तात्पर्यम्
तात्पर्यम्
अस्य देवस्य मीह्वुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः ।
विदेहि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विना वि रावत् ।।
यदुक्तं ज्ञानिनामपि कर्म कार्यं तेनानन्दातिशयश्च भवतीति तदयुक्तम् । यस्त्विति ज्ञानिनस्तदुभयाभावस्योक्तत्वादित्यत आह ।। यस्त्विति ।। नानेन ज्ञानिनः कर्माद्यभावः सिद्ध्यति । अस्यात्मरतित्वादिविशेषणानां मुक्त एव मुख्यत्वेन पूर्वोत्तरवाक्यानुसारेण च मुक्तविषयतया ज्ञानिमात्र विषयत्वाभावादित्यर्थः । अत्र सर्वथा देहाद्यभिमानमुक्तत्वेनासंप्रज्ञात समाधिस्थोपि मुक्त उच्यते । स्मृतिसमाख्यानाच्चैतन्मुक्तविषयमित्याह ।। यस्त्विति ।।
तथापि न ज्ञानिनः कर्मकरणं युक्तम् । ज्ञानयोगेनेति ज्ञानिनां कर्माभावोक्तेः । नचास्य मुक्तविषयत्वं वक्तुं शक्यते । ज्ञानेनैव ज्ञानिनां मुक्तिरित्युक्तेरित्यत आह ।। ज्ञानेति ।। न ज्ञानिनां कर्माङ्गीकारेप्येतद्वाक्यविरोधः । अस्य यतिविषयत्वात् । तेषामप्येतद्बाह्यकर्मसङ्कोचापेक्षयैव ज्ञानेन मोक्षमाह । न तु कर्माभावाभिप्रायेणेति भावः ।
किरणावली
यद्विष्णोरिति ।। ब्रह्मरुद्ररमादिभ्योऽप्युत्तमत्वमित्याद्युदाहरणपूर्वकं यदुक्तमित्यर्थः । श्रुतिं व्याचष्टे ।। अस्येति ।। मी•हुषोऽभिलषितसेचकस्य एषस्य आसमन्तात् ईशस्य वयाः बन्धकः वयबन्धन इति धातोः । प्रभृथे प्रभरणे पूजायाम् । रुद्रियं रौद्रं महित्वं महिमानं पदम् । विदे विविदे विद्लृलाभे लेभे । यथा तथेति शेषोक्तिः । या सिष्टमिति मध्यमपुरुषश्रवणाद्युवामित्युक्तम् । इरावत् अन्नवत् वर्तिर्वर्तनं वृतेरिकारप्रत्ययो भावार्थ इति भावः । या सिष्टमयासिष्टं या प्रापणे अडभावश्छान्दसः प्राप्तौ स्थ इत्यर्थः यं यं कामयत इत्यत्र यं ब्रह्माणं कर्तुं कामयते तं ब्रह्माणं कुर्यादित्यादियोजना । कर्तास्येत्यत्र विष्णुं विनेति पूरणीयम् ।
श्रीस्तु भार्यात्वात्तं विना न कुर्यादेव । ‘‘यं कामये तं तमुग्रंकृणोमी’’ति वचनं पुत्रमुत्पादयामीति यथा भार्यावचनं भर्तृसाहित्येनेति विवक्षया तथेत्यवसेयम् । तदन्यदित्यस्यैव विवरणमवान्तरं तत्परत्वमिति ।। ततो विष्णुत इति ।। यतस्ततः प्रसन्नाद्विष्णोः पुरुषार्थो मोक्षो भवत्यतो मोक्षोद्देशेन प्रवृत्तानां सर्वागमानां भगवत्प्रीत्यन्तरङ्गसाधनगुणोत्कर्षज्ञानजननाय । तत्रैव महातात्पर्यमित्यर्थः । तथा च श्रुतिर्न तादृशी प्रीतिरीड्यस्य विष्णोरित्यादिका । परतः स्वत एव वेति श्रुतिशेषस्य परतोऽवरावेशादितः स्वतस्तपादिस्वसामर्थ्येन वा समोऽधिकोवास्तीत्यर्थः । तेनावेशेन जांबवत्याः कदाचिद्रामसाम्यस्यावेशादिनाऽर्जुनस्य द्रौण्याधिक्यस्योक्तेः । विश्वामित्रस्य तपोलक्षणस्वसामर्थ्येन वसिष्ठसाम्यस्य प्राप्तत्वादिति भावः ।।
