गीता

अव्यक्तासक्तचेतसां क्लेशोऽधिकः

गीता

संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।

ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ।। ४ ।।

क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।

अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ।। ५ ।।

ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।

अनन्येनैव योगेन मां ध्यायन्त उपासते ।। ६ ।।

तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।

भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ।। ७ ।।

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।

निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ।। ८ ।।

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।

अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ।। ९ ।।

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।

मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ।। १० ।।

अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ।

सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ।। ११ ।।

श्रेयो हि ज्ञानमभ्यासात् ज्ञानाद्ध्यानं विशिष्यते ।

ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ।। १२ ।।

ओष्टा सर्वभूतानां मैत्रः करुण एव च ।

निर्ममो निरहंकारः समदुःखसुखः क्षमी ।। १३ ।।

संतुष्टः सततं योगी यतात्मा दृढनिश्चयः ।

मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ।। १४ ।।

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।

हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ।। १५ ।।

तात्पर्यम्

विष्णोरन्यन्न स्मरेद् यो विना तत्परिवारताम् ।

तदधीनतां वाऽनन्ययोगी स परिकीर्तितः’ इति च ।

अन्तवत्तु फलं तेषाम्’ इत्यादिनाऽन्यदेवोपासनायाः पूर्वमेव निन्दितत्वात् लक्ष्म्यास्त्वतिसामीप्याद् विशेषमाशङ्क्य तदुपासनाविषय एव प्रश्नः कृतः ।

वैष्णवान्येव कर्माणि यः करोति सदा नरः ।

जपार्चामार्जनादीनि स्वाश्रमोक्तानि यानि च ।

स तत्कर्मेति विज्ञेयो योऽन्यदेवादिपूजनम् ।

कृत्वा हरावर्पयति स तु तद्योगमात्रवान् ।

तत्र पूर्वोविशिष्टः स्यादादिमध्यान्ततः स्मृतेः ।

अवान्तरे च नियमाद् विष्णोस्तद्दासताऽस्य यत् ।

मनसा वर्ततेऽन्योऽपि यथाशक्ति हरिस्मृतेः ।

पूर्वोक्तयोग्यो भवति यदि नित्यं तदिच्छति ।

असम्यग्ज्ञानिनो ध्यानाज्ज्ञानमेव विशिष्यते ।

ज्ञात्वा ध्यानं ततस्तस्मात् तत् फलेच्छाविवर्जितम् ।

तस्माज्ज्ञानाद् भवेन्मुक्तिस्त्यागध्यानयुतात् स्फुटम्’

इति च । शान्तिर्मुक्तिः ।। ४१५ ।।

प्रकाशिका

श्रीसहितत्वेन विष्णूपासकाः साधकतमाश्चेत् अनन्येनैव योगेन मां ध्यायन्त इत्यत्रानन्ययोगपदं कथं घटत इत्यत आह ।। विष्णोरन्यदिति ।। ‘‘ये चाप्यक्षरमव्यक्त’’मित्यनेन श्रीदेव्युपास्तिवत् देवतान्तरोपासनस्य मोक्षसाधनत्वं कस्मान्नाशङ्क्यते इत्यत आह ।। अन्तवत्वमिति ।। अव्यक्तदेवतोपसकाद्विष्णूपासकस्याधिक्यं वचनान्तरेण दर्शयन् ‘‘ये तु सर्वाणि कर्माणी’’त्यस्यार्थमाह ।। वैष्णवानीत्यादिना ।। असम्यग्ज्ञानिनः इत्यादिना ‘‘श्रेयो हि ज्ञान’’ इत्यादेरर्थ उच्यते ।। ४१५ ।।

