तात्पर्यम्

क्षत्रियादीनां शासनाधिकारः

तात्पर्यम्

प्रसह्य वित्ताहरणं शारीरो दण्ड एव च ।

अशिष्याणां शासनं च तथैवार्थविनाशनम् ।

एष ईश्वरभावः स्यान्न कार्यः क्षत्रियेतरैः ।

सर्वे विधर्मिणः शास्याः क्षत्रियैर्यत्नतः सदा ।

अङ्गाद्यहानिकृद् दण्डः शिष्येषु ब्राह्मणादिभिः ।

कार्यो देहेऽपि शिष्यश्च स्वामिना स्वेन वाऽर्पितः ।

पुत्रानुजादयः सर्वे शिष्या एव निसर्गतः ।

गुरवश्चैव मित्राणि सखिसब्रह्मचारिणः ।

सम्बन्धिनश्च सर्वेऽपि तत्तद्योग्यतयाऽखिलैः ।

शिक्षणीयेषु भावेषु शिक्षणीयाः प्रयत्नतः ।

उन्मादे बन्धानाद्यैर्वा ताडनं न गुरोः क्वचित् ।

पापं चरन्तस्त्वन्येऽपि सर्वैर्दृष्टिपथं गताः ।

शक्तितो वारणीयाः स्युर्देशकालानुसारतः ।

तदुत्तमविरोद्धारः सन्त्याज्या गुरवोऽपि तु ।

यथाशक्तयनुशास्यैव कालतोऽपि न चेच्छुभाः ।

विष्णौ परमभक्तस्तु न त्याज्यः शास्य एव च ।

शिक्षयंश्च गुरून् शिष्यो गुरुवन्नैव शिक्षयेत् ।

महान्तो नानुशास्याश्च विरुद्धाचरिता अपि ।

यदि च स्वोत्तमानां ते विरोधं नैव कुर्वते’ इत्यादि च ।

प्रकाशिका

दानमीश्वरभावश्चेति क्षत्रियधर्मत्वेन ईश्वरभाव उक्तस्तत्स्वरूपमाह ।। प्रसह्येत्यादिना ।।

न्यायदीपिका

यथा क्षत्रियैकधर्मतयोक्तं युद्धेऽपलायनं कारणविशेषादन्येषामपि स्यात्तथैवैश्वर्यमप्यन्यधर्मः स्यात्किमित्यतः तत्स्वरूपनिरूणपूर्वकं तस्य क्षत्रियेतरेष्ववृत्तिं प्रमाणेन दर्शयति ।। प्रसह्येति ।। प्रसह्य वित्ताहरणादि केषामित्यतः तद्वदनूनकार्यः क्षत्रियेतरैरित्यस्य व्यावर्त्यमाह ।। सर्व इति ।। तर्हि किं ब्राह्मणादिभिर्विधर्मिणां शासनमेव न कार्यमित्यत आह ।। अङ्गादीति ।। शिष्यो नाम कीदृश इत्यत आह ।। शिष्यश्चेति ।। तर्हि पुत्रादीनामशासनप्रसङ्ग इत्यत आह ।। पुत्रेति ।। अनिसर्गशिष्यस्वरूपं तदिति भावः । न केवलं ब्राह्मणाद्यैः शिष्या एव शास्याः किं तु गुर्वादयोऽपीत्याह ।। गुरव इति ।। शिक्षणीयेषु भावेष्विति शिक्षणीयार्थविषय इत्यर्थः । न केवलं गुर्वादय एव शास्याः, किं त्वज्ञाता अपीत्याह ।। पापमिति ।। अत्र सर्वत्राङ्गाद्यहानिकृद्दण्डः शिष्येषु गुरवश्च देशकालानुसारत इति विशेषोक्तया क्षत्रियाद्विशेषो द्रष्टव्यः । पापं चरन्तो वारणीया इत्युक्तम् । यदि ते स्वोत्तमविरोधाख्यं महापापं कुर्युस्तर्हि किं कार्यमित्यत आह ।। तदिति ।। किं सहसा त्याज्या एवेत्यत आह ।। यथेति ।। स्वोत्तमविरोद्धारो गुर्वादयः किं सर्वथा त्याज्या एवेत्यत आह ।। विष्णाविति ।। तच्छिक्षाप्रकारमाह ।। शिक्षयन्निति ।। विष्णौ परमभक्तः स्वोत्तमविरोधतरपापमाचरति चेत्किं कार्यमित्यत आह ।। महान्त इति ।।