यदुक्तं ज्ञानिनामपीति ।। पश्यन्नपीममात्मानमिति प्रमाणोदाहरणपूर्वकमिति भावः ।। अनन्दातिशयश्चेति ।। कर्मकार्यं फलं च भवतीति यदुक्तमिति चशब्दार्थः । यद्वा नियतं क्लृप्तमप्यानन्दोत्कर्षं कर्मणाप्नुयादित्युक्तयाऽकरणे क्लृप्तस्याप्यनभिव्यक्तिरूपह्रासो भवतीति सूचितमिति चार्थः ।। तदुभयाभावस्येति ।।
‘‘तस्य कार्यं न विद्यत’’ इति कर्तव्याभावस्य नैव तस्य कृतेनार्थ इति फलाभावस्य चशब्देन नाकृतेनेह कश्चनेत्यकरणे अनर्थाभावस्य चोक्तत्वादित्यर्थः ।। आत्मरतित्वादिविशेषणानामिति ।।
विष्णुप्रसादाद्रतिमान् तृप्तो विष्णुप्रसादतः ।।
विष्णावेवातितृप्तश्च मुक्तोऽसौ विध्यगोचरः ।।
रतिरानन्द उद्दिष्टः तृप्तिस्तु कृतकृत्यता ।
इत्याद्युदाहरिष्यमाणप्रमाणानुसारेणात्मरतित्वादिविशेषणानां मुक्त एव मुख्यत्वे न मुक्तविषयतया ज्ञानिमात्रविषयत्वाभावादित्यर्थः ।
ब्रह्मनिष्ठा ब्रह्मरता ब्रह्मज्ञानसुतर्पिताः ।।
पाण्डवानां च मुक्तानामन्तरं किञ्चिदेव हि ।।
इति वचनात्पाण्डवेष्वप्येतेषां विशेषेणानां सत्त्वात्कथमवधारणमित्यतो मुख्यत्वेनेत्युक्तम् । तथा च वक्ष्यत्याचार्यः । आत्मरतिरित्येवशब्देनैव मुक्तानामेभ्यो विशेषो दर्शितः । तेषां कदाचित्तदभावस्यापि भावादिति । न च संप्रज्ञातसमाधिस्थानामप्यात्मरतित्वादिकमस्तीति कथं मुक्त एवेत्यवधारणमित्यतो वोक्तं मुख्यत्वेनेति । तेषां समाध्यवस्थायामात्मरतित्वादिसद्भावेऽप्यन्यदा गेहाद्यभिमानेन तदभावादिति भावः । तदुक्तं स्थितप्रज्ञस्यापि कार्यो देहादिर्दृश्यते यदेति । इतश्चास्य मुक्तविषयत्वमेव न ज्ञानिमात्रविषयत्वमित्यभिप्रायेणोक्तम् ।।
पूर्वोत्तरवाक्यानुसारेण चेति ।। नियतं कुरु कर्मत्वम् । तस्मादसक्तः सततं कार्यं कर्म समाचरेत्युपसंहारवाक्ययोर्ज्ञानिनोप्यर्जुनस्य कर्मोपदेशश्रवणात् । यस्त्विति वाक्यस्य ज्ञानिमात्रविषयत्वे तद्विरोधात् । मुक्तविषयत्व उपक्रमोपसंहाराविरोधान्मुक्तविषयतयाज्ञानिमात्रविषयत्वाभावादित्यर्थः । वक्ष्यति च आचार्यः । मुक्तस्यैव कार्यं न विद्यत इत्येवकारार्थोऽपि यस्त्विति तुशब्देनावगतः । तस्मात्कर्मसमाचारेत्युपसंहारविरोधश्चान्यथेति । ननु गीताभाष्ये आत्मरतिरेवेत्यवधारणादसंप्रज्ञातसमाधिस्थस्यैव कार्यं न विद्यत इत्यस्य व्याख्यातत्वात् ।
मुक्तविषयत्वं कथमुच्यत इत्यत आह ।। अत्र सर्वथेति ।। न केवलं परममुक्त इत्यपेरर्थः । ननु कथमसंप्रज्ञातसमाधिस्थो मुक्त उच्यते । शरीराद्यनपायादित्यत उक्तं सर्वथेति । शरीराद्यनपायादमुक्तोऽप्यसंप्रज्ञातसमाधिस्थः शरीराद्यभिमानमुक्तत्वेन मुक्त उच्यत इत्यर्थः । अपिरनौचित्यद्योतकः । एवं मूलवाक्यस्यासंप्रज्ञातसमाधिस्थविषयत्वे अस्यात्मरतित्वादि विशेषणानामिति टीकावाक्यस्यायमर्थः। आत्मरतित्वादिविशेषणानां शरीराभिमानान्मुक्ते समाध्यवस्थापन्न एव प्रायः सर्वकामप्रहाणवतो ज्ञानिमात्रान्मुख्यत्वेन
