गीता

किं नाम नियतं कर्म

गीता

नियतं सङ्गरहितमरागद्वेषतः कृतम् ।

अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ।। २३ ।।

यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।

क्रियते बहुलायासं तद्राजसमुदाहृतम् ।। २४ ।।

अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम् ।

मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ।। २५ ।।

तात्पर्यम्

‘मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा’ इत्युक्तवा ‘ये मे मतम्’ ‘ये त्वेतत्’ इति च तस्य मोक्षसाधनत्वस्याकरणे प्रत्यवायस्य चोक्तेर्भगवदर्पितत्वेन सर्वकर्मकरणं तस्य विष्णोः सर्वपरमत्वज्ञानं च नियतमेवेति ज्ञायते । ‘अध्यात्मचेतसा’ इत्युक्तत्वात् तत्स्वरूपयाथार्थ्यज्ञानादि । ‘ये तु सर्वाणि’ इत्यस्मिन् श्लोकेऽध्यात्मचेतस्त्वस्य ‘मत्पराः अनन्येनैव योगेन मां ध्यायन्तः’ इति व्याख्यातत्वात् । एवं सर्वमपि भगवद्भक्तियुक्तमेव सात्त्विकम् ।। २३२५ ।।

प्रकाशिका

नियतं सङ्गरहितमित्यत्र नियतशब्दार्थमाह ।। मयि सर्वाणीत्यादिना ।। अत्र विष्णौ सर्वकर्मसमर्पणं तस्य सर्वोत्तमत्वज्ञानं चावश्यकतया नियतमुच्यते । यदनुष्टानस्य कर्मबन्धमोक्षसाधनत्वं, यदनुष्ठानेन प्रत्यवायो भवति तद्धि नियतमित्युच्यते ।। तथाविधं भगवदर्पितकर्मादिकमेव स्मर्यते ।।

‘‘मयि सर्वाणि कर्माणि संन्यस्याध्यात्मतेजसा ।।

निराशीर्निर्ममो भूत्वा युध्यस्व विगत ज्वरः ।।

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः

श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ।।

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।

सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतस’’ इति ।।

अधिकस्यात्मनो विष्णोर्ज्ञानमध्यात्म चेतसः शब्देनोच्यते नान्यत् ।। ‘‘ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्परा’’ इत्यत्राध्यात्मचेतस्त्वस्य मत्परा इति परामृष्टत्वात् ।। अहं परो येषां ते मत्परा इति भगवत्सर्वोत्तमत्वज्ञानिनो ह्युच्यन्ते ।। ‘‘अनन्येनैव योगेन मां ध्यायन्त उपासत इत्युक्तत्वात् ।। ज्ञानकर्मादिकं भगवद्भक्तियुक्तमेव सात्विकमित्यर्थः ।। २३२५ ।।

न्यायदीपिका

गुणभेदेन कर्मत्रैविध्यमुच्यते ।। नियतमिति ।। तत्र नियतपदेन स्ववर्णाश्रमोचितमात्रमुच्यत इत्यन्यथाप्रतीतिनिरासायाह ।। मयीति ।। विष्णोः सर्वोत्तमत्वज्ञानपूर्वकं तद्भक्तया तदर्पणबुध्द्या क्रियमाणमेव कर्म नियतमित्यत्रोच्यते । न तु स्ववर्णाश्रमोचितत्वमात्रम् । कुतः मयि सर्वाणि कर्माणीति भगवत्सर्वोत्तमत्वज्ञानभक्तिपूर्वकं तदर्पणबुद्ध्या कर्मकरणं विधाय ये मे मतमिति तस्य मोक्षसाधनत्वोक्तेः । ये त्वेतदिति तदकरणे प्रत्यवायस्य चोक्तेः । यत्करणे फलप्राप्तिः यदकरणे प्रत्यवायस्तस्यैव नियतत्वादिति भावः ।

