श्री भगवानुवाच

श्री भगवानुवाच—

मथ्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।

असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ।। १ ।।

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।

यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ।। २ ।।

तात्पर्यम्

भगवन्महिमा विशेषत उच्यते ।। १ ।।

प्रकाशिका

एतदध्यायप्रतिपाद्यं दर्शयति ।। भगवन्महिमेति ।। अध्यायान्तरेषु भगवन्महिमोक्तावपि अत्र विष्णुमहत्त्वं विशेषेणोच्यत इत्यर्थः ।। १ ।।

न्यायदीपिका

एतदध्यायप्रतिपाद्यमर्थं दर्शयति ।। भगवदिति ।। यत्पूर्वोक्तं ध्यानं तद्भक्तिपूर्वकमेव ज्ञानसाधनं नान्यथा अतो भक्तयर्थं भगवन्महिमास्मिन्नध्यायेऽभिधीयत इत्यर्थः । नत्वेवाह मित्यादिना प्रागापि भगवन्महिम्नो वर्णितत्वात्किमनेनेत्यत उक्तम् ।। विशेषत इति ।। प्राक्संक्षेपेणोक्तोत्र विस्तरेणोच्यत इत्यर्थः ।। उपरितनाध्यायानामपि भगवन्महिमाभिधायकत्वादत्रेत्यादि नोक्तम् ।। १२ ।।

भावदीपः

पूर्वोक्तमिति ।। पूर्वाध्यायादावुक्तमित्यर्थः ।। १,२ ।।

भावप्रकाशः

अस्य पूर्वाध्यायसङ्गतिं दर्शयति ।। यत्पूर्वोक्तमिति ।। भगवन्महिमेति ।। अनेन गीतायां ज्ञानविज्ञानशब्दौ ज्ञेयभगवन्महात्म्यपरावित्युक्तं भवति ।। अत्रेत्यादीति । षण्णामध्यायानां भगवन्महिमाभिधायकत्वादत्राध्याये इति नोक्तमित्यर्थः ।। आदिपदेनानेनाध्यायेनेत्यादिग्रहणम् ।। १ ।।

वाक्यविवेकः

भगवन्महिमाविशेषस्योत्तराध्यायसाधारणत्वात् भगवन्महात्म्यविशेषवर्णनं साधारणम् । अध्यायप्रतिपाद्यं त्वन्यदेवेति शङ्कानिरासाय भगवन्महिमाविशेष उच्यत इति मूलमवतारयति ।। एतदध्यायेति ।। यद्यपि विशेषतो भगवन्महिमावर्णनं उत्तराध्यायेष्वप्यस्ति ।। तथापि अत्रोक्तस्योत्तराध्याये विवरणम् ।। तत्रोक्तस्य तदुत्तराध्यायैरतिशयेन विवरणमिति वैशद्यावैशद्यादिनाऽध्यायभेदो द्रष्टव्यः ।। अत्रेत्यादि नोक्तमिति ।। अत्राध्याय इति वा अनेनाध्यायेनेति वा नोक्तमित्यर्थः ।। १,२ ।।

 

 

Load More