्णुः परमोऽक्षरः ।’ इति पैङ्गिश्रुतिः ।

प्रकाशिका

नैनं छिन्दन्तीत्यत्राव्यक्तोऽयमित्यत्रेश्वरविषयस्य एनमेनमिति अयमयमिति बहुशः प्रयोगस्याच्छेद्योऽयमदाह्योऽयमिति जीवविषयस्य बहुप्रयोगस्य अर्थमाह ।। यानि यानीत्यादिना ।। यद्यद्रूपं तत्तद्भौतिकं देहवता भिन्नं च लोके दृष्टम् । न तथा भगवन्मूर्तिरित्येतच्छतिभिः प्रतिपादयति ।। सद्देह इति ।। अनेन भगवतो मूर्तत्वामूर्तत्वश्रुत्योर्विरोधः परिहृतो भवति ।। प्राकृतमूर्तिनिषेधेन ‘‘दिव्यो ह्यमूर्तः पुरुष’’ इत्यादिश्रुतेः सावकाशत्वात् ।। मूर्तितदवयवतद्गुणादिरूपेण भगवति नाना नास्तीत्येतदुच्यते ‘एकमेवाद्वितीयमि’त्यादिना ।। महापुराणवचनमप्यस्मिन्नर्थे दर्शयति ।। मत्स्यकूर्मेति ।। भगवतो देहतदवयवतद्गुणानां परस्परमभेदेऽपि विशेषबलादेवं विधविविधव्यवहारः सिध्यति ।। भगवद्देह–तदवयव–तद्गुणादिभ्यो विशेषिभ्यस्तदभेदश्च । तस्य निर्विशेषस्य प्रतीयमानो विशेषस्तु नान्यः । स्वनिर्वाहकत्वाद्विशेषस्य । अत एव विशेषपरम्परया नानवस्थेत्युच्यते ।। अभेदेऽपीत्यादिना ।। यः पूर्वं विशेषो निर्दिष्टः स एव, नर–लक्ष्मण–बलभद्रत्वेनावतीर्णः ।। यः सनत्कुमारात्मकः कामः सुदर्शनरूपेण निर्दिष्टः, स एव भरतत्वेन प्रद्युम्नत्वेन, यः अनिरुद्धः स एव शत्रुघ्नत्वेन प्रद्युम्नादनिरुद्धत्वेनावतीर्णः । यः शक्रो निर्दिष्टः स एवार्जुनत्वेनावतीर्णः ।। एतेषु त्रिषु विष्णोः पुनरावेश इत्येतदुच्यते ।। तेष्विति ।।२५।।

न्यायदीपिका

अव्यक्तोऽयमिति ईश्वरविषयमित्युक्तं तत्रेश्वरस्याव्यक्तत्वादिकथने का सङ्गतिरित्यतः सर्वगतस्थाणुरिति परमात्मनः सर्वगतत्वमभिहितं तत्रेश्वरस्य देहोस्तिन वा आद्ये देहिनः सर्वत्र वर्तमानस्य सर्वत्र दर्शनं स्यात् । द्वितीये शरीरच्छेदादिनिरासो न युक्त इत्याशङ्कानिरासायाद्यपदमवतारयति ।। सर्वेति ।। देहित्वेऽव्यक्तत्वं कथं युज्यत इत्याशङ्क्य तत्परिहारत्वेनाचिन्त्यपदं व्याचष्टे ।। कथमिति ।। अचिंत्यशक्तेः प्रतिबन्धे नाशे वा सति प्रतीतिप्रसङ्ग इत्याशङ्कापरिहारायाविकार्यपदं व्याचष्टे ।। नचेति ।। नन्वेकेनैव शब्देन पूर्तेः किमर्थं नैनमित्यत्र प्रति प्रत्येनमिति वचनं । अव्यक्तोयमित्यत्र प्रतिविशेषणं अयमिति वचनं च किमर्थमित्यत आह ।। यानीति ।। आदिपदेन नञोग्रहणम् । अनेन प्रतिविशेषणमपि वीप्सारूपेणैनमित्यादिबहुशब्दयोजनां सूचयति । एवं चेज्जीवस्य रूपबाहुल्याभावादच्छेद्योयमिति पृथग्वचनं व्यर्थमित्यत आह ।। जीवेत्विति ।। जीवे पृथग्वचनमिति शेषः ।