भवतु भगवदर्पणबुद्ध्या क्रियमाणं कर्म नियतं तस्य भगवत्सर्वोत्तमत्वज्ञानादिपूर्वकत्वं कुतः । मयि सर्वाणि कर्माणीत्यत्र तदनुक्तेरित्यत आह ।। अध्यात्मेति ।। सर्वाधिके परमात्मनि चेतोऽध्यात्मचेतः । अपेक्षिततया ज्ञायत इति सम्बध्यते । भवेदेतद्यद्यध्यात्मचेतसेति पदं भगवत्सर्वोत्तमत्वज्ञानार्थं स्यात् तदेव कुत इत्यत आह ।। येत्विति ।। मयि सर्वाणीति श्लोकार्थानुवादरूपे येतु सर्वाणीत्यस्मिंञ्श्लोकेऽध्यात्मचेतसेति पदस्य मत्परा इत्यादिना भगवत्सर्वोत्तमत्वज्ञानतत्स्मरणाद्यर्थतया व्याख्यातत्वात् । भवेदेवैतत्पदं तदर्थमिति भावः । अहं परः सर्वोत्तमो येषान्ते मत्पराः । न च वाच्यमेतच्छ्लोकस्य तच्छ्लोकानुवादरूपत्वं कुत इति । एवं सततयुक्ता य इत्यर्जुनेन प्रागुक्तप्रकारानुवादेन पृष्टस्य भगवतस्तथैव परिहारोक्तेर्युक्तत्वात् । समाख्यावशाच्चैतच्छ्लोकार्थानुवादित्वं विज्ञायते । किमेतन्नियतत्वं कर्मण एव सात्विकत्वे प्रयोजकमुत ज्ञानादीनामपीत्यत आह ।। एवमिति ।। भगवदर्पणादिकं चात्र द्रष्टव्यम् ।। २३२५ ।।

किरणावली

भगवदर्पितत्वेन सर्वकर्मकरणं तस्य विष्णोः सर्वपरमत्वज्ञानं च नियतमेवेति मूले सर्वपरमत्वज्ञानं चेति च शब्देन भक्तिः समुच्चीयते । ज्ञानभक्तिवाचकपदाभ्यां तत्पूर्वकत्वं लक्ष्यते । भगवदर्पितत्वेन सर्वकर्मकरणमित्यस्यानुष्ठेय प्राधान्येन भगवदर्पणबुद्ध्या क्रियमाणं कर्मेत्यर्थः । नियतमेवेत्येवकारस्य कर्मैवेति सम्बन्धः । नियतमित्यतः परमत्रोच्यत इति शेष इत्यभिप्रेत्य व्याचष्टे ।। विष्णोरिति ।। कुत इति ।। नियतं सङ्गरहितं इत्येतादृशं कर्मैव नियत पदेनोच्यत इति कुतो ज्ञायत इत्यर्थः । एतदाशङ्कापरिहारकत्वेन मयि सर्वाणीत्यारभ्य समग्रवाक्यं योजयति ।। मयिसर्वाणीत्यादिना ।। प्रत्यवायस्य चोक्तेरित्यन्तेन । तत्र मूले मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसेति सर्वपरमत्वज्ञानं चेत्यस्यार्थ उक्तः । मयि सर्वाणि कर्माणीति भगवत्सर्वोत्तमत्वज्ञानभक्तिपूर्वकमिति भगवदर्पितत्वेन सर्वकर्मकरणमुक्तम् । ये मे मतमिति । तस्यमोक्षसाधनत्वोक्तेर्येत्वे तदिति तदकरणे प्रत्यवायस्य चोक्तेरित्यन्तेन भगवदर्पितत्वेन कर्मकरणमित्यस्यानुष्ठेय प्राधान्यविवक्षां विहाय यथाश्रुतमर्थ उक्तः ।।

