गीता

ईशार्पणतया सर्वं कार्यम्

गीता

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।

न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ।। २४ ।।

यान्ति देवव्रता देवान् पितॄन्यान्ति पितॄव्रताः ।

भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ।। २५ ।।

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।

तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ।। २६ ।।

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।

यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ।। २७ ।।

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।

संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ।। २८ ।।

तात्पर्यम्

मामिष्ट्वा प्रार्थयन्त इत्युक्तत्वाज्जानन्तोऽपि नाभिजानन्ति तत्त्वेन ।

सर्वदेववरत्वेन यो न जानाति केशवम् ।

तस्य पुण्यानि मोघानि याति चान्धं तमो ध्रुवम्’ इति च ।

मोघाशा मोघकर्माणः’ इत्युक्तत्वाच्च न केवलाज्ञविषयं मिथ्याज्ञानिविषयं वा ‘च्यवन्ति ते’ इत्यादि । अतः सर्वाधिक्यं विष्णोर्ज्ञात्वाऽपि ब्रह्मादीनां तत्परिवारत्वादिकमजानतामिदं फलम् ।। २४ ।।

प्रकाशिका

मामिष्ट्वेत्यादेरयमर्थः । ‘न तु मामभिजानन्ति तत्वेनातश्च्यवन्ति ते इत्येतदेव व्याख्येयम् । मां किञ्चिज्जानन्तोपि अभितः सर्वप्रकारेण तत्त्वेनाजानन्तः स्वर्गाच्च्यवन्ति इत्यत्र त्रैविद्या मां सोमपाः पूतपापा ‘‘यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति’’ इति पूर्वमुक्तत्वात् यज्ञादि अन्ततः समर्प्य गामिष्ट्वेति ज्ञातव्यम् । अतो यदत्र स्वर्गभोगानन्तरं च्यवनमुक्तं न तद्विष्णुमजानताम् । अन्यथा जानतां चेति ज्ञातव्यम् । ‘अवजानन्ति मां मूढा ‘‘मोघाशा मोघकर्माण’’ इति पूर्वमुक्तत्वात् । ‘सर्वदेववरत्वेन यो न जानाति केशवम् । तस्य पुण्यानि मोघिन’ इति वचनाच्चेत्युपसंहरति ।। अत इति ।। २८ ।।

न्यायदीपिका

नतु मामभिजानन्ति तत्वेनातश्च्यवन्ति त इत्यत्र भगवन्तमजानतां तत्वेनेति विशेषणाद्विपरीतं जानतां वाऽत्रैविद्यानां स्वर्गभोगानन्तरं च्यवनमुच्यत इत्यन्यथाप्रतीतिनिरासायाह ।। मामिष्ट्वेति ।। न चात्र न तु मामभिजानन्ति तत्वेनेत्युक्तत्वाद्भगवन्तमजानतां मिथ्याज्ञानिनां वा त्रैविद्यानां स्वर्गात् च्यवनमुच्यत इति कल्प्यम् । न तु मामभिजानन्ति तत्वेनेत्यस्य सर्वदेववरत्वेन जानन्तोऽपि ब्रह्मरुद्रादीनां तत्परिवारत्वादिकं सम्यङ् न जानन्तीत्यर्थोपपत्तेः । कुतोऽयमर्थः कल्प्यते । त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गंतिं प्रार्थयन्त इति त्रैविद्यस्यान्ते सर्वसमर्पणेनभगवद्यजनप्रार्थनयोरुक्तत्वात्सर्वदेववरत्वाज्ञाने तदसम्भवात् । अभिशब्दबलाच्चेति भावः ।

इतश्च स्वर्गभोगानन्तरं च्यवनं नात्र केवलाज्ञानां मिथ्याज्ञानिनां चोच्यत इत्याह ।। सर्वेति ।। सर्वदेववरत्वेनेति केवलाज्ञानां यज्ञादिकर्माणि मोघानि मिथ्याज्ञानिनां विपरीतफलानि भवन्तीत्युक्तत्वान्मोघाशा इति विपरीतज्ञानिकर्मणां मोघत्वस्योक्तत्वाच्च न स्वर्गभोगानन्तरं च्यवनमत्र केवलाज्ञस्य मिथ्याज्ञानिनो वोच्यत इत्यर्थः । मिथ्याज्ञानीचेद्याति चान्धन्तमो ध्रुवमिति । उक्तं विवृण्वन्नुपसंहरति ।। अत इति ।। २४२८ ।।

