गीता

गीता

यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।

तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ।। ४६ ।।

तात्पर्यम्

उद्रेकात्पातृराहित्यादनत्वाच्चाखिलस्य च ।

 प्रलयेऽप्युदपानोऽसौ भगवान्हरिरीश्वरः ।

 प्रकृतिर्ह्युदरूपेण सर्वमावृत्य तिष्ठति ।

 प्रलयेऽतो लयं प्राहुः सर्वतः संप्लुतोदकम्’ इति च ।

यावत्प्रयोजनं विष्णोः सकाशात्साधकस्य च ।

 धर्ममोक्षादिकं तावत्सर्ववेदविदो भवेत् ।

 वेदार्थनिर्णयो यस्माद्विष्णोर्ज्ञानं प्रकीर्तितम् ।

 ज्ञानात्प्रसन्नश्च हरिर्यतोऽखिलफलप्रद’ इति च ।

सर्वतः संप्लुतोदकेऽप्युद्रिक्तः पालकवर्जितः । कालाद्यनश्च यो विष्णुस्तस्माद्यावत्फलं तावत्सर्ववेदेषु विशेषज्ञस्यैव भवतीत्यर्थः । सर्वे हि विष्णोरन्ये प्रलयकाले नाद्रिक्ताः । ये चोद्रिक्ता मुक्ता रमा च तेऽपि न पालकवर्जिताः, विष्णुपाल्यत्वात् । न च मुक्ताः कालादि चेष्टकाः । नचोद्रिक्तत्वं तेषां तद्वत् । अत उदपानो विष्णुरेव । प्रलये विशेषतोऽपि ।

आनीदवातं स्वधया तदेकं

 तस्माद्धान्यन्न परः किञ्चनाऽस ।

 तम आसीत्तमसा गू•मग्रे

 प्रकेतं सलिलं सर्वमा इदम्’ ।

आपो वा इदमग्रे सलिल आसीत्

 सलिल एको द्रष्टाऽद्वैतो भवति’ इत्यादि श्रुतिभ्यः ।। ४६ ।।

प्रकाशिका

त्रैगुण्येत्येतद्व्याचष्टे ।। उद्रेकेत्यादिना ।। उक्तप्रकारेण प्रलये विशेषतोऽपि । उदपानो विष्णुरित्येतच्छत्या साधयति ।। आनीदिति ।। अप्रकेतम् अप्रज्ञातमलक्षणमित्यर्थान्तरम् । अत्राप इति प्रकृतिरुच्यते ।। ४६ ।।

न्यायदीपिका

त्रैगुण्यनिवृत्त्यर्थं वेदाश्रयणं कार्यमित्यत्र युक्तिरुच्यते ।। यावानिति ।। तत्रोदपानशब्दं सर्वतः संप्लुतोदकशब्दं च स्मृत्यैव व्याचष्टे ।। उद्रेकादिति ।। सर्वकार्याणां प्रलये लीनत्वात्कथं सर्वतः संप्लुतोदकशब्दार्थतया प्रलयो गृह्यत इत्यत आह ।। प्रकृतिरिति ।। समस्तश्लोकं स्मृत्या व्याचष्टे ।। यावदिति ।। साधकस्य सम्भवतीति शेषः । वेदज्ञानेन कुतो विष्णुः फलं ददातीत्यत आह ।। वेदेति ।। अस्तु वेदार्थज्ञानं नाम विष्णुज्ञानम् । तथापि कुतो भगवान्फलं ददातीत्यत आह ।। ज्ञानादिति ।। वाक्यद्वयसिद्धं श्लोकार्थमेकीकृत्य दर्शयति ।। सर्वत इति ।। नन्वत्र कश्चिदुद्रिक्तत्वादिगुणः श्रूयते । स विष्णुरिति कुतोऽन्योपि किं न स्यादित्यत आह ।। सर्वेहीति ।। मुक्तानां रमायाश्चोद्रिक्तत्वात्कथमुद्रिक्तत्वेन विष्णुत्वनिश्चय इत्यत आह ।। येचेति ।। मुक्तानामुद्रिक्तत्वेपि पालकवर्जितत्वाभावेनोदपानत्वासम्भव इति भावः । मुक्तानामुदपानत्वासम्भवे हेत्वन्तरं चाह ।। नचेति ।। रमायाः सर्वाभिमानित्वेन कालादिचेष्टकत्वादसंग्रहः । किं चोद्रिक्तत्वं तेषामङ्गीकृतमेव न तु मुख्यतोऽस्त्यतो न तेषामुदपानत्वमित्याह ।। नचेति ।। अनेन रमाया अपि चेष्टकत्वमनुमतमेवेति ज्ञायते । उद्रिक्तत्वादेरन्यत्रासम्भवेपि किमित्यत आह ।। अत इति ।। किञ्चोद्रिक्तत्वाद्येवान्यत्र सम्भवति किमुत सर्वतः संप्लुतोदके । अतोप्युदपानो विष्णुरेवेत्याह ।। प्रलय इति ।। मास्त्वन्येषामसम्भवात्सर्वतः संप्लुतोदकेऽप्युदपानत्वं विष्णोरपि तत्सम्भवः कुत इति चेत्परिशेषादिति ब्रूमः । श्रुतिभ्यश्चेत्याह ।। आनीदिति ।। तदेकं ब्रह्म वायुप्रेरणां विना स्वसामर्थ्येनैव कालादिकं प्रेरयतिस्म । तस्मादन्यदुत्तमं वस्तु किञ्चन नास अपि तु तदेवोद्रिक्तमास । अपरं तमः प्रकृतिरस्मिन्सर्वस्मिन्देशेऽविज्ञातं सलिलं भूत्वा आसीत् । तेन सलिलेन प्रलये सर्वं गूढमासीदित्यर्थः । अस्याग्रे सलिले समंतात्पालकवर्जितो भगवानासीदित्यर्थः । औतः सर्वोद्रिक्तः ।। ४६ ।।