तदर्पणबुध्द्या कर्मकरणमिति ।। उक्तेत्यस्यार्थो विधायेति । ये मे मतमित्यादेरर्थो ये मे मतमिति । मूले टीकायां प्रत्यवायस्य चोक्तेरित्यतः परं नियतं सङ्गरहितमित्यत्र विष्णोः सर्वोत्तमत्वज्ञानभक्तिपूर्वकं तदर्पणबुध्द्या क्रियमाणमेव कर्म नियतमित्युच्यत इति ज्ञायत इति योज्यम् । अन्यथा टीकायां विधायोक्तेरित्यस्यान्वयाभावप्रसङ्गात् । मूले च ज्ञायत इत्यस्य कर्मानुक्तिप्रसङ्गादिति बोध्यम् । कथमनेनोक्तिद्वयेनैतादृश कर्मण एव नियतत्वमत्रोच्यत इति ज्ञायत इत्यतो भावमाह ।। यत्करण इति ।। भगवत्सर्वोत्तमत्वज्ञानादिपूर्वकत्वमिति ।। आदिपदेन भक्तिर्गृह्यते । ज्ञानपूर्वकत्वमिति पाठे ज्ञानपदं भक्तेरुपलक्षकम् ।। मयि सर्वाणि कर्माणीत्यत्रेति ।। तृतीयाध्यायगते श्लोक इत्यर्थः । अध्यात्मचेतः पदार्थमाह ।। सर्वाधिकेति ।। तत्स्वरूपयाथार्थ्यज्ञानादीत्यतः परमध्याहार्यमाह ।। अपेक्षिततयेति ।। तत्स्वरूपस्य यो यथावस्थितः अबाध्यः आकारः सर्वोत्तमत्वादि तत्सम्बन्धि तद्विषयीकुर्वद्याथार्थ्यं तच्च तज्ज्ञानं चेत्यर्थः । यद्वा तत्स्वरूपविषय याथार्थ्ययुक्तं प्रामाण्ययुक्तं ज्ञानमित्यर्थः । तथाचाध्यात्मचेतसा सर्वोत्तमे भगवति विषये विद्यमानेन चेतसा ज्ञानेनेति माहात्म्यज्ञानस्योक्तत्वात् । तस्य च पितृत्वादि प्रकारकस्य स्नेहहेतुत्वात् । ज्ञानपूर्वकस्नेहस्यैव भक्तिपदार्थत्वात् । कर्माणि मयि संन्यस्येत्युक्तरीत्या कर्माण्यर्पयतोभक्तिर्ज्ञानं चापेक्षितमिति ज्ञायत इति भावः ।। येतु सर्वाणीत्यस्मिंच्छ्लोक इति ।। येतु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । अनन्येनैव योगेनेत्यस्य ग्रहणम् । विष्णोरन्यं नस्मरेद्यो विना तत्परिवारताम् । तदधीनतां वानन्ययोगी सपरिकीर्तित इति व्याख्यतत्वादिति भावः ।। अहंपरः सर्वोत्तम इति ।। अहमेव परः सर्वोत्तमो येषां ते तेमत्परा इत्यर्थः । तेन सर्वोत्तमत्वज्ञानिन इति लभ्यते । अनन्येनैव योगेनेत्यत्र तत्परिवारत्वेन तदधीनत्वेन वा विनास्मरणवर्जनमुक्तम् । ध्यायंत इति स्पष्टस्मृतिलक्षणध्यानस्योपासत इति समाधेश्चोक्तत्वात्तत्स्मरणाद्यर्थकत्वं च लभ्यत इत्युपपादनीयम् ।।

प्रागुक्तप्रकारानुवादेनेति ।। द्वादशाध्यायपर्यन्त प्रागुक्तसाधनप्रकारस्यैवं सततयुक्ता ये भक्तास्त्वां पर्युपासत इति सङ्ग्रहेणानुवादेनैवं भगवदुपासका उत्तमा उत प्रमाणान्तरानुसारेणा व्यक्तोपासका इति पृष्टस्य भगवतः तथैव पूर्वोक्तप्रकारेण ज्ञानभक्तिपूर्वकाणि कर्माणि कृत्वा भगवदर्पणयोगयुक्ताः पुनरभिवृद्धज्ञानादिमन्तो ये भगवन्तमुपास्यापरोक्षतो जानन्ति त एवानायासेन मुच्यन्त इति पूर्वोक्त दृढीकरणेनाव्यक्तोपासकापेक्षयाभगवदुपासका उत्तमा इति परिहारोक्तेर्युक्तत्वात् । अन्यथा पूर्वोक्तत्यागप्रसङ्गादिति भावः । न केवलं पूर्वानुवादेनाशङ्कितस्य पूर्वोक्तदृढीकरणेन परिहारस्य वक्तव्यत्वात् अन्यथानुपपत्त्याऽनुवादत्वं ज्ञायते किंतु समाख्यावशादर्थतः शब्दतश्चसमानोक्तिवशाद्विशिष्य येतु सर्वाणिकर्माणीत्यादेर्द्वादशाध्याय श्लोकस्य मयि सर्वाणीत्यादि तृतीयाध्याय श्लोकानुवादित्वं विज्ञायते विस्पष्टं ज्ञायत इत्याह ।। समाख्येति ।। ज्ञानादीनामिति ।। आदिपदेन श्रवणादेर्ग्रहणम् । भगवदर्पणादिकमित्यादि पदेन सर्वोत्तमत्वज्ञानं गृह्यते ।। २३२५ ।।