न्यायदीपिका

ननु ये तु सर्वाणीत्यत्र अनन्ययोगेन भगवदुपासनस्योत्तमत्वमुच्यते । अतः कथं श्रिया सहितभगवदुपासनस्याधिक्यकथनपरतयैतद्व्याख्यायत इत्याशङ्कां प्रमाणवाक्येनैव परिहरति ।। विष्णोरिति ।। नात्रानन्ययोगपदेनान्योपासनसम्बन्धो निषिध्यते । किंत्वन्यस्य भगवदधीनत्वं तत्परिवारत्वं विनोपासनमतो युक्तं प्राचीनव्याख्यानमिति भावः । ननु यदि भगवदुपासकानामिवाव्यक्तोपासकानामपि मोक्षश्रवणात्तदुपासनविषये किमुत्तममिति प्रश्नः क्रियते तर्हि ज्ञात्वा शिवं शान्तिमत्यन्तमेति, हरिं हरं विरिञ्चं च ज्ञात्वा मुच्येत संसृतेरित्यन्यदेवतोपासनस्यापि मोक्षहेतुत्वश्रवणात्तद्विषयेऽपि किमिति प्रश्नो न क्रियत इत्याशङ्कां सिंहावलोकनन्यायेन परिहरति ।। अन्तवदिति ।। अन्यदेवतोपासनाया मोक्षसाधनत्वस्य पूर्वमेव निषिद्धत्वेन श्रुत्यादौ तदुक्तावपि तस्यान्यार्थत्वं कल्पयित्वाऽव्यक्तोपासनविषय एव प्रश्नः कृतो नान्यदेवतोपासनविषय इति भावः । तर्हि सामान्यतो भगवदन्योपासनस्य मोक्षसाधनत्वस्य पूर्वमेव निषिद्धत्वेनाव्यक्तोपासनस्यापि तदभावप्राप्तेस्तद्वचनानामप्यर्थान्तरमकल्पयित्वा किमिति तद्विषये प्रश्नः क्रियत इत्यत उक्तम् ।। लक्ष्म्या इति ।। सामान्यतो भगवदन्योपासनस्य मोक्षसाधनत्वनिषेधेऽपि लक्ष्म्याः भगवदतिप्रियत्वेनान्येभ्यो विशेषसद्भावात्तदुपासनस्य मोक्षसाधनत्वसम्भवेन निषेधस्य तदतिरिक्तोपासनविषयत्वं कल्पयित्वाऽर्जुनेनान्योपासनविषयप्रश्नमकृत्वाऽप्यव्यक्तोपासनविषय एव प्रश्नः कृत इति भावः ।

मदुपासनस्याधिकत्वात्तदेव कुरु । तदलाभे मां जानीहि । तदभावे चाभ्यासयोगेन मां जानीहि । तदभावे च मत्कर्मपरो भव । तदशक्तौ च मद्योगमाश्रितः कर्मफलत्यागं कुर्वित्युच्यते ।। मयीति ।। तत्र मत्कर्मकृत्त्वमेव मद्योगोऽतः कथमेतदित्यतः स्मृत्यैव व्याचष्टे ।। वैष्णवानीति ।। सर्वकर्माणि वैष्णवानि करोतीति योजना । विष्णुविषयतया करोतीत्यर्थः । अर्चामार्जनं प्रतिमास्नापनम् । आदिपदेन ध्यानं च ग्राह्यम् । तद्योगमात्रवान् तत्कर्मत्वोपायमात्रवान् । अनेन मद्योगमिति मत्कर्मत्वयोगमिति व्याख्यातम् । यदि भगवत्कर्मत्वं कामयते तर्ह्येव तद्योगो भवति । न तु काम्येनान्योपासनादिनेत्यर्थः । अनेन सर्वकर्मेत्युक्तार्थं भवति । भगवदुपासनेऽपि तारतम्यमाह ।। असम्यगिति ।।

ध्यानालाभे ज्ञानं, तदलाभेऽभ्यास इत्येतत्समर्थ्यते ।। श्रेयो हीति ।। तदनेन व्याख्यातं भवति । ज्ञानपूर्वध्यानेऽपि सकामान्निष्काममेवाधिकमित्याह ।। तस्मादिति ।। तत्र हेतुमाह ।। तस्मादिति ।। अनेन ध्यानादित्येतद्व्याख्यातं भवति । नन्वत्र त्यागाच्छान्तिः फलमुच्यतेऽतः कथमुच्यते तस्मान्मुक्तिरित्यत आह ।। शान्तिरिति ।। नन्वत्र कर्मफलत्यागमात्रस्यैव ध्यानाधिक्यमुच्यत इति किं नेष्यते । ज्ञानपूर्वं ध्यानसाहित्यं किमुच्यत इत्यतो वाऽऽह ।। शान्तिरिति ।। अत्र त्यागस्य शान्तिपदोदितमुक्तिहेतुत्वमुच्यते । न च तत्केवलत्यागग्रहणे युक्तम् । संन्यासस्तु महाबाहो दुःखमाप्तुमयोगत इत्युक्तत्वात् । ज्ञानपूर्वकध्यानसहितत्यागस्य तत्सम्भवात्स एवात्र विवक्षित इति भावः ।। ४१५ ।।