किरणावली

मूले शारीरो दण्ड एवेत्येव कारस्यैष एवेति न कार्य एवेति वा सम्बन्धः ।। प्रसह्यवित्ताहरणमित्यादि केषामित्यत इति ।। धर्मिणां विधर्मिणां वेत्यत इत्याशङ्कायां नकार्यः क्षत्रियेतरैरितीतरपदस्य व्यावर्त्यमाहेत्यर्थः । क्षत्रियैस्सर्वे विधर्मिणः शास्या इति व्यावर्त्यकथनमिषेण प्रसह्यवित्ताकर्षणादिविधर्मिणामिति लाभात् । नशङ्कापरिहाराविति भावः । अङ्गाद्यहानिकृदित्यादिपदेनेन्द्रिय प्राणयोर्ग्रहणम् । नन्वध्यापनं ब्राह्मणस्यैव तत्कथं ब्राह्मणादिभिरित्यादिपदोक्तानां शिष्यवत्त्वमिति चेन्न । क्षत्रियवैश्ययोरप्युपदेशकाभावे उपदेशकत्वस्वीकारात् ।। पुत्रादीनामिति ।। यदिपितृज्येष्ठभ्रात्रादि स्वरूपस्वामिना स्वेन वार्पितत्वं शिष्यलक्षणं तर्हि पुत्रानुजादीनां शिष्यलक्षणाभावेन पितृभ्रातृशिष्यत्वाभावादशासनप्रसङ्ग इत्यर्थः । मित्राणि सखिसब्रह्मचारिण इति मूले पूर्वोपकारं ज्ञापयित्वोपकारकृन्मित्रं प्रीतिपूर्वंक सहैवसञ्चरन्तः सखायस्सहाध्यायिनः स ब्रह्मचारिणः बन्धनाद्यैर्वाबन्धनाद्यैरेव । बन्धनाद्यैरपीति वा आद्यपदेन भर्त्सनादिकं गृह्यते । ननु यदि ब्राह्मणैर्विधर्मिणां शासनं क्रियते तर्हि क्षत्रियाद्विशेषो न स्यादित्यत आह ।। अत्रेति ।। अत्र सर्वत्र शारीरो दण्ड एव चेत्युक्तविपरीतत्वेनाङ्गाद्यहानिकृद्दण्ड इति विशेषोक्तया अशिष्याणां शासनमित्युक्तवैपरीत्येन शिष्येषु ब्राह्मणादिभिरिति विशेषोक्तया सर्वे विधर्मिणः शास्या इत्येतत्प्रतियोगित्वेन गुरवश्चैवेत्यादिना कतिपयानां शास्यत्वरूपविशेषोक्तया सर्वे सदा शास्या इत्येतद्विरोधित्वेन देशकालानुसारत इति विशेषोक्तया क्षत्रियैर्महाप्रयत्नं विधाय शास्या इत्येतत्प्रापिकूल्येन शक्तितो वारणीयाः स्युः इति विशेषोक्तयाच क्षत्रियाद्विशेषो द्रष्टव्य इत्यर्थः । यथाशक्तयनुशास्यैव संत्याज्या इति मूलेऽनुशास्यस्थितैरिति शेषः । यद्वानुशासनत्यागयोरेककर्तृत्वात्तद्विवक्षयानुशास्यत्याज्या इत्युक्तम् ।। स्वोत्तमविरोद्धारो गुर्वादयः किं सर्वथा त्याज्या एवेति ।। ननु यथाशक्तयनुशासनेपि कालतोपि न शुभाश्चेत्संत्याज्या एवेत्युक्तत्वात्पुनः प्रश्नपरिहारयोरनुपपत्तिरिति चेन्न । वैष्णवत्वस्वोत्तमत्वयोरनिर्धारणदशायां तदुत्तमविरोद्धारो यथाशक्तयनुशासनेपि कालतोपि न शुभाश्चेत्संत्याज्या एवेति प्रश्ने विष्णौपरमभक्तः स्वापेक्षयाऽधिकभक्तोनिर्णीतश्चेत्सस्वोत्तमविरोद्धा नत्याज्यः किंतु शास्य एवेति प्रश्नपरिहारयोरुपपत्तेः । नित्यसंसारिणामीषद्भक्तिसद्भावात्तत्व्यावृत्त्यर्थं परमभक्त इत्युक्तम् । यद्वा साधारणभक्तानां स्वोत्तमानामपि वैष्णवानां यथा शक्तयनुशासनेपि प्रबलकर्मवशेन तज्जन्मावच्छेदेन कालतो न शुभत्वं चेत्त्याज्यत्वं प्रागभिहितम् । अधुना तु विष्णौ परमभक्ता अपि प्रारब्धवशेन तदुत्तमविरोद्धारः कर्णादयस्तत्सम्बन्धिभिः शिष्यमित्रसखिबन्धुभिः किं सर्वथा त्याज्या एवेति प्रश्ने विष्णौ परमभक्तस्तु न त्याज्य एव । किंतु शास्य एवेति परिहारेप्युपपत्तेः ।