भावदीपः

विधायेति ।। तृतीयाध्याये इति योज्यम् । स्वरूपयाथार्थ्यज्ञानादित्यत्र काङ्क्षितं पूरयति ।। अपेक्षिततया ज्ञायत इति सम्बध्यत इति ।। तदर्थलाभप्रकारमाह ।। अहं परः सर्वोत्तम इत्यादिना ।। २३२५ ।।

भावप्रकाशः

भक्तिपूर्वकमिति । अनेन सर्वपरमत्वज्ञानं चेति च शब्दः भगवद्भक्तियुक्तमेवेति वक्ष्यमाणभक्तिसमुच्चायक इति व्याख्यातं भवति ।। अध्यात्मपदमन्तःकरणादिपरमिति प्रतीतिनिरासाय व्याचष्टे । सर्वाधिके परमात्मनीति । याथार्थ्यज्ञानादीत्यस्यापेक्षिततयेति पदाध्याहारेण पूर्वेण सम्बन्धं दर्शयति । अपेक्षिततया ज्ञायत इति सम्बन्ध्यत इति ।। ननु येतु सर्वाणीति श्लोकगतस्य मत्परा इत्यदेर्मयि सर्वाणीति श्लोकगताध्यात्मचेतसेति पदव्याख्यान रूपत्वं कुत इत्यत आह । मयि सर्वाणीति ।। श्लोकार्थानुवादरूप इति । एतत्पदमिति । अध्यात्मचेतसेति पदमित्यर्थः । मत्परा इत्येतन्मदपेक्षया उत्तमा इति प्रतीतिनिरासाय व्याचष्टे ।। अहंपरः सर्वोत्तम इति । सर्वोत्तम इत्यनुसन्धानमित्यर्थः ।। ननु येतु सर्वाणीत्यस्य प्रागुक्तपरिहाररूपत्वेपि विशिष्य मयि सर्वाणीत्यपि सर्वाणीत्यनेन समानोक्तिं तदनुवादरूपत्वं कुत इत्यत आह । समाख्यावशादिति ।। समाख्येति भावप्रधानोनिर्देशः । येतु सर्वाणीत्यस्य मयि सर्वाणीत्यनेन समानोक्तित्ववशादित्यर्थः ।। तत्र मयि सर्वाणि कर्माणीत्युक्त कर्मसंन्यासस्य मुच्यन्ते तेपि कर्माभिरित्युक्त मोक्षरूपफलस्य चात्र येतु सर्वाणि कर्माणीत्यनेन तेषामहं समुद्धर्त्तेत्यनेन चोक्तत्वात् समानोक्तित्वमिति भावः । भगवदर्पणादिकमित्यत्रादिपदेन भगवत्सर्वोत्तमत्वं ज्ञानं ग्राह्यम् ।। २३२५ ।।

वाक्यविवेक

न च वाच्यमेतच्छ्लोकस्येति । येतु सर्वाणि कर्माणि मयि सन्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायं त उपासते इति श्लोकस्थमपि सर्वाणि कर्माणि सन्यस्याध्यात्मचेतसा । निराशीनिर्ममो भूत्वा युध्यस्व विगतज्वर इति तृतीयाध्यायस्थश्लोकानुवादित्वं कुत इति न वाच्यमित्यर्थः ।। एवं सततयुक्ता इतीति । एवं सततयुक्ता इति श्लोकेन मयि सर्वाणि कर्माणीति तृतीयाध्यायस्थश्लोकोक्तभगवदुपासकान् अक्षरोपासकांश्चोक्त्वा तेषां मध्ये के उत्तमा इति पृष्ठत्वेन भगवता तृतीयाध्याये उक्तानां भगवदुपासकानामुत्तमत्वस्य वक्तव्यत्वे स्यादयं श्लोकस्तस्य श्लोकस्यानुवाद इति विज्ञायत इत्यर्थः ।। समाख्यावशादिति । समानोक्तित्ववशादित्यर्थः ।। २३ ।।