किरणावली

लक्ष्म्याःभगवदतिप्रियत्वेनान्येभ्यो विशेषसद्भावादिति ।। लक्ष्म्याः भगवदतिप्रियत्वेन प्रकारेणोपासितायास्तस्या भगवदतिप्रियत्वेन निमित्तेन भगवदुपासनमच्छिद्रं दत्वा तदपरोक्षं संपाद्य मुक्तिप्रदानसामर्थ्यसद्भावादिति भावः । पूर्वसङ्गतिं दर्शयन्मय्येवेत्यादिश्लोकचतुष्टयार्थं सङ्ग्रहेणानुवदति ।। मदुपासनस्येत्यादिना ।। श्लोकचतुष्टयस्य प्रतीकग्रहणं मयीति ।। मत्कर्मकृत्त्वमेव मद्योग इति ।। योगशब्दस्य योगे त्विमां ृण्वित्यादौ कर्मयोगपरत्वेन व्याख्यातत्वादिति भावः । वैष्णवान्येवेत्यत्र यो नरो जपार्चामार्जनादीनि वैष्णवान्येव कर्माणि करोति यानि च स्वाश्रमोचितानि तान्यपि करोतीति स्वाश्रमोचितानामवैष्णवत्वं प्रतीयतेऽतः सर्वपदसंयोजनेन व्याचष्टे ।। सर्वकर्माणीति ।। एतेन यो नरः जपार्चामार्जनादीनि स्वाश्रमोचितानि च यानि तानि सर्वाणि कर्माणि सदा वैष्णवान्येव विष्ण्वर्पितान्येव करोति स तत्कर्मेति योजनोक्ता भवति । अर्च्यत इत्यर्चा प्रतिमा तस्या मार्जनं स्नपनं प्रतिष्ठेति यावदित्यर्थमभिप्रेत्य व्याचष्टे ।। अर्चेति ।। अर्चापूजामार्जनं संध्यामार्जनमित्यर्थोक्तौ सन्ध्यामार्जनस्य स्वाश्रमोक्तानीत्यनेन पौनरुक्तयमिति भावः । तद्योगमात्रवानित्यत्र तच्छब्देन स तत्कर्मेति विज्ञेय इति । (स्वस्य) यद्विष्णुविषयककर्मकर्तृत्वमुक्तं तत्परामृश्यते । योगशब्द उपायपर इति भावेन व्याचष्टे ।। तत्कर्मत्वोपायमात्रवानिति ।। अनेनेति ।। मदित्यनेन मत्कर्मत्वं लभ्यत इति भावः ।

मात्रवानिति मात्रपदेन नायं यत्कर्मैव येन पुनरुक्तिः स्यादिति सूचयति । तत्र पूर्वो विशिष्टः स्यादित्यादेर्मूलस्य तत्र तत्कर्मकर्तृतद्योगकर्त्रोर्मध्ये पूर्वतनो विशिष्टः । आदिमध्यान्ततः आदौ कर्मारम्भे संकल्पदशायां कर्मकरणस्य मध्यकाले अन्ततः समाप्तिकाले समर्पणदशायामिति यावत् । अवान्तरे च काले प्रतिक्रियमिति यावत् । नियमात्कर्मकरणकाले यो नियमो विहितः तमनतिक्रम्य विष्णोर्नियमेन स्मृतेर्निमित्तादस्य कर्मकर्तुर्यद्यस्मात्तद्दासतामनसाऽनुसंहिता वर्तते । तस्माद्विशिष्टः अन्योऽपि तद्योगमात्रवानपि यथाशक्ति हरिस्मृतेरन्ते समर्पणदशायां यथाशक्तिहरिस्मृतेः । पूर्वोक्ततत्कर्मत्वयोग्यो भवतीत्यर्थं सिद्धवत्कृत्य यदि नित्यं तदिच्छतीत्यंशं दुर्गमार्थत्वादनुवृत्त्या व्याचष्टे ।। यदि भगवत्कर्मत्वमिति ।। यर्ह्यन्यदेवतापूजनं कृत्वाऽन्ते हर्यर्पणरूपं तद्योगफलतया भगवत्कर्मत्वं कामयते तर्ह्येव पूर्वोक्तभगवत्कर्मत्वयोग्यो भवति । न तु विषयकामेनान्योपासनपूजाभ्यमित्यर्थ इत्यर्थः ।।

