गीता

गीता

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।

समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ।। १५ ।।

तात्पर्यम्

फलमाह । यं हीति । न केवलमव्यथामात्रेणामृतत्वं किन्तु पुरुषम् ।।

पुरु ब्रह्म गुणाधिक्यात्तज्ज्ञानात्पुरुषः स्मृत’ । इति प्रवृत्ते ।

पुरु सरणात्पुरुष इत्यर्थः ।। १५ ।।

न्यायदीपिका

ननु दुःखाभावस्य युद्धाकरणेपि सम्भवात्किं तत्कृत्वा दुःखाभावायाभिमानपरित्यागेनेत्याशङ्क्य देहाद्यनभिमानेन भवन्दुःखपरित्यागः स्वयं फलरूपो परमपुरुषार्थहेतुश्च भवतीति भावेन श्लोकमवतारयति ।। फलमिति ।। अनभिमानेन दुःखपरिहारस्येतिशेषः । कथं व्यथापरिहारमात्रेणामृतत्वम् । तमेवं विद्वानित्यादि श्रुतिविरोधादित्याशङ्का परिहाराय पुरुषपदमवतारयति ।। नेति ।। कथमनेनैतच्छङ्कापरिहार इत्यतः स्मृत्यैव व्याचष्टे ।। पुरु ब्रह्मेति ।। अस्तु पुरुपदेनब्रह्म तज्ज्ञानात्पुरुष इत्येतत्कथं लभ्यत इत्यत आह ।। पुरुसरणादिति ।। सरणं गमनम् ।। तदेव ज्ञानमिति भावः ।। १५ ।।

किरणावली

‘‘मात्रास्पर्शा’’ इति श्लोकस्य विषयसम्बन्धानामभिमानसाहित्येनैवशीतोष्णानुभवद्वारा सुखदुःखादि प्रदत्वस्यान्वयव्यतिरेकसिद्धत्वादभिमानस्यैव दुःखादिहेतुत्वादभिमानं परित्यज्य शीतोष्णादींस्तितिक्षस्व विफलीकुरु । यथादुःखं नोत्पादयन्ति तथा कुर्विति भाष्यरीत्यार्थे व्यवस्थिते शङ्कते ।। ननु दुःखाभावस्येत्यादिना ।। सृगताविति धातुं मनसि निधायाह ।। सरणं गमनमिति ।।१५।।

भावदीपः

स्मरणं गमनमिति ।। सृ गताविति धातोः । ये गत्यर्थास्ते ज्ञानार्था इति भावः।।१५।।

भावप्रकाशः

दुःखपरिहारस्य स्वतः पुरुषार्थत्वात्तस्य फलमाहेति उक्तिरनुपपन्नेत्यतः तदवतारयति । ननु दुःखाभावस्येति । तमेवं विद्वानित्यादीति । तत्र ज्ञानस्यैव मोक्षसाधनत्वप्रतिपादनादिति भावः । अस्तु पुरुपदेन ब्रह्मेति । पुरुपदस्य पूरणार्थक धातुजन्यत्वाद्ब्रह्मणश्च गुणपूर्णत्वादिति भावः । सृगताविति धातुं मनसि निधायाह ।। सरणं गमनमिति ।। अथापि ज्ञानार्थत्वं कुत इत्यतो गत्यर्थानामवगत्यर्थत्वादित्याह । तदेव ज्ञानमितीति ।। १५ ।।

वाक्यविवेकः

मूले न केवलमिति । अत्र किंत्वित्यनन्तरं ज्ञानेनापीत्याहेति शेषः । ततश्चैवं गीताश्लोकार्थो भवति– धीरं समदुःखसुखं पुरुषं भगवद्ज्ञानिनं एते मात्रास्पर्शाः विषयसम्बाधाः न व्यथयन्ति, स मुक्तो भवति । अपरोक्षज्ञानान्तरमेव न मोक्षः किंतु ज्ञानी यदा अनभिमानेन प्राप्तदुःखं परिहरति तदैव मोक्षो भवतीति यावदिति । पुरुपदेनेति । पूरणार्थात् पृदूत्यस्मात् कुप्रत्यये उदोष्ट्यपूर्वस्येति उत्वे तस्य रपरत्वेन पुरुशब्दस्य निष्पन्नत्वात् पुरुशब्दः पूर्णस्य ब्रह्मणः वाचकोऽस्त्विति भावः । सरणं गमनमिति । सृगताविति धातोरिति भावः ।। १५ ।।