गीता
गीता
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ।। ४२ ।।
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ।। ४३ ।।
भोगैश्वर्यप्रसक्तानां तयाऽपहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ।। ४४ ।।
तात्पर्यम्
अव्यवसायबुद्धिः केषाम् ? यां वाचमविपश्चितः प्रवदन्ति । तयाऽपहृतचेतसाम् । बुद्धिर्व्यवसायात्मकत्वेन समाधानेन वर्तते ।
‘यथावस्तु यथाज्ञानं तत्साम्यात्सममीरितम् ।
विषमं त्वन्यथाज्ञानं समाधानं समस्थितिः ।
न तद्भवत्यसद्वाक्यैर्विषमीकृतचेतसाम् ।
स्वर्गादिपुष्पवाद्येव वचनं यदचेतसाम् ।
न मन्यन्ते फलं मोक्षं विष्णुसामीप्यरूपकम् ।
फलदं च न मन्यन्ते तं विष्णुं जगतः पतिम् ।
भोगैश्वर्यानुगत्यर्थं क्रियाबाहुल्यसन्तताम् ।
बहुसंसारफलदामन्ते तमसि पातिनीम् ।
यां वदन्ति दुरात्मानो वेदवाक्यविवादिनः ।
तया सम्मोहितधियां कथं तत्त्वज्ञता भवेत्’ इति च ।
‘इष्टापूर्तं मन्यमाना वरिष्ठं
नान्यच्छे्रयो वेदयन्ते प्रमूढाः ।
नाकस्य पृष्ठे सुकृते तेऽनुभूत्वा
इमं लोकं हीनतरं वा विशन्ति’ इति हि भागवते ।
‘ये न जानन्ति तं विष्णुं याथातथ्येन संशयात् ।
जिज्ञासवश्च नितरां श्रद्धावन्तः सुसाधवः ।
निर्णेतृणामभावेन केवलं ज्ञानवर्जिताः ।
ते याज्ञिकाः स्वर्गभोगक्षये यान्ति मनुष्यताम् ।
यैर्निश्चितं परत्वं तु विष्णोः प्रायो न यातनाम् ।
ब्रह्महत्यादिभिरपि यान्त्याधिक्ये चिरं न तु ।
विशेष एव तेषां तु तदन्येषां विपर्ययः ।
ये तु भागवताचार्यैः सम्यग्यज्ञादि कुर्वते ।
बहिर्मुखा भगवतो निवृत्ताश्च विकर्मणः ।
दक्षिणातर्पितानां तु ह्याचार्याणां तु तेजसा ।
यान्ति स्वर्गं ततः क्षिप्रं तमोऽन्धं प्राप्नुवन्ति च ।
तदन्ये नैव च स्वर्गं यान्ति विष्णुबहिर्मुखा’
इति नारदीये ।। ४२४४ ।।
प्रकाशिका
अव्यवसायबुद्धिः केषामित्याशङ्कापरिहारत्वेन यामिमामित्येतद्व्याचष्टे ।। यां वाचमित्यादिना ।। एतदर्थं श्रुत्यादिना दृढीकरोति इष्टापूर्तमित्यादिना ।। एतदर्थं पुराणवचनेन दर्शयति ये न जानन्तीत्यादिना ।। ४२४५ ।।
न्यायदीपिका
यद्यव्यवसायात्मकबुद्धित्वमेव वैष्णवधर्मराहित्ये निमित्तं तर्हि अव्यवसायबुद्धिस्त्याज्या स्यात् । त्यागश्च कारणपरित्यागेन स्यात् । केन कारणेनाव्यवसायबुद्धिर्भवतीति पृच्छति ।। अव्यवसायेति ।। तत्परिहाराय यामिति श्लोकान्योजयति ।। यामिति ।। समाधान इति निश्चयस्य तत्वविषयतया दाढर्््यमुच्यते । समाधानाभावे च न विष्णुधर्मानुष्ठानमिति वाक्यशेषः । स्मृत्यैव श्लोकान् व्याचष्टे ।। यथेति ।। तथा तथा विषयीकारि ।। तत्साम्यादिति ।। वस्तुसाम्यादित्यर्थः । असतां वाक्यं कुतो वैषम्यहेतुरित्यत आह ।। स्वर्गेति ।। यद्यस्मात् । नान्यदस्तीत्यस्यार्थद्वयमाह ।। न मन्यन्त इति ।। अनुगतिः प्राप्तिः । क्रियाबाहुल्यसन्ततां एतत्प्रतिपादिकाम् । जन्मेत्यस्यार्थो बह्विति । अन्त इत्यभिप्रायमात्रम् । नान्यदस्तीत्याद्यर्थे श्रुतिं चाह ।। इष्टेति ।। अन्यच्छ्रेयो भगवज्ज्ञानादि । सुकृते सुकृतप्राप्ये । अनुभूत्वा