अनेनेति ।। अथ यद्येतन्मत्कर्मापि कर्तुमशक्तोऽसि तर्हि मद्योगं मत्कर्मत्वोपायमन्ते हर्यर्पणसहितमन्यदेवतोपासनमास्थितो भव । तस्य तदुपायत्वं च विषयकामनात्यागपूर्वकं तादर्थ्येनानुष्ठितस्यैवेति भावेनोक्तम् । (गीतायामिति द्रष्टव्यम्) सर्वकर्मेति । ततः तदर्थं भगवत्कर्मत्वसिद्ध्यर्थम् । यतात्मवानुद्यतचित्तः तत्कामनावानिति यावत् । यतात्मवान्विषये निगृहीतचित्तः सर्वाणि यानि कर्मफलान्यैहिकामुष्मिकरूपाणि तत्त्यागं कुरु । तत्कामनां त्यजेत्यर्थ उक्तो भवतीत्यर्थः ।। इत्येतत्समर्थ्यत इति ।। अभ्यासात् ज्ञानस्य तस्माध्द्यानस्योत्तमत्ववर्णनेन फलफलिभावस्य द्योतनात् फलाभावदशायां तदर्थं साधनस्यानुष्ठेयत्वं समर्थ्यत इति भावः ।। तदनेनेति ।। नन्वभ्यासात् ध्यानाभ्यासाज्ज्ञानं श्रेय इत्ययुक्तं ज्ञानस्य ध्यानं प्रति साधनत्वात् । ज्ञानाध्द्यानमिति चायुक्तं परस्परमुत्तमाधमभावस्यायुक्तत्वादित्याशङ्क्यासम्यगित्यादिप्रवृत्तम् । तत्वासम्यक् ज्ञानिनो ध्यानादेव ज्ञानं विशिष्यत इत्यनेन श्रेयोऽहि ज्ञानमभ्यासादिति व्याख्यातम् । ज्ञात्वा ध्यानं ततोध्यानमात्राद्विशिष्यत इत्यनेन ज्ञानाद्ध्यानं विशिष्यत इत्येतद्व्याख्यातं भवतीत्यर्थः । तस्मात्तत्फलेच्छाविवर्जितमित्युक्तिमहिम्ना तस्मात्सकामाध्द्यानात्फलेच्छाविवर्जितं ज्ञात्वा ध्यानं विशिष्यत इत्यर्थो लभ्यते ।। तत्र हेतुमिति ।। सकामध्यानान्निष्कामध्यानस्याधिकत्वे फलाधिक्यरूपं हेतुमित्यर्थः । तस्माज्ज्ञानाद्भवेन्मुक्तिरिति मूलस्य त्यागध्यानयुतात्तस्मात्पूर्वोक्तज्ञानादुत्पन्नात्स्फुटं ज्ञानादपरोक्षज्ञानान्मुक्तिर्भवेदित्यर्थः ।। अनेन ध्यानादित्येतदिति ।। अनेन तत्फलेच्छाविवर्जितमित्यादिना ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरिति वाक्यं ज्ञानपूर्वकत्वेऽपि सकामाद्ध्यानात्कर्मफलत्यागः । कर्मफलशब्देन तदिच्छा लभ्यते (तया सङ्गो सम्बन्धः) तत्त्यागस्तत्सहितज्ञानपूर्वकध्यानाङ्गभूतात्त्यागात्त्यागध्यानयुतज्ञानादिति यावत् । अनन्तरमनन्तरभाव्यपरोक्षज्ञानाच्छान्तिरिति व्याख्यातं भवतीत्यर्थः ।। संन्यासस्त्विति ।। त्यागस्त्वित्यर्थः । अयोगतः ज्ञानपूर्वकध्यानयोगहीनादिति पञ्चमाध्याय उक्तत्वादित्यर्थः