भावदीपः

इत्यस्य व्यावर्त्यमाहेति ।। क्षत्रियैरेव कर्तव्यत्वरूपं व्यावर्त्यमाहेत्यर्थः । ननु ब्राह्मणानामपि शिक्षाकर्तृत्वे क्षत्रियस्य विशेषाविति प्रागुक्तविरोध इत्यत आह ।। अत्र सर्वत्रेति ।।

भावप्रकाशः

कारणविशेषादिति ।। विप्रक्षत्रार्थत्वरूपकारणादित्यर्थः ।। ननु स्वामिना स्वेन वाऽर्पित इत्युक्तलक्षणाभावात् पुत्रादीनां कथं शिष्यत्वमित्यत आह ।। अनिसर्गशिष्यस्वरूपं तदितीति । अज्ञाता अपीति । अपरिचिता अपीत्यर्थः ।। ननु ब्राह्मणस्यापीश्वरभावसद्भावात्कथं क्षत्रियस्यैवं विशेषगुण इत्यत आह । अत्र सर्वत्रेति ।। महान्त इति वाक्यस्य नत्याज्यः शास्य एव चेति पूर्ववाक्यविरोधपरिहारार्थं तदवतारयति ।। विष्णौ परमभक्तः स्वोत्तमविरोधेतरपापमिति ।

वाक्यविवेक

न कार्यः क्षत्रियेतरैरित्यस्य व्यावर्त्यमाहेति । न कार्यः क्षत्रियेतरैरित्यत्र क्षत्रियाश्च इतरे वैश्यादयश्च तैर्न कार्यः किं तु ब्राह्मणैरेव कार्य इत्युच्यते । अतो ब्राह्मणा एव व्यावर्त्या इति भ्रान्तिः स्यादतः क्षत्रिया एव व्यावर्त्या इत्यर्थः ।। एतेन क्षत्रियेभ्य इतरैर्न कार्य इत्यनेन क्षत्रिया एव व्यावर्त्या इत्यर्थस्य सिद्धत्वात् सर्वे विधर्मिणः शास्पाः क्षत्रियैर्यत्नतः सदेति वाक्यं व्यर्थमिति दूषणं परास्तम् । क्षत्रियाश्च इतरे चेति विग्रहो न किं तु क्षत्रियेभ्य इतर इति विग्रह इति वक्तुं सर्वे विधर्मिणः शास्या क्षत्रियैर्यत्नतः सदेति वाक्यं प्रवृत्तमित्यभ्युपगमात् ।। ४८ ।।