उपोद्धातः

उपोद्धातः

महाभारते गीतायाः उत्तमत्वं पुराणवचनेन साधनं

शास्त्रेषु भारतं सारस्तत्र नामसहस्रकम् ।

वैष्णवं कृष्णगीता च तज्ज्ञानान्मुच्यतेऽञ्जसा ।।

न भारतसमं शास्त्रं कुत एवानयोः समम् ।

भारतं सर्ववेदाश्च तुलामारोपिताः पुरा ।।

देवैर्ब्रह्मादिभिः सर्वैरत्यरिच्यत भारतम् ।

महत्त्वाद् भारवत्त्वाच्च महाभारतमुच्यते ।।

निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ।

स्वयं नारायणो देवैर्ब्रह्मरुद्रेन्द्रपूर्वकैः ।।

अर्थितो व्यासतां प्राप्य केवलं तत्त्वनिर्णयम् ।

चकार पञ्चमं वेदं महाभारतसंज्ञितम् ।। इति ब्रह्माण्डे ।

प्रकाशिका

गीतातात्पर्योपयुक्तं पुराणवचनं तावदाह ।। शास्त्रेष्विति ।

न्यायदीपिका

नन्वनेकेषु ग्रन्थेषु विद्यमानेषु को विशेषो गीताया येन तस्या एव तात्पर्यमुच्यते । अपिच । भारतमध्यगतत्वाद्गीतायाः कुतस्तस्या एव पृथक् तात्पर्यमुच्यत इत्यतो भारतस्य सर्वशास्त्रोत्तमत्वात् युक्तं तदन्तर्गतगीताया एव तात्पर्यकथनम् । भारतेपि गीताया उत्तमत्वात्तस्याः पृथक्तात्पर्यकथनं चोपपन्नमिति परिहारमभिप्रेत्य भारतस्य सर्वशास्त्रोत्तमत्वं भारतेपि गीताया उत्तमत्वमेव कुत इत्यतस्तत्पुराणवचनेन साधयति ।। शास्त्रेष्विति ।। भारतेपि गीतानाम सहस्रयोरुत्तमत्वं कुत इत्यत आह ।। तदिति ।। भारतज्ञानादप्यांजस्येन गीतादिज्ञानस्य मोक्षसाधनत्वात् युक्तं भारतेपि गीतादेरुत्तमत्वमितिभावः । गीतानामसहस्रसमानशास्त्रांतर ज्ञानस्याप्यांजस्येन मोक्षहेतुत्वात्को विशेषो गीतादेरित्यत आह ।। नेति ।।

भारतस्य सर्वशास्त्रोत्तमत्वमेव कुत इत्यत आह ।। भारतमिति ।। वेदपदेन वेदयन्तीति सर्वशास्त्राण्युच्यन्ते ।। भारतादेस्तुलारोपणं नाम तत्प्रतिनिधेरारोपणम् ।। एतदेव कुत इत्यतो महाभारत शब्दार्थ पर्यालोचनयैव ज्ञायत इत्याह ।। महत्त्वादिति ।। महात्त्वात्तत एव भारेण ततत्वाच्च महाभारतमित्यर्थः । किञ्च महाभारतशब्दनिर्वचन ज्ञानादेव यदा सर्वपापक्षयो भवति तदा किं वाच्यं तस्य सर्वशास्रोत्तमत्वमिति भावेनाह ।। निरुक्तमिति ।। निरुक्तं निर्वचनम् । अस्य महाभारत शब्दस्य ।। भारतस्यैवं सर्वशास्त्रोत्तमत्वे किंनिमित्तमित्यतः परमाप्तकृतत्वं दर्शयति ।। स्वयमिति ।।