।। ४१५ ।।

भावदीपः

प्रागुक्तेति ।। मत्कर्मकृदित्यादिनोक्तेत्यर्थः । अनेन पूर्वानन्तर्यमप्यस्याध्यायस्य सूचितं भवति ।। सन्दिह्येत्यनन्तरं कृत इति योज्यम् । तेन ल्यबन्तोपपत्तिः । द्वितीयश्रिये इत्यस्यार्थः ।। तदर्थमेवेति ।। श्रीदेवीसमाराधनार्थमेवेत्यर्थः । श्रियं जरितृभ्य इत्यस्यार्थः ।। श्रियं उपदेष्ट्रभ्य इति ।। श्रियं प्रति वसानाः वसन्त इति वा तामाच्छाद्य स्थिता इति वाऽर्थ इत्युपेत्य फलितमाह ।। उपासीना इति ।। यान्तीति लकारव्यत्ययेनार्थोक्तिः । पद्मनाभतीर्थीये तु श्रियं संपदं वय आयुश्च जरितृभ्यः श्रीदेवी दधाति ददाति । मितद्रौ मिथुने दंपत्योः श्रियमुपासीनयोः समिधा समीहितानि सत्यानि भवन्तीत्यर्थ उक्तः । भाष्यटीकायां तु मितद्रावित्यस्य समुद्रे क्षीराब्धावित्युक्तम् ।। किमर्थं क्रियत इति ।। प्रश्न इत्यनुषङ्गः ।। एतेनेति ।। अव्यक्तस्य चित्प्रकृतित्वसमर्थनेनेत्यर्थः । अन्वयमुखेनानुवदति ।। इत्यादि श्रुतिभ्योऽव्यक्तोपासनादिति ।। ननु पूर्वोत्तरार्धयोः कृष्णोपासक(पर)ब्रह्मोपासकविषयतया भेदेनार्जुन प्रश्नोऽयुक्त इति भावेनाक्षिपति ।। कुतोऽनुपपन्न इति ।। सहेतुकमिति ।। क्लेशाभावरूपहेतुसहितमित्यर्थः । व्यक्तमेतदग्रे सुष्ट्वाचारादेरन्येपीत्यादिना ।। केवलशाक्तेयानामितीति ।। भगवद्भक्त्यादिहीन श्रीदेवीमात्रोपासकानामित्यर्थः ।। उक्तप्रकारेण पर्युपासनमिति ।। हरितत्ववित् तद्भक्तस्तमुपास्यैव श्रियं ध्यायीतेत्युक्तप्रकारेणेत्यर्थः ।। औन्येऽपीति ।। ऊनत्वेऽपीत्यर्थः ।। इतश्चेति ।। भगवदुपास्तिरूपमुक्तिमार्गस्य मोक्षफलकत्वे श्रीदेव्युपास्तिमार्गस्येव विलम्बाभावहेतुतश्चेत्यर्थः ।। हेतुद्वयेनेति ।। ओशत्वाचिरत्वरूपहेतुद्वयेनेत्यर्थः । हेत्वर्थकेतिशब्दानन्तरं शेषमाह ।। तेषामित्यादि ।। न केवलमक्लेशादिकमिति चार्थः ।। पूर्वमेवेति ।। सप्तमे अन्तवत्तु फलं तेषामित्यादिना निषिद्धत्वेनेत्यर्थः ।। श्लोकचतुष्टयार्थं संग्रहेणानुवदति ।। मदुपासनस्येत्यादिना ।। श्लोकचतुष्टयस्य प्रतीकग्रहणम् । मयीतीति ।। तद्योगो भवतीति ।। वैष्णवतया सर्वकर्मकरणयोग्यो भवतीत्यर्थः ।। तदनेनेति ।। श्रेयो हीत्यादिकमसम्यगिति स्मृत्युदाहरणेन व्याख्यातमित्यर्थः ।। सन्यासस्त्विति ।। त्यागस्त्वित्यर्थः ।। अयोगतः ।। कर्मानुष्ठानहीनात् ।। इत्युक्तत्वादिति ।। पञ्चमेऽध्याये ।। प्रपञ्च्यत इति ।। तत्रोक्तधर्मेभ्यो धर्मान्तरकथनेनेति योज्यम् ।। ४१५ ।।