किरणावली

भगवन्तमजानतामिति ।। सर्वथाऽजानतामित्यर्थः ।। तत्वेनेति विशेषणादिति ।। नतु मामभिजानन्तीत्येतावताऽज्ञानलाभेऽपि तत्वेन न जानन्तीति विशेषणाज्ज्ञानमङ्गीकृत्य तस्य तद्वति तत्प्रकारत्वनिषेधोऽवगम्यत इति भावः ।। अत्रैविद्यानामिति ।। केवलमज्ञानावस्थामापन्नानां पामराणां मिथ्याज्ञानदार्ढ्यवतां च स्वर्गभोगानन्तरं च्यवनमुच्यत इति प्रतीयते । तदुयुक्तम् । ईषद्भक्तो भगवति सुकर्मा स्वर्गमेष्यतीत्युक्तत्वेन सर्वथाऽज्ञानां मिथ्याज्ञानदार्ढ्यवतां चात्रैविद्यत्वेन स्वर्ग प्रसक्तेरेवाभावेन ततश्च्यवनस्य सुतरामयोगादिति भावः ।। मिथ्याज्ञानिनां त्रैविद्यानामिति ।।

एतेन त्रैविद्यत्वावस्थायां स्वर्गस्तस्माच्च्यवनं च मिथ्याज्ञानिनामप्यस्तीति ज्ञायते । अन्यथा भगवन्तमजानतां विपरीतज्ञानिनां चेत्येतावता पूर्णत्वेनात्रैविद्यानामिति विशेषणवैयर्थ्यादिति केचित् । त्रैविद्यानामेव स्वर्गो नात्रैविद्यानामिति स्वरूपकथनमेतत् । नतु विपरीतज्ञानिनां त्रैविद्यत्वावस्थायां स्वर्गाभ्यनुज्ञातात्पर्यकमिदं वचनम् । तेषां त्रैविद्यत्वावस्थाया एवाभावादित्यन्ये । जानन्तोऽपि नाभिजानन्तीति मूलस्य राज्ञः प्रजावरत्ववत्सर्वदेववरत्वेन जानन्तोऽपि तत्वेन साकल्येन ब्रह्मादीनां तत्परिवारत्वम् । तदधीनसत्तादिमत्त्वं तावंत्योरेतत्वमित्यादिकं सकलं नाभिजानन्ति सम्यक् न जानन्तीत्यर्थमभिप्रेत्याह ।। नतु मामभिजानन्तीत्यादिना ।। कुतोऽयमर्थः कल्प्यत इति शङ्का । तत्परिहारत्वेन मामिष्ट्वा प्रार्थयन्त इत्युक्तत्वादित्यंशं योजयति ।। त्रैविद्या मामित्यादिना ।। अभिशब्दबलाच्चेति ।। सर्वथाज्ञानाभावेन तु मां जानन्तीत्येतावता पूर्णत्वादभिशब्दस्य वैयर्थ्यमिति भावः । ननु सर्वदेववरत्वेनेत्यत्र मिथ्याज्ञानिनां विपरीतफलानि च भवन्तीत्यनुक्तत्वात्कथमुक्तत्वादिति व्याख्यानमित्यतो यान्ति चान्धन्तमो ध्रुवमित्यतः पूर्वमध्याहार्यं दर्शयति ।। मिथ्याज्ञानी चेद्यादि चान्धन्तमो ध्रुवमितीति ।। इतीत्यतः परं शेषो द्रष्टव्य इति शेषः ।। उक्तं विवृण्वन्निति ।। मामिष्ट्वा प्रार्थयन्त इत्युक्तत्वात् । जानन्तोपि नाभिजानन्ति तत्वेनेत्यतद्विवृण्वन्नित्यर्थः ।। २८ ।।

भावदीपः

अभिशब्दबलाच्चेति ।। तस्य सम्यगर्थकत्वादिति भावः ।। २४२८ ।।

भावप्रकाशः

भगवन्तमजानतामिति । सर्वथा अजानतामित्यर्थः ।। च्यवनमुच्यत इत्यन्यथाप्रतीतिः ।। ईषद्भक्तो भगवति सुकर्मा स्वर्गमेष्यतीत्युक्तत्वेन सर्वथाज्ञानशून्यस्य विपरीतज्ञानिनश्च स्वर्गप्राप्तेरेवाभावेन तच्च्यवनस्य सुतरामयोगादन्यथाप्रतीतीत्युक्तमिति भावः ।। अभिशब्दबलाच्चेति । सर्वथाज्ञानाभावेन तु मां जानन्तीत्येतावता पूर्णत्वादभीत्यस्य वैय्यर्थ्यं स्यादिति भावः ।। ननु ज्ञानाभाव मात्रेण कथं यान्ति चान्धंतम इत्युक्तम् । तथात्वे नित्यसंसारिप्रभेदाज्ञानामपि तमःप्राप्तिप्रसङ्गादित्यतः सम्यग्व्याचष्टे ।  मिथ्याज्ञानी चेदिति ।। २४२८ ।।

वाक्यविवेकः

तदसम्भवादिति । अन्ते समर्पणासम्भवादित्यर्थः । इतश्च स्वर्गभोगानन्तरमिति ।। अज्ञानिनां मिथ्याज्ञानिनां च स्वर्गस्यैवाभावात् नात्रोभयेषां च्यवनमुच्यत इति भावेनाहेत्यर्थः ।। २४२८ ।।