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ।। इति ।
पूर्वग्रन्थे गतसंगस्य मुक्तस्य योऽन्तःसुखोन्तराराम इत्युत्तरग्रन्थेन समाधिस्थस्य प्रकृतत्वेन तदनुसारेण चाभिमानमुक्त्वाऽसंप्रज्ञातसमाधिस्थविषयतया ज्ञानिमात्रविषयत्वाभावादिति । ननु स्तुत्यधिकरणे अनुष्ठेयं बादरायण इति सूत्रे देवानामनुष्ठेयानां मध्ये कामतश्चरणं कामतो निवृत्तिरित्यस्मिन्नर्थे यस्त्वात्मरतिरेव स्यादिति श्लोकस्योदाहृतत्वात्कथं परममुक्तासंप्रज्ञातसमाधिस्थविषयत्वम् । न च देवाः परममुक्ताः । नाप्यसंप्रज्ञातसमाधिस्था इति चेन्न ।
ब्रह्मनिष्ठा ब्रह्मरता ब्रह्मज्ञानसुतर्पिताः ।
पाण्डवानां च मुक्तानामन्तरं किञ्चिदेव हि ।
इत्यवतारेऽपि देवानामात्मरतित्वादेर्वक्ष्यमाणत्वेन संप्रज्ञात समाध्यवस्थानां मुक्तप्रायाणामप्येतद्वाक्यविषयत्वोपपत्तौ बाधकाभावात् । पक्षत्रयेऽपि ज्ञानिमात्रविषयत्वाभावस्य विवक्षितत्वादित्यलमेतद्वाक्यार्थप्रपञ्चनेन ।। ज्ञानिनां कर्माभावोक्तोरिति ।। कर्मसद्भावे तेनापि मोक्षस्य लाभात् । ‘‘ज्ञानयोगेन साङ्ख्यानां निष्ठे’’ति विभज्य कथनायोग इति भावः ।। मुक्तविषयत्वमिति ।। परममुक्तविषयत्वमित्यर्थः ।। ज्ञानेनैवेति ।। यद्युक्तसांख्यपदोक्ता ज्ञानिनो मुक्ता विवक्षितास्तर्हि मुक्तानां मुक्तिरित्यापन्नमिति भावः । यतिविषयत्वादित्युपलक्षणं देवविषयत्वादित्यपि ग्राह्यम् । साङ्ख्या ज्ञानप्रधानत्वाद्देवाश्च ऋषयस्तथेति वक्ष्यमाणत्वात् । तेषां यतीनां उपलक्षणमेतत् । देवानां स्वसमानाधिकरणज्ञानकर्मणोः ज्ञानप्राचुर्येण कर्मणामल्पत्वाभिप्रायेणेत्यपि द्रष्टव्यम् । अत्र देवानां मुखतोऽनुपादानं तु त्यागिनो यतयोऽपि स्युः संकोचाद्बाह्यकर्मणामित्यनुपदमुदाहरिष्यमाण प्रमाणानुसारेणेति बोध्यम् ।।
भावदीपः
यद्विष्णोरिति ।। ‘न त्वत्समोऽस्ति’ इत्याद्युदाहृत्योक्तमित्यर्थः । मी•हुषोऽभिलषितसेचकस्य । एषस्य आ समन्तादीशस्य । वयाः बन्धकः । प्रभरणे पूजायाम् । रुद्रियं, रुद्रशब्दाद्घः, रौद्रम् । विदे विविदे, विद्लृ लाभे, लेभ इत्यर्थः । यथा तथेति शेषोक्तिः ।। यासिष्टमिति श्रवणाद्युवामित्यर्थः । इरावत् अन्नवत् । वर्तिः वर्तनम् । वृतेरिकारप्रत्ययो भावार्थ इति भावः । यासिष्टम् अयासिष्टम् । अडभावश्छान्दसः । प्राप्तौ स्थ इत्यर्थः । कथं समचिन्तयदित्यतः स्वयमाह एते वक्ष्यमाणा जायन्तामितीति । श्रौतपदार्थमाह ।। सत्यं मुख्यमिति, ततो विष्णुत इति च ।। मात्रया मात्रायाः मितेः । तन्वा वृधान मूर्त्यैव पूर्णोऽसि । अन्ये इति शेषोक्तिः । अन्वश्नुवन्ति, अशू व्याप्तौ, प्राप्नुवन्ति ।। यदुक्तमिति ।। ‘पश्यन्नपीममात्मानम्’ इत्यादिनोक्तमित्यर्थः ।। पूर्वोत्तरेति ।। ‘स्थितप्रज्ञस्य का भाषा समाधिस्थस्य’ इति श्लोकेऽत्र विवक्षितस्य मुक्तस्य प्रकृतत्वात् । ‘नैव तस्य कृतेनार्थः’ इत्युत्तरवाक्ये मुक्तलिङ्गश्रवणात्तदनुसारेण चेत्यर्थः । भाष्यानुसारादत्र मुक्तशब्दः समाधिस्थपर इत्याह ।। अत्र सर्वथेति ।। ‘समाधिस्थोऽपि’ इत्यपिपदादर्थद्वयपरः श्लोक इत्येके । ‘ज्ञानयोगेन साङ्ख्यानाम्’ इत्यस्य तात्पर्यमाह ।। ज्ञानेनैवेति ।।
भावप्रकाशः
यद्विष्णोः ब्रह्मरुद्रादिसर्वोत्तमत्वमिति । तदधीनत्वात्सर्वस्येत्यनेनेत्यर्थः । मीढुष इत्यस्यार्थमाह । अभिलषितसेचकस्येति । मिह सेचने इति धातुव्याख्यानादिति भावः । एषस्येत्यत्र आ ईशस्येति पदविभागेनार्थमाह ।। आसमन्तादीशस्येति । प्रभृते इत्यस्य प्रतिपदं प्रभरण इति । पूजायामित्यर्थः । वया इत्यस्यार्थमाह । बन्धक इति । वयबन्धन इति धातोः । श्रुतौ विदे इत्यस्य विविदे विवेद इति द्रष्टव्यमित्यभिप्रेत्यार्थमाह । लेभ इति । इरावदित्यस्यार्थोऽन्नवदिति । वर्तिरित्यस्यार्थो वर्त्तनमिति ।। यासिष्टमित्यस्यार्थो अयासिष्टमिति प्रतिपदं द्रष्टव्यमित्यभिप्रेत्य तदर्थमाह । प्राप्तौ स्थ इति । मुनिरित्यस्य ज्ञानीत्यर्थकत्वे समचिन्तयदिति पुनरुक्तिः स्यादत आह । मुनिर्मौनीति । वाङ्नियमनवानित्यर्थः । विश्वशब्दस्य प्रपञ्चार्थकत्वे पुल्लिङ्गत्वं हिरण्यगर्भत्वादीनां पृथग्गृहणत्वं च न स्यादित्यभिप्रेत्याह । विश्वोवायुरिति । इदमिति प्रथमा षष्ठर्थे । सप्तसु प्रथमेति सूत्रात् इत्यभिप्रेत्याह । इदमग्रे अस्याग्र इति । सर्वस्मादुत्कर्ष उत्तमत्वं सर्वोत्कर्षः । देवानां देवः स्तुत्योदेवदेवः । सर्वागमानां महातात्पर्यमिति सम्बन्धः । अन्यत्र धर्मादौतु महातात्पर्यं नैव । किं तर्हि तदन्यत् तदन्यत्र ।
आगमैकदेशस्यावान्तरं विष्णोः सर्वोक्तर्षप्रतिपादनार्थत्वादमुख्यं तत्परत्वम् । यतः सर्वागमसाध्यः पुरुषार्थोत्तमो मोक्षस्ततः विष्णोः सर्वोत्कर्षज्ञानादेव भवति । अतः कारणादुक्तमेतत्सत्यमित्यन्यत्र सर्वोत्कर्ष इति श्रुतेर्व्याख्यातत्वात् । अत्र प्रकृतोपयोगं दर्शयति । सर्वोत्कर्ष इति श्रुतिरिति ।