नन्वीश्वरस्य देहवत्त्वं तस्य च देहस्य छेदादिराहित्यमेवंभावश्च सर्वरूपाणामित्येतत्कुत इत्यत उक्तं उच्यत इति पदं व्याचष्टे ।। सर्वमिति ।। कास्ताः श्रुतय इत्यत आह ।। सदिति ।। छेदादिदोषरहितो देहो यस्यासौ सद्देहः । सुखगन्धः पुण्यगन्धः । सुखात्मकगन्धोवा । ज्ञानज्ञान इत्यादेरतिशयितज्ञानादिमानित्यर्थः ।

किरणावली

अनेन प्रतिविशेषणमपीति ।। यानि यान्यस्य रूपाणि तानि सर्वाण्यप्येवं भूतानीति वीप्साप्रदर्शकेन मूलेनाच्छेद्यत्वादाह्यत्वादिविशेषणबोधकप्रतिवाक्येपि एनमेनं शस्त्राणि न छिन्दन्ति एनमेनं पावको न दहति अयमयमव्यक्तः । अयमयमचिन्त्य इत्यादि वीप्सारूपेण एनमयमित्याद्यावृत्त शब्दस्यानन्तेष्वपि रूपेषूक्तविशेषणानामनुवृत्तेर्ज्ञापनलक्षणप्रयोजनं सूचयतीत्यर्थः । उच्यत इति पदं प्रमाणेषूच्यत इत्यर्थ प्रतिपादकमविकार्योऽयमुच्यत इति गीतापदमित्यर्थः ।।

भावदीपः

शरीरच्छेदादिनिरास इति ।। नैनमिति श्लोक इति भावः ।। प्रतिविशेषणमपीति ।। न छिन्दन्ति, न दहतीत्युक्तच्छेदाभावदाहाभावादिप्रतिविशेषणमप्येनमितिपदं वीप्सारूपेणैनमेनमित्येवंरूपेण बह्वेतच्छब्दयोगेन तथा अयमयमिति बह्विदंशब्दयोगेन योजनां सूचयतीत्यर्थः । ‘ज्ञानभाः सत्पराक्रमः । ज्ञानज्ञानः सुखसुखः स विष्णुः परमाक्षरः’ इति श्रुतिशेषे पदद्वयस्यार्थमाह ।। ज्ञानज्ञान इत्यादेरिति ।।

भावप्रकाशः

प्रतिबन्धे नाशेवेति ।। अनेनान्यथाभवतीति मूलं द्वेधा व्याख्यातं भवति । अनेन प्रतिविशेषणमपीति । यानि यान्यस्य रूपाणीति मूलेन परमात्मरूपाणामनन्तत्वान्नैनं छिन्दन्ति शस्त्राणि नैनं छिन्दन्ति शस्त्राणीत्येवं प्रतिविशेषणं वीप्सारूपेणैनमित्यादि बहुशब्दयोजनां सूचयतीत्यर्थः ।। उच्यत इति पदमिति । अविकार्योऽयमुच्यत इति गीतापदमित्यर्थः ।।

वाक्यविवेकः

अनेन प्रतिविशेषेणमिति । एनं शस्त्राणि न छिदन्ति एनं पावको नदहतीत्त्येवं रूपेण प्रतिविशेषणमेनमित्यादिशब्दसम्बन्धं सूचयतीत्यर्थः ।। इत्युक्तमिति । इत्याशङ्कापरिहाराय गीतायामुच्यत इति पदं प्रयुक्तं तत् व्याचष्ट इत्यर्थः । ज्ञानज्ञानशब्दः अतिशयितज्ञानवाची मत्वर्थे अच्प्रत्ययः सुख इत्यत्रापीत्यभिप्रेत्यज्ञानज्ञान इत्यादेरर्थमाह । ज्ञानज्ञान इत्यदेरिति ।