किरणावली

सर्वकार्याणामिति ।। भावरूपेति पूरणीयम् ।। समस्तश्लोकमिति ।। विष्णोर्भवत्प्रयोजनं वेदेभ्यो भवतीत्यतो विष्णुर्नापेक्षित इत्यन्यथाप्रतीतेः समस्तश्लोकं स्मृत्या व्याचष्ट इत्यर्थः । मूले साधकस्य धर्ममोक्षादिकं यावत्प्रयोजनं तावत्सर्ववेदविदो विष्णोः सकाशाद्भवतीत्येकान्वयप्रतीतेराह ।। साधकस्य सम्भवतीति शेष इति ।। ततश्चायं मूलार्थः । विष्णोः सकाशात् साधकस्य धर्ममोक्षादिकं यावत् प्रयोजनं सम्भवति प्राप्यतया सम्भावितं भवेत्तावत्सर्ववेदविदस्तु सर्ववेदविद एव भवेदित्यर्थः ।। वाक्यद्वयसिद्धमिति ।। उद्रेकाद्यावत् प्रयोजनमिति वाक्यद्वयसिद्धमित्यर्थः । मूले विजानत इत्यस्यार्थकथनं विशेषज्ञस्यैवेति ।।

रमायाः सर्वाभिमानित्वेन कालादिचेष्टकत्वादिति ।। ननु कालस्य चेष्टानामकेति चेन्न । क्षणादीनां प्रलये परिणामक्रियैव चेष्टेत्यभ्युपगमात् ।। किञ्चोद्रिक्तत्वं तेषामङ्गीकृतमेवेति ।। ईश्वरवदुद्रिक्तत्वं तेषामङ्गीकारवादेनैवोक्तमित्यर्थः ।। ननु मुख्यत इति ।। यथोदंचनकुम्भादेरित्युक्तरीत्याऽऽपेक्षिक गुणोद्रेकेपि निरवधिक पूर्त्यभावात् । विद्यमानोद्रेकस्यापीश्वराधीनत्वेन स्वातन्त्र्येणाभावादिति भावः । नन्वत्र मुख्यत्वविवक्षा क्रियते चेन्मुख्यतः कालादिप्रेरकत्वं लक्ष्म्या अपि नास्तीति न च मुक्ताः कालादिप्रेरका इत्यत्र रमायाः कालादि चेष्टत्वाङ्गीकारोऽनुपपन्न इत्यत आह ।। अनेनेति ।। उद्रिक्तत्वस्यामुख्यत्वकथनेनेत्यर्थः ।। अनुमतमेवेति ।। अङ्गीकारवादत्वेनैवोक्तमिति ज्ञायत इत्यर्थः । यद्वा नच मुक्ताः कालादि चेष्टका इति मुक्तानां सर्वथा कालादि चेष्टकत्वं निषिध्द्योद्रिक्तत्वमात्रं मुख्यं न भवतीति वचनेन रमाया अमुख्यं कालादिचेष्टकत्वं सम्मतमेवेति ज्ञायते । अतो रमाया असङ्ग्रह इति यदुक्तं तदुपपन्नमेवेति भावः । प्रलये विशेषतोपीति मूलस्योदपानो विष्णुरेवेत्यनेनान्वयः । मुक्तानां स्थितिकाले नानाविधविषय व्यंग्यसुखानुभवेनात्युद्रेकेपि प्रलये ज्ञानव्यंग्यनिजानन्दानुभवेन रमाया अपि भूतिकृदेव भूत्या इत्युक्तरीत्या सृष्टौ विभवातिशयात्प्रलये तदभावात् । भगवतस्तु सर्वदैकप्रकारत्वात् प्रलयेऽन्येभ्योपि विशेषतोप्युदपान इति भावः ।। मास्त्विति ।। माशब्दोयं न माङ् । तेन माङ्योगे लुङ एव विहितत्वात् लोट्प्रयोगायोग इति निरस्तम् ।।