भोगानिति शेषः । वेदवादरतत्वमुक्तार्थतया निषिद्धमित्यत्र प्रमाणान्तरं चाह ।। वेदेति ।। इष्टापूर्तं वरिष्ठं मन्यमानाः केचन स्वर्गभोगानन्तरमिमं लोकं विशन्ति । केचन हीनतरं विशन्तीत्युक्तम् । तत्स्मृत्या विवृणोति ।। य इति ।। संशयात् संशयेन विषयीकुर्वन्तीति शेषः । श्रद्धादिसद्भावे कथं तत्वज्ञानाभावः श्रद्धावाल्लभते ज्ञानमित्यादेरित्यत आह ।। निर्णेतृणामिति ।। तत्वज्ञानरहितश्रद्धादिकमेवैतत्फलप्रदं चेत्तर्हि कियान्विशेषस्तत्वज्ञानिनां भवतीत्यत आह ।। यैरिति ।। आधिक्ये चिरं नेति ।। ब्रह्महत्यादेरप्यधिकपापाचरणेऽप्यल्पकालं यातनां यान्ति । नतु चिरमित्यर्थः । यज्ञादिमात्रेण भगवद्द्वेषिणामपि स्वर्गसिद्धेः किं जिज्ञासादिनेत्यत आह ।। तदन्येषामिति ।। विपरीतनिश्चयानां अश्वमेधादिभिरपि न स्वर्ग इत्यर्थः । दुर्योधनादीनां द्वेषिणामेव स्वर्गादिदर्शनात्कथमेतदित्यत आह ।। येत्विति ।। तथापि द्वेषिणां स्वर्गप्राप्तिसद्भावात्कथं तदन्येषां विपर्यय इत्युक्तमित्यत आह ।। तदन्य इति ।। भागवताचार्यवर्जिततद्द्वेष्यभिप्रायेण तदुक्तमिति भावः । अनेनेमं लोकमित्यज्ञविषयम् । प्रमूढत्वमज्ञत्वमेव । हीनतरमितित्ववैष्णवाचार्यवद्भगवद्द्वेषि विषयम् । तेषां प्रमूढत्वं मिथ्याज्ञानित्वमित्युक्तं भवति ।। ४२४४ ।।
किरणावली
मूले केषामित्यस्य कीदृशकारणवतामित्यर्थः वस्तुसाम्यादिति । वस्तुनो घटत्वलक्षणप्रकारवत्त्वे ज्ञानस्यापि विषयितासम्बन्धेन तत्प्रकारवत्त्वमिति साम्यादित्यर्थः । मूले समाधानशब्दार्थं वक्तुं समशब्दार्थ उच्यते यथावस्त्विति । समाधिरित्यस्य प्रतिपदम् । समाधानमिति । समाधानमिति । तस्यार्थः समस्थितिरिति । समतया यथावस्तु तथाविषयीकारितया स्थिति र्दार्ढ्यं समाधानमित्यर्थः । तत्समाधानमसद्वाक्यैर्विषमीकृतचेतसां न भवतीत्यनेन यामिमां वाचमविपश्चितो सन्तः प्रवदन्ति तयाऽसद्वाचापहृतचेतसां विषमीकृतचेतसां स्वयं भोगैश्वर्यप्रसक्तानां बुद्धिर्व्यवसायात्मिका तत्वनिश्चयरूपा तत्त्वविषयतयेति यावत् । समाधौ दार्ढ्ये न विधीयते नावतिष्ठते समाधानं न भवतीत्यर्थ उक्तो भवति । नन्वसद्वाक्यानां कोऽर्थः । कथं च तच्छ्रवणेन श्रोतॄणां चेतसो विषमीकरणं कथं वा तेषामसत्त्वमित्याशयेन शङ्कते ।। असतां वाक्यमिति ।। यद्यस्मादचेतसां वचनं स्वर्गादिरूपं यत्पुष्पवद्विफलं तदेव परमप्रयोजनतयाऽवादि तस्मात् तया संमोहितधियामित्युत्तरेण सम्बन्धः । तेषामसत्त्वमुपपाद्य तेन मन्यन्त इत्यादिना यस्मादित्युत्तरत्रापि योज्यम् । यस्मान्मोक्षं फलं न मन्यन्ते फलदंच विष्णुं न मन्यन्ते न वदन्ति च तस्मादित्यन्वयः । पुनर्वाचंविशिनष्टि ।। भोगेति ।। भोगैश्वर्यगतिं प्रति भोगैश्वर्यानुगत्यर्थम् । क्रियाविशेषबहुलां बाहुल्यप्रतिपादिकाम् । जन्मकर्मफलप्रदां जन्मादिरूपं यत्कर्मफलं तत्प्रतिपादकाम् । यद्वा जन्मतत्साधनं कर्म बाह्यमान्तरं मिथ्याप्रतिपत्तिरूपं च तत्फलं दुःखादितमोरूपं फलं च तत्प्रदामित्यर्थमभिप्रेत्योक्तं बहुसंसारफलदां तमसि पातिनीमिति । अन्त इत्यस्य व्याख्येयं गीतायां न दृश्यत इत्यत आह ।। अन्त इत्यभिप्रायमात्रमिति ।।