किरणावली

ननु गीतातात्पर्यकथनं प्रतिज्ञाय गीताया भारतस्य च प्रशंसनमसङ्गतमित्यतो गीतातात्पर्यकथनमेवायुक्तमिति शङ्कापरिहाराय प्रशंसापरस्योत्तरग्रन्थस्य प्रवृत्तिरिति भावेनावतारयति ।। नन्वित्यादिना ।। कुतस्तस्या एवेति ।। भारतमध्यगतमोक्षधर्मादिभागान्तरपरित्यागेन गीताया एव पृथक् तात्पर्यमुच्यत इत्यर्थः । उत्तमत्वान्मोधक्षर्मादिभ्यः । भारतस्य सर्वशास्त्रोत्तमत्वमेव कुत इति वक्ष्यमाणमाकृष्यते ।। भारतेऽपि गीताया उत्तमत्वमेवेति ।। गीताया उत्तमत्वमेव कुतः कुतःप्रमाणाद्येन पृथग्व्याख्येयत्वं स्यादित्यतस्तदुभयं पुराणवचनेन साधयतीत्यर्थः । मूले नामसहस्रस्य पूर्वं ग्रहणेऽपि समासे त्वल्पाच्तरस्य पूर्वनिपातनियमाद्गीतायाः व्याख्येयत्वेनाभ्यर्हितत्वादभ्यर्हितं पूर्वमिति नियमाच्चोक्तम् ।। गीतानामसहस्रसमानेति ।। गीतानामसहस्रसमानबृहतीसहस्र पञ्चरात्रादिशास्त्रान्तरेत्यर्थः । न च नामसहस्रस्य गीतासमत्वात्तत्परित्यागेन गीताव्याख्याने किं नियामकमिति वाच्यम् । भारतार्थसंग्रहां वासुदेवार्जुनसंवादरूपां भारतपारिजातमधुभूतां गीतामुपनिबन्धेत्याद्युक्तया गीताया नामसहस्रापेक्षयार्थाधिक्यावगमात् । तज्ज्ञानान्मुच्यतेंऽजसेत्युक्तयुक्तया गीतादेरुत्तमत्वसिद्धावपि भारतस्योत्तमत्वे युक्तिं पृच्छति ।। भारतस्य सर्वशास्त्रोत्तमत्वमेव कुत इति ।। नन्वितिहासपुराणः पञ्चमो वेदानां वेद इति श्रुत्या वेदशब्दस्येतिहासपुराणवाचकत्वस्य ‘‘भारतं पञ्चरात्रं च मूलरामायणं तथा ।। इतिहास इति प्रोक्तो ब्राह्माद्यन्तु पुराणकमि’’ति स्मृत्येतिहासपुराणशब्दयोः भारतादिवाचकत्वस्य सिद्धत्वेन वेदशब्देन रूढ्या पञ्चरात्रादेर्गृहीतुं शक्यत्वेऽपि ब्रह्मतर्कमहाव्याकरणादेर्गृहीतुमशक्यत्वात्कथमनेन तत्सङ्ग्रह इत्यतो योगमङ्गीकृत्य व्याचष्टे ।। वेदपदेनेति ।। भारतादीनाममूर्तत्वात्कथं तुलारोपणमित्यत आह ।। भारतादेरिति ।। तत्प्रतिनिधेरिति ।। समानपरिमाणे मणिद्वये भारतवेदाद्यभिमानिदेवते आवाह्य मणिद्वयारोपणमित्यर्थः । स्वकृतग्रन्थपरीक्षायां व्यासस्य कोपः स्यादित्यतो मूले ‘‘व्यासस्यैवाज्ञया तुलामारोपिता’’ इत्युक्तम् ।। एतदेवेति ।। अत्यरिच्यतेत्युक्तं भारताधिक्यमेवेत्यर्थः । महत्त्वं भारेण ततत्वे हेतुरिति भावेनाह ।। महत्त्वात्तत एव भारेण ततत्वादिति ।। अर्थतोऽभिमानिदेवतातश्च महत्त्वादत एव भारेण ततत्वाद्विस्तृतत्वादिति । एतेन भारशब्दोपपदात्तनोतेर्डप्रत्यये भारतशब्दो निष्पन्नः । महच्च तत् भारतं च महाभारतम् । महत आत्वं च निरुक्तत्वादेवेत्युक्तं भवति । अत्र भारतशब्दस्य भारशब्दोपपदतनोतिरूपत्वं स्फुटं प्रतीयत इति व्याख्येय भारमाधाय भारवत्त्वादिति व्याख्यानं तात्पर्यकथनपरं स्वीकृतम् । भाष्यटीकायां तु भारवत्त्वादिति भावेन टीकायां भारेण ततत्वादिति तात्पर्यमुक्तमिति । ननु ‘‘निरुक्तमस्य यो वेदे’’त्यत्र महाभारतशब्दस्य निर्वचनज्ञानात्सर्वपापक्षयोऽभिधीयते न तु भारतस्योत्तमत्वं तत्कथं प्रकृतोपयोग इत्यतः कैमुत्यन्यायेन प्रकृतोपयोग इति भावेनावतारयति ।। किञ्चेति ।। महाभारतशब्दनिरुक्तिज्ञानादेवेति ।। शास्त्रान्तरवाचकशब्दनिरुक्तिज्ञानेनाभवन् केवलं महाभारतशब्दनिरुक्तिज्ञानाद्यदा सर्वपापक्षयो भवतीत्यर्थः । देवतान्तरवाचकशब्दनिरुक्तिज्ञानादभवन्नारायणशब्दनिर्वचनज्ञानाद्भवन् सर्वपापक्षयो यथाभिधेयस्य सर्वोत्तमत्व एव भवति तथायमपीति भावः ।। किं निमित्तमिति ।। किं कारणमित्यर्थः । पूर्वं तु प्रमाणप्रश्न इति भावः ।।

