गीता

गीता

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।

यः प्रयाति त्यजन्देहं स याति परमां गतिम् ।। १३ ।।

अनन्यचेताः सततं यो मां स्मरति नित्यशः ।

तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ।। १४ ।।

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।

नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ।। १५ ।।

तात्पर्यम्

एकाक्षरवाच्यत्वादेकाक्षरं परं ब्रह्म ।। १३१५ ।।

न्यायदीपिका

एकाक्षरं ब्रह्मेत्येतदेकमक्षरं शब्दब्रह्मेति प्रतीतिनिरासाय व्याचष्टे ।। एकेति ।। ओमित्येकमक्षरं वाचकं यस्य तदेकाक्षरमित्यर्थः । ब्रह्मशब्दस्य परब्रह्मण्येव मुख्यत्वान्न प्रतीत एवार्थः ।। १३ ।।

किरणावली

परं ब्रह्मेति सविशेषणब्रह्मपदानुवादे तात्पर्यमाह ।। ब्रह्मशब्दस्येति ।। १३ ।।

वाक्यविवेकः

एकाक्षरं ब्रह्मेत्येतदिति ।। एकाक्षरं ब्रह्म व्याहरत इत्युक्तौ ॐङ्कारस्यैव व्याहरणं कार्यं नतु नारायणादिशब्दस्य व्याहरणं कार्यमिति प्रतीयते । तन्निरासाय ॐकारवाच्यस्य परब्रह्मणो व्याहणं समर्थनीयमिति भावः ।। १३ ।।