वेदवादरता इत्यस्यार्थो वेदवाक्येति । वेदवाक्यैःसाकं विवादं कुर्वन्तः । वेदवाक्यार्थेष्वेवविवादिन इति वा । गीतायां प्रथमान्तानां विशेषणविशेष्यभावं द्वितीयान्तानां विशेषणविशेष्यभावं चोक्त्वा एतादृशीं यामिमां वाचं वदन्ति तया वाचापहृतचेतसाम्भोगैश्वर्य प्रसक्तानां व्यवसायात्मिकाबुद्धिः समाधौ न विधीयत इति योजना बोध्या ।। वेदवादरतत्वमुक्तार्थतयेति ।। वेदोक्ते विष्णुमाहात्म्ये विवादादित्युक्तार्थतयेत्यर्थः । संशयाज्जानन्तीत्यर्थो न युक्तः । संशयस्य ज्ञानत्वेन ज्ञानाज्जानन्तीत्यस्यासङ्गतत्वात् । अतो व्याचष्टे ।। संशयेन विषयीकुर्वन्तीति शेष इति ।। याथातथ्येन न जानन्ति । किंतु राजवदुत्तमं जानन्ति निरवधिकोत्तमत्वांशे संशयं कुर्वन्ति चेत्येतद्विशेषणद्वयं नित्यत्रैविद्यविषयम् । जिज्ञासव इत्यादि भागवतत्रैविद्यविषयम् । ते याज्ञिका इत्युभयपरामर्शः ।। अधिकपापाचरण इति ।। माण्डव्यादेर्वसिष्ठसाम्याकांक्षाप्रयत्नाद्यधिकपापाचरण इत्यर्थः । निवृत्ताश्च विकर्मण इत्यस्य ब्रह्म इत्यादिविकर्मण इत्यर्थः । तेन कृष्णपाण्डवादिविरुद्धाचरणात्कथमेतदिति निरस्तम् । दक्षिणातर्पितानां त्वित्यादि तु शब्दोऽवधारणे । दक्षिणयैव तर्पितानामाचार्याणां तेजसैवेति सम्बध्यते ।। ४२४४ ।।
भावदीपः
कारणपरित्यागेनेति ।। अव्यवसायबुद्धेर्यत्कारणं तत्परित्यागेनेत्यर्थः । तथेत्यनन्तरं शेषमाह ।। विषयीकारीति ।। अन्त इति कस्य पदस्यार्थ इत्यत आह ।। अन्त इतीति ।। उक्तार्थेति ।। भगवदर्पणबुद्ध्या निष्कामकर्मानुष्ठानरूपोक्तविरुद्धतया यामिमामित्यादिना निषिद्धमित्यर्थः । इमं भूतलं हीनतरं नरकं वेत्यर्थः ।। तदुक्तमिति ।। तदन्येषां विषय इत्युक्तमित्यर्थः ।। ४२४४ ।।
भावप्रकाशः
ननु यथावस्तु तथाज्ञानमित्ययुक्तं वस्तुनि विद्यमानघटत्वादेर्ज्ञानेऽभावादित्यत आह । तथाविषयकारीति । अन्त इत्यभिप्रायमात्रमिति ।। गीतायामेतद्वाचकपदाभावादिति भावः । मूले इष्टापूर्तमित्यस्य इष्टं यजनं पूर्त्तमन्नदानादि ।। ततो द्वन्द्वः तस्यैकवद्भावः सर्वो द्वन्द्वो विभाषया एकवद्भवतीति वचनात् । अन्येषामपि दृश्यत इति दीर्घ इत्यर्थः । जिज्ञासादिनेत्यादिपदेन श्रद्धावत्वादेगृर्हणम् ।। ४२४४ ।।
वाक्यविवेकः
निश्चयस्येति । तत्वविषयकदृढनिश्चयत्वं समाधानबुद्धिमिति भावः । असतां वाक्यमिति । असज्जनानां वेदवाक्यं कुतो विषमबुद्धिजनकमित्यर्थः ।। अन्ते तमसि पातिनीमिति कस्यार्थ इत्यत आह । अन्त इत्यभिप्रायमात्रमिति । उक्तार्थतया निषिद्धमिति । तमःप्राप्तिप्रयोजनकत्वात् निषिद्धमित्यत्र प्रमाणान्तरमाहेत्यर्थः । कियान्विशेषस्तत्वज्ञानिनामिति । मोक्षात् प्रागिति शेषः । मूले ये तु भागवताचार्यैरिति । ये भागवताचार्यैः प्रेरिताः सन्तो भगवतो बहिर्मुखा अपि विकर्मणो निवृत्ताः सम्यक् यज्ञादि कुर्वते ते आचार्याणां तेजसा स्वर्गं यान्ति । अनन्तरं स्वकर्मणा क्षिप्रमेव तमो यान्तीत्यर्थः ।। ४२४४ ।।