नैवचान्यत्र इत्यत्र महातात्पर्यमित्यस्यानुवृत्तिमभिप्रेत्य विष्णुतत्वनिर्णयटीकायां व्याख्यातं अत्र बुध्याविवेकेन तात्पर्यमित्यस्यानुवृत्तिमभिप्रेत्य अन्यत्र तात्पर्याभावे तदसिद्धिः स्यादित्याशङ्कापरिहारकत्वेन सत्यमित्येतद्व्याचष्टे । सत्यं मुख्यमिति । तत्रावान्तरप्राधान्यविवक्षया तत इत्येतत् सर्वोत्कर्षज्ञानादिति व्याख्यायात्र धर्मिप्राधान्यविविक्षया व्याचष्टे । ततो विष्णुत इति । अत्रोत्तरार्धात् । विष्णो त्वमिति पदद्व्यमनुवर्तत इत्यभिप्रेत्य आह । विष्णोत्वमिति । मात्रयेति तृतीयाया पञ्चम्यर्थत्वमभिप्रेत्य तदर्थमाह । मितेरिति । वृधानेत्यस्यार्थो मूर्त्यैव पूर्णोऽसीति ।। कीर्त्यादीत्यादिपदेन प्रकाशग्रहणम् । महित्वमित्यस्यार्थो महिमानमिति ।। नान्वश्नुवन्तीत्यस्यार्थो नान्ये प्राप्नुवन्तीति । अन्ये सर्वथा न प्राप्नुवन्तीत्यर्थः । अनुदात्तेतोऽश्नोतेर्व्यत्यनेन परस्मैपदस्य निषेधातिशयार्थत्वादिति भावः ।
यदुक्तं ज्ञानिनापीति । पश्यन्नपि ममात्मानमित्यनेनेत्यर्थः । पूर्वोत्तरावाक्यानुसारेण चेति । नियतं कुरु कर्मत्वं, तस्मादशक्तः सततं कार्यं कर्म समाचरेति पूर्वोत्तरवाक्ययोः ज्ञानिनोऽप्यर्जुनस्य कर्मकर्तव्यता प्रतीतेरस्य ज्ञानिमात्रविषयत्वाभावप्रतीतेरित्यर्थः । नन्वस्य मुक्तविषयत्वाङ्गीकारे आत्मरतिरेवेत्यवधारणादसंप्रज्ञातसमाधिस्थस्यैव कार्यं न विद्यत इति भाष्यविरोध इत्यत आह । अत्र सर्वथेति । असंप्रज्ञातसमाधिस्थ तस्यैवेत्यवधारणस्य न ज्ञानिमात्रस्येत्यर्थकत्वमिति भावः । ज्ञानेनैव ज्ञानिनां मुक्तिरिक्तयुक्तेरिति । मुक्तानां च पुनर्मुक्त्यनुपपत्तेरित्यर्थः ।। साङ्ख्या ज्ञानप्रधानत्वाद्देवाश्च ऋषयस्तथा । इत्युदाहरिष्यमाणप्रमाणानुसारेणाह । अस्य यतिविषयत्वादिति ।
वाक्यविवेकः
आङ्पूर्वात् ऐश्वर्यवाचिन ईशधातोः कप्रत्यये शकारस्य छान्दसे षत्वे आद्गुणे एषस्येति रूपमिति भावेन एषस्येति पदं व्याचष्टे । आसमन्तादीशस्येति । इदमग्र इति । एतेन समस्तं पदमित्यभिप्रेत्य तत्पदमनूद्य विग्रहमाह ।। इदमग्र इति । एतेन प्रथमान्तेदंशब्दस्य षष्ट्यन्तेदंशब्दार्थकत्वप्रदर्शन इदमित्येतावन्मात्रानुवादस्य कर्त्तव्यत्वे अनुवादे व्याख्याने च अग्र इति पदं व्यर्थमिति परास्तम् । ज्ञानेनैव ज्ञानिनां मुक्तिरित्युक्तेरिति ।। ज्ञानकर्मसमुच्चयस्य मोक्षहेतुत्वनिरासार्थं ज्ञानेनैवेत्येवकारप्रयोगः । तेषामपीति । गृहस्थादिबाह्यकर्मापेक्षया यतीनां बाह्यकर्मणां अल्पत्वात् तद्विविक्षामाश्रित्य ज्ञानेनैव मोक्षमाहेति भावः ।। एतेन श्रवणाद्यर्थं बाह्यकर्मसङ्कोचस्य सर्वैः कर्तव्यत्वात् यतीनामेव बाह्यकर्मसंकोच इति कथनमयुक्तमिति दूषणं परिहृतम् ।। एतद्वाक्यस्येति । ज्ञानयोगेन साङ्ख्यानामिति वाक्यस्य बाह्यकर्मसङ्कोचार्थकत्वं कुत इत्यर्थः । समाख्यानादित्याहेति ।। सामाख्यानात् अस्य श्लोकस्योक्त एवार्थ इत्यभिप्रायं निधाय समाख्यावचनं आहेत्यर्थः ।