परिशेषादिति ।। प्रसक्तानां विष्णुरमादीनां मध्ये रमादीनामुदपानत्वप्रतिषेधे परिशिष्यमाणे विष्णावुदपानत्व प्रतीतिर्भवतीति भावः । तदेकं ब्रह्मावातंवातरहितं तत्सहायरहितं वायुप्रेरणां विनेति यावत् । स्वधया स्वसमामर्थ्येनैवेत्यतत्पितृराहित्ये प्रमाणम् । आनीदचेष्टत कालादि प्रेरणाव्यापारमकरोत् । कालादिकं प्रेरयतीति यावत् । तस्मादन्यत्परः परं गुणैरुद्रिक्तमुत्तमं वस्तु किं चन नास । अतस्तदेवोद्रिक्तमासेति यावत् । परःपरं अन्यदित्यर्थान्तरमभिप्रेत्योक्तमपरमिति । उद्रिक्ताद्विष्णोरन्यत्तमः प्रकृतिश्चित्प्रकृतिः इदमस्मिन् सर्व सर्वस्मिन्देशे अप्रकेतं केतुः केतश्चितिश्चित्तमित्यभिधानात् । प्रकेतं प्रज्ञातमप्रकेतमविज्ञातं सलिलं भूत्वा आःआसीत् । तमसा तमोभिधानेन तेन सलिलेन अग्रे प्रलये सर्वं गूढमासीदिति योज्यम् । आपो वा इदमिति श्रुतिं लेशतो व्याचष्टे ।। अस्येति ।। वाशब्दोऽवधारणे एक इत्यनेनान्वेति । इदमग्रे अस्याग्रे सलिलमासीत् । सलिले आ अप इति पदच्छेदः । आसमन्तादपः पालकवर्जितः द्रष्टा सर्वज्ञो भगवानेक एवासीत् । सचाद्वैतः समाभ्यधिकरहितः । सर्वोद्रिक्तो भवतीत्यर्थः ।। ४६,४७ ।।

भावदीपः

असङ्ग्रह इति ।। न च मुक्ता इति वाक्य इति योज्यम् । पर इति श्रवणादुक्तमपरमिति । सर्वमिदमित्यस्य वचनव्यत्ययेनार्थोक्तिरस्मिन् सर्वस्मिन्निति । अप्रकेतमविज्ञातम् । आः इत्यस्यार्थ आसीदिति । इदमग्र इत्यस्यार्थोऽस्याग्र इति । प्रपञ्चस्याग्र इत्यर्थः । आप इत्यस्यार्थः पालकवर्जित इति । बहुवचनं शब्दस्वाभाव्यात् । अकारदैर्घ्यं छान्दसम् । आङ्पूर्वको वा । प्रकृतानुगुणतयाऽर्थमाह ।। सर्वोद्रिक्त इति ।। सर्वापेक्षयोद्रिक्त इत्यर्थः ।। ४६ ।।

