गीता
गीता
अविनाशि तु तद् विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति ।। १७ ।।
तात्पर्यम्
यद्यपि नित्यत्वं जीवस्याप्यस्ति । तथापि सर्वप्रकारेणाविनाशित्वं विष्णोरेवेति तुशब्दः ।
‘अनित्यत्वं देहहानिर्दुःखप्राप्तिरपूर्णता ।’
नाशश्चतुर्विधः प्रोक्तस्तदभावो हरेः सदा ।
तदन्येषां तु सर्वेषां नाशाः केचिद्भवन्ति हि ।। इति महावाराहे ।
‘देशतः कालतश्चैव गुणतश्च त्रिधा ततिः ।
सा समस्ता हरेरेव नह्यन्ये पूर्णसद्गुणाः ।। इति परमश्रुतिः ।। १७ ।।
प्रकाशिका
यद्यपीत्यादिना ‘अविनाशि तु’ इत्येतं श्लोकं व्याचष्टे ।
न्यायदीपिका
एवं युद्धाकरणे कारणाभावमुक्त्वा यत्कर्तव्यं तच्च भगवत्पूजात्वेन कार्यमिति वक्ष्यति । तत्रोभयोरपिनित्यत्वेनेश्वरस्यातिशयाभावा त्किंतत्पूजयेत्यत्रोक्तमविनाशीति । तत्रापि कस्यचिद विनाशित्वमेवोच्यते जीवादीश्वरस्यातिशयः । तज्ज्ञापकाश्रवणादित्यत आह ।। यद्यपीति ।। इति जीवादीश्वरस्यातिशयं तु शब्दो ज्ञापयतीत्यर्थः । नाशस्यानेकविधत्वं कथं कुतश्चेश्वरस्य तदभाव इत्यत आह ।। अनित्यत्वमिति ।। अनित्यत्वं स्वरूपनाशः । अत्र विष्णुवाचका भावात्कथमुच्यते विष्णोरित्यतोये न सर्वमिदं ततमित्येतदेव तद्वाचकमिति भावेनैतच्छत्यैव व्याचष्टे ।। देशत इति ।। १७ ।।
किरणावली
कारणाभावमुक्त्वेति ।। बान्धवानां नाशप्रयुक्तं दुःखं स्वस्य तददर्शनादिनिमित्तं दुःखं परलोके नारकदुःखं चेति यदर्जुनेन युद्धाकरणे कारणत्वेनाशङ्कितं तदभावमुक्त्वेत्यर्थः । यत्कर्तव्यं तच्च भगवत्पूजात्वेनेति क्वचित्पाठः । तत्कर्तव्यं तच्च भगवत्पूजात्वेनेति क्वचित्पाठः । आद्ये कर्तव्यत्वानुवादेन भगवत्पूजात्वेनानुसन्धानसाहित्यस्य विधिः । द्वितीये तूभयस्य विधिरिति विवेकः । उक्तवेत्यस्य वक्ष्यति इत्यनेन सम्बन्धः । अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारतेत्यत्र तस्मादनाशिनोऽ प्रमेयस्य विष्णोः पूजार्थं युध्यस्वेति वक्ष्यतीत्यर्थः ।। तज्ज्ञापकाश्रवणादिति ।। अतिशयज्ञापकस्येश्वरज्ञापकस्य चाश्रवणादित्यर्थः । इति तुशब्द इत्यत्र इतीत्यतः परं जीवादीश्वरस्यातिशयमित्यध्याहारः । तुशब्द इत्यतः परं ज्ञापयतीत्यध्याहार इति भावेनाह ।। जीवादिति ।। मूले अपूर्णतेत्यतः परमिति शब्दोऽध्याहार्यः ।। श्रुत्यैव व्याचष्ट इति ।। येनेदं सर्वं देशः कालः गुणाश्चेतीदं ततं व्याप्तम् । तत्तु अन्येभ्योऽतिशयेनाविनाशीति व्याचष्ट इत्यर्थः । मूले देशतः कालतश्चैवेत्येवकारस्य एवमित्यर्थः । एवाह्येवैवाहीत्यादिवत् । तस्य गुणतश्चेत्यनन्तरमध्याहृतेनेतिशब्देनान्वयः । यद्वा त्रिधैवेत्यन्वयः ।। १७ ।।
भावदीपः
तत्कर्तव्यमिति ।। तद्युद्धकर्म कर्तव्यम् । पूजात्वेन कार्यमित्यनुपदमेव ‘तस्माद्युध्यस्व’ इत्यत्र वक्ष्यतीति वक्ष्यतिक्रिययोक्त्वेत्यस्यान्वयः ।। उभयोः जीवेश्वरयोः ।।
भावप्रकाशः
कारणाभावमुक्तवेति ।। बन्धूनां नाशप्रयुक्तदुःखं स्वस्य तददर्शनादिदुःखं, परलोके नरकदुखं चेति यदर्जुनेन युद्धाकरणकारणं शङ्कितं तदभावमुक्त्वेत्यर्थः ।। अस्योक्तमत्र विनाशीत्यनेन सम्बन्धः । यत्कर्तव्यं तच्चेति पाठे कर्तव्यत्वानुवादेन भगवत्पूजात्मकत्वानुसन्धानसाहित्यं विधीयत इत्यर्थः । अथ तत्कर्तव्यं तच्चेति पाठे उभयमपि विधीयत इति द्रष्टव्यम् ।। वक्ष्यतीति । अनाशिनोऽप्रमेयस्येत्यनेन सम्बन्धः । इति तुशब्द इति पदद्वयानन्तर क्रमेणाध्याहार्यं दर्शयन्नाह । इति जीवादीश्वरस्येत्यादिना ।। मूले अपूर्णतेत्यनन्तरं इतिशब्दो अध्याहार्यः । देहहानिरित्यनेनैकार्थ्यपरिहाराय अनित्यत्वमिति तद्व्याचष्टे । अनित्यत्वं स्वरूपनाश इति ।
अत्रेति ।। अविनाश इति श्लोक इत्यर्थः ।। देशत इति मूले आद्यैवशब्दस्य त्रिधेत्यनेन सम्बन्धः ।
गुणतश्चेत्यनन्तरं इतिशब्दोऽध्याहार्यः । कथं च तस्य जीवादतिशय इति जीवस्यापि सर्वप्रकारेणाविनाशित्वसम्भवादिति भावः ।। १७ ।।