भावप्रकाशः

एतद्व्याख्यायत इति । ते हीत्येतद्विष्णुना सहितेत्यनेन व्याख्यायत इत्यर्थः ।। भगवदतिप्रियत्वेनेति । तथा च भगवतो व्याप्तत्वेन तदतिसामीप्यस्य सर्वसाधारणत्वाल्लक्ष्म्याः को विशेष इति चोद्यानवकाश इति भावः । मय्येवेत्यादिश्लोकचतुष्टयस्य सङ्गतिमाह । मदुपासनस्याधिकत्वादिति । जपार्चामार्जनादीनि वैष्णवान्येव कर्माणि करोतीत्युक्तवा स्वाश्रमोक्तानीत्यवैष्णवान्युच्यन्त इत्यन्यथाप्रतीतिनिरासाय सर्वपदाध्याहारेण योजयति । सर्वकर्माणीति । स्वतो वैष्णवान्येव वैष्णवत्वानुसन्धानं विना करोतीत्यन्यथाप्रतीतिनिरासाय व्याचष्टे ।। विष्णुविषयतयेति । अर्चाशब्दस्यार्चनमर्चेति पूजावाचकत्वे मार्जनपदोदितस्नापनस्यापि पूजात्वात् पृथग्ग्रहणमयुक्तं स्यादित्यतः अर्च्यतेऽत्रेत्यर्चेति व्युत्पत्या प्रतिमापरत्वमङ्गीकृत्याह । प्रतिमास्नापनमिति । मूलेऽवान्तरे च नियमादिति । आदिमध्यान्तानामवान्तरे मध्ये प्रतिकर्मव्यक्तादिति (?) यावत् । नियमात् नियमेन विष्णोः स्मृतेरित्यर्थः ।। मनसा तद्दासता वर्तत इत्यस्य तद्दासत्वानुसन्धानमस्तीत्यर्थः ।। यदि नित्यमित्येतत् व्याचष्टे । यदि भगवत्कर्मत्वमिति ।। ४१५ ।।

वाक्यविवेक— एतद्व्याख्यायत इति । येतु सर्वाणि इत्येतत् गीतावाक्यं तथापीत्यादिना व्याख्यायत इत्यर्थः ।। प्रश्नः कृत इति भाव इति ।।

इतः परं टीकाभेदेन वाक्यानि भिद्यते । तथाहि अव्यक्तोपासकात् विष्णुपासकस्याधिक्यं दर्शयन् येतु सर्वाणीत्यस्यार्थमाह । वैष्णवानीति अस्यार्थः सुगमः । टीकान्तरेतु मदुपासनस्य अधिकत्वात् तदेव कुरु तदलाभे मांजानीहि । तदभावेत्वभ्यासयोगेन मां जानीहि । तदभावे मत्कर्मपरमो भव । तदशक्तौ च मद्योगमाश्रितः कर्मफलत्यागं कुर्वित्युच्यते मयीति । तत्र मत्कर्मत्वमेव मद्योगः अतः कथमेतदित्यतः स्मृत्यैव व्याचष्टे ।। वैष्णवानीतिति पाठः । अस्याप्यर्थः सुगमः । असम्यगितीति । इतः परं टीकाभेदेन वाक्यानि भिद्यन्ते । तथाहि मदुपासनस्याधिकत्वात् तदेव कुरु तदलाभे मांजानीहि तदभावे चाभ्यासयोगेन मांज्ञातुमिच्छेत्युक्तं मयीत्यारभ्य धनंजयेत्यन्तेन । तत्र ध्यानालाभे ज्ञानं तदलाभे अभ्यास इत्येतत्समर्थ्यते इत्येकटीकापाठः । टीकान्तरेतु ध्यानालाभे ज्ञानं तदलाभे अभ्यास इत्येतत्समर्थ्यत इति पाठः । अर्थः सुगमः ।। ४१५ ।।

इति श्रीमत्सत्यनिधितीर्थश्रीचरणचरणाराधकश्रीसत्यनाथयतिविरचिते

न्यायदीपिकाव्याख्याने वाक्यविवेके द्वादशोऽध्यायः ।।