भावप्रकाशः

सर्वकार्याणामिति ।। भावरूपसर्वकार्याणामित्यर्थः । कथं सर्वतः संप्लतोदकशब्दार्थतयेति । प्रलयकालीनोदकस्य कार्यत्वादित्यभिप्रेत्यायमाक्षेप इति भावः । वाक्यद्वयसिद्धमिति ।। उद्रेकात् पातृराहित्यात्, यावत्प्रयोजनं विष्णोरिति वाक्यद्वयसिद्धमित्यर्थः । उद्रिक्तत्वादिति ।। अविनष्टत्वादज्ञानादिमत्वादित्यर्थः ।। ननु ये चोद्रिक्ता मुक्ता रमा चेतिवन्न च मुक्ता रमा च कालादिचेष्टका इति कुतो नोक्तमित्यत आह । रमायाः सर्वाभिमानित्वेनेति । मुक्तब्रह्मादीनां जगद्व्यापारवर्जमित्युक्त्वेन कालादिचेष्टकत्वाभावात्सङ्ग्रह इति भावः । उद्रिक्तत्वं तेषामङ्गीकृतमेवेति ।। अङ्गीकारवादेनोक्तमित्यर्थः । न तु मुख्यत इति । स्वातन्त्र्येण नास्तीत्यर्थः ।

नन्वत्र मुख्यत्वविवक्षा क्रियते चेत् मुख्यतः कालादिचेष्टकत्वं लक्ष्म्या अपि नास्तीति न च मुक्ताः कालादिचेष्टका इत्यत्र रमायाः कालादिचेष्टकत्वाङ्गीकारोनुपपन्न इत्यत आह अनेनेति । नचोद्रिक्तत्वमिति कथनेनेत्यर्थः । अनुमतमेवेति । अङ्गीकारवादत्वेनैवोक्तमिति ज्ञायत इत्यर्थः । मास्त्विति प्रतिषेधकार्थमाशब्द एवायं न माङ् । विभक्तिप्रतिरूपकमव्ययं वा । तेन माङ्योगे लुङ एव विहितत्वात् लोट्प्रयोगानुपपत्तिरिति चोद्यानवकाश इति भावः ।। अनादीत्यस्यार्थः कालादिकं प्रेरयतीति ।। परमित्यस्यार्थमाह । उत्तममिति । पर इत्यस्यावृत्यार्थान्तरमाह ।। अपरमिति । अस्तेर्लडिति याडागमे अस्ति सिचोऽप्रक्ते इति प्राप्तेडागमस्य बहुलं छन्दसीति निषेधे निष्पन्नस्य आसेति श्रौतपदस्य प्रतिपदमाह आसीदिति ।। आप इत्यस्यार्थमाह । समन्तात्पालकवर्जित इति ।। आसमन्तान्न विद्यते यः पालको यस्यासौ तथोक्त इति विग्रहो द्रष्टव्य इति भावः ।। सलिले प्रकृतिरूपे एकः समवर्जितः औतो विरोधिशून्यो द्रष्टाविष्णुर्भवति ।। तिष्टति । लीलया सहितः सलीलः सलील एव सलिल इति वा श्रुत्यर्थो द्रष्टव्य इत्यभिप्रेत्याद्वैतपदस्यार्थान्तरमाह । औतः सर्वोद्रिक्त इति ।। ४६ ।।

वाक्यविवेकः

मूले उद्रेकादिति ।। उच्छब्दः उद्रेकवाची । पातेः कर्तरि डः । तस्य नञा बहुव्रीहिसमासः । अनचेष्टायामित्यतः कर्तरीति अच् । उच्चासावनश्चेति उदपान इत्यर्थः । ननु न च मुक्ताः कालादिचेष्टकाः इत्यत्र रमा कुतो नोक्तेत्यत आह । रमाया इति । मुक्तानां कालादिचेष्टकत्वाभावात् । अनेन मूलेन तन्निषेधः कृतः । रमायास्तु चेष्टकत्त्वात् निषेधकवाक्ये निषेधाय सङ्ग्रहो न कृत इति भावः । किं चोद्रिक्तत्त्वमिति । तेषां मुक्तानां उद्रिक्तत्वं अङ्गीकृतमेव इश्वरप्रसादात् संपादितमेवास्ति । न तु मुख्यतः स्वतन्त्र्येणास्ति । अतोऽपि मुख्योद्द्रिक्तत्वाभावादपि न तेषामुपादानत्वमित्याहेत्यर्थः । उद्रिक्तत्वं मुख्यं नेत्युक्तया पूर्वस्वीकृतं चेष्टकत्त्वं रमाया मुख्यमिति भ्रान्तिः स्यादत आह ।। अनेनेति । उद्रिक्तत्त्वस्य मुख्यत्वाभाववचनेन अनुमतमेवेति ईश्वरानुमतमेव ईश्वरदत्तमेवेति यावत् ।। ४६ ।।