ननु स्वयं नारायणो देव इत्यादौ नारायणो व्यासतां प्राप्य भारतं चक्र इत्युच्यते कथमनेन व्यासस्य परमाप्तत्वलाभः येन तत्कृतत्वं भारतस्योत्तमत्वे कारणं स्यादित्याशङ्काम् आप्तत्वानिर्धारणपूर्वकं प्रवृत्तायाः व्यावर्त्यशङ्कायाः परिहारमिषेण परिहरन्व्यावर्त्यशङ्कामुद्घाटयति ।। नन्वाप्तो नामेत्यादिना ।। यथार्थवादीत्युक्ते शुक्तिकां रजतत्वेन विभ्रम्य शुक्तिरियमिति प्रतारकेऽतिव्याप्तिः । तन्निवृत्त्यर्थं यथादृष्टार्थवादीत्युक्तम् । तथा विभ्रान्तिदृष्टार्थानुवादकेऽतिव्याप्तिरतो यथार्थदर्शीत्युक्तम् । यथार्थदर्शीत्येवाभिहिते प्रतारके प्रसङ्गस्तद्व्युदासाय यथादृष्टार्थवादीति । नन्वथापि यथार्थवादी यथार्थदर्शीत्यस्यातिप्रसङ्गाभावाद्दृष्टपदं व्यर्थमिति चेन्न । यथादृष्टार्थवादीत्यत्रार्थपदं वस्तुपरं दृष्टपदं ज्ञाताभिधायि । तथा च ज्ञातं वस्त्वनतिक्रम्य वादी यथादृष्टार्थवादीति विवक्षितत्वाददोषः । कुत इत्यतः परं भगवदवतारत्वादिति चेन्नेत्यध्याहार्यम् ।। भगवदतारेष्विति ।। चतुर्थस्कन्धे ‘‘अयं तु साक्षाद्भगवांस्त्र्यधीशः कूटस्थ आत्मा कलयावतीर्ण’’ इति । प्रथमस्कन्धे च ‘‘नवमपार्थवं वपुरि’’ति भगवदवतारत्वोक्तेरिति भावः ।। अज्ञानादीति ।। स्मृतिं पुनर्विस्मृततत्त्ववर्त्मनां कुयोगिनां नो वितरत्वलं वरैरिति पृथुना हरिप्रार्थनावाक्येषु तदवगमादिति भावः ।। साक्षादिति ।।

आविवेश पृथुं देवः शङ्खी चक्री चतुर्भुजः ।।

पृथुहैहयादयो जीवास्तेष्वाविष्टो हरिःस्वयम् ।

इत्यादिवचनात्पृथ्वादीनामावेशावताराणामज्ञानादिकमुपपन्नमिति भावः ।। प्रमादेनेति ।। प्रमादोऽनवधानम् । निर्दोषत्वेन प्रमादेन यदयथार्थवादित्वं तदभावेऽपीत्यर्थः । ब्रह्मादीनामित्यनेन वक्तृप्रेमास्पदानामिति च लभ्यते ।। प्रसङ्गदोषेति ।। प्रसङ्गदोषः प्रयोजनविशेषानुद्देशेन केवलमालस्य परिहारोद्देशादिः केवलं तत्वनिर्णयमित्यस्य केवलमसुरमोहनाद्युद्देशं विना तत्वