गीता

सर्वे मयैव निहतप्रायाः

गीता

द्रोणं च भीष्मं च जयद्रथं च

  कर्णं तथान्यानपि योधवीरान् ।

मया हतांस्त्वं जहि मा व्यथिष्ठा

  युध्यस्व जेतासि रणे सपत्नान् ।। ३४ ।।

संजय उवाच—

एतच्छत्वा वचनं केशवस्य

  कृताञ्जलिर्वेपमानः किरीटी ।

नमस्कृत्वा भूय एवाह कृष्णं

  सगद्गदं भीतभीतः प्रणम्य ।। ३५ ।।

अर्जुन उवाच—

स्थाने हृषीकेश तव प्रकीर्त्या

  जगत्प्रहृष्यत्यनुरज्यते च ।

रक्षांसि भीतानि दिशो द्रवन्ति

  सर्वे नमस्यन्ति च सिद्धसङ्घाः ।। ३६ ।।

कस्माच्च ते न नमेरन्महात्मन्

  गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।।

अनन्त देवेश जगन्निवास

  त्वमक्षरं सदसत्तत्परं यत् ।। ३७ ।।

त्वमादिदेवः पुरुषः पुराण

  स्त्वमस्य विश्वस्य परं निधानम् ।

वेत्तासि वेद्यं च परं च धाम

  त्वया ततं विश्वमनन्तरूप ।। ३८ ।।

तात्पर्यम्

जयद्रथस्य पितुर्वरादेव विशेषः । निहता निहतप्राया । पश्चादर्जुनेऽपि स्थित्वा स एव हनिष्यति ।। ३४३८ ।।

प्रकाशिका—‘‘द्रोणञ्च भीष्मं च जयद्रथं च कर्णं तथाऽन्यानपि योधवीरान् ।

  मया हतांस्त्त्वं जहि मा व्यथिष्ठा’’

इत्यत्र यो जयद्रथशिरः छिन्नं भूमौ पातयति तच्छिरः सहस्रधा भिद्यतामिति स्वपितृदत्तवरविशेषात् जयद्रथस्य द्रोणकर्णभीष्ममध्यगणनं न सामर्थ्यातिशयादित्याह ।। जयद्रथेति ।।३४३८।।

न्यायदीपिका

यतोऽहमेव लोकान्समाहर्तुमिह प्रवृत्तोऽतो वैरिजये सन्देहायोगाद्युध्यस्वेत्युच्यते तस्मादिति ।। तत्र द्रोणं च भीष्मं चेति जयद्रथस्य द्रोणादिवद्विशिष्योक्तिः कथम् । तावत्सामर्थ्याभावादित्यत आह ।। जयद्रथस्येति ।। योऽस्य शिरः छिन्नं भूमौ पातयेत्तच्छिरो भिद्यतामिति पितृदत्तातिबलिष्ठवरादेवास्य विशेषोक्तिर्नतु द्रोणादिवत्सामर्थ्यविशेषादित्यर्थः । ननु जीवन्त एव कथं मयैवैते निहता इत्युच्यते । तथात्वेच कथं जेतासीत्युच्यत इत्यत आह ।। निहता इति ।। निहतप्रायत्वं नामापहृतायुष्ट्वेन सन्निकृष्टमरणत्वम् । यदि साक्षान्ननिहतास्तर्हि हन्ता भवेति वक्तव्यम् । निमित्तमात्रं भवेतिकथमुच्यत इत्यत आह ।। पश्चादिति ।। तस्य स्वातन्त्र्येण हन्तृत्वाभावान्निमित्तमात्रमित्युक्तमिति भावः ।। मृतमारणायोगान्मया हतांस्त्वं जहीति कथमुच्यत इत्यतो वाऽऽह ।। पश्चादिति ।। अर्जुने स्थित्वा तस्यैव (स्वस्यैव) हन्तृत्वान्मया हतेषु त्वमपि हन्तेति व्यवहारविषयो भवेत्येव भगवतोच्यत इति भावः ।। ३४३८ ।।

किरणावली

तावत्सामर्थ्याभावादिति ।। द्रोणादीनां देवत्वेन स्वरूपकृतं यादृशं सामर्थ्यं तादृशसामार्थ्याभावादित्यर्थः । एतेन भाष्ये जयद्रथकर्णयोरुभयोः पृथक्करणे किं निमित्तमिति शङ्कायां जयद्रथस्य पितुर्वरेण कर्णस्य वासवशक्तेः सवरत्वेनेति निमित्तमुक्तमिह जयद्रथमात्रस्य पृथक्करणे निमित्तमुच्यते । न तु कर्णस्य । तत्किं निमित्तमिति चोद्यं निरस्तम् । स्वरूपकृतसामर्थ्यविवक्षायां योधवीरसमुदायात्पृथक्कृत्य भीष्मकर्णयोर्मध्ये जयद्रथस्य कथनमयुक्तं स्वरूपसामर्थ्याभावात् । परिदृश्यमानसामग्रीविवक्षायां द्रोणस्य धनुर्विद्याचार्यत्वेन भीष्मस्य पितृदत्तेन स्वच्छन्दमृत्युत्ववरेण योधवीरसमुदायात्पृथक्कृत्य स्वशब्देन ग्रहणेऽपि जयद्रथकर्णयोः पृथग्गणनमयुक्तम् । परिदृश्यमानसामग्य्रभावादिति विवक्षाद्वयेन शङ्काद्वयी । एका शङ्काऽत्र मूले परिहृताऽन्यातु भाष्य इत्यङ्गीकारात् ।

ननु मूले पितुर्वरादेवेत्ययुक्तम् । जयद्रथस्य शिववरसद्भावादवधारणायोगात् । तदुक्तं महाभारततात्पर्यनिर्णये द्वाविंशेध्याये ।

‘‘जयद्रथस्तु भीमेन तदा पञ्चशिखीकृतः ।

तपसा शिवमाराध्य वव्रे पाण्डवरोधनम् ।।’’ इति ।

पञ्चविंशे च– ‘‘वरेण रुद्रस्य निरुध्यमानो जयद्रथेनात्र वृकोदरस्त्वि’’त्यादिनेत्यत आह ।। पितृदत्तातिबलिष्ठवरादेवेति ।। शिवेन सैन्धवयुद्धे पाण्डवरोधनमात्रं दत्तम् । पित्रा तु योऽस्य शिरःछिन्नमित्युक्तप्रबलो वरो दत्तः । एवशब्दश्चात्र वरस्य प्राबल्यद्योतकः । ‘‘एवशब्दः प्राबल्ये चावधारण’’ इत्यभिधानात् । शब्दादेव प्रमित इत्यादौ प्रयोगाच्चेति भावः । एवशब्दस्यानभिमतव्यावर्तकत्वं चोपेत्याह ।। वरादेवास्य विशेषोक्तिर्नतु द्रोणादिवत्सामर्थ्यविशेषादिति ।। यदि साक्षादिति ।। यदि भगवता प्राणैर्न वियोजिता इत्यर्थः ।। निमित्तमात्रं भवेति कथमिति ।। अन्यस्य प्राणवियोजकस्याभावादिति भावः ।। ३४३८ ।।

भावदीपः

साक्षान्न निहता इति ।। भगवतेति योज्यम् ।। ३४३८ ।।

भावप्रकाशः

तावत्सामर्थ्याभावादिति । उपलक्षणमेतत् ।। द्रोणस्य धनुर्विद्याचार्यत्वेन भीष्मस्य स्वच्छन्दमृत्युत्वेन कर्णस्य इन्द्रदत्तवरशक्तयुपेतत्वेन समस्तयोद्धृभ्यः पृथक्करणं युक्तम् ।। जयद्रथस्य तादृशनिमित्तविशेषाभावेऽपि पृथक्करणं युक्तमित्यपि द्रष्टव्यम् ।। तथा भाष्यं जयद्रथस्य वरं दर्शयति ।। योऽस्य शिरच्छिन्नमिति । तथात्वे च कथमिति । मृतजयायोगादित्यर्थः ।। प्रायेण बहुशो निहताः केचनैवावशिष्टा इत्यन्यथाप्रतीतिनिरासायाह ।। निहतप्रायत्वं नामेति ।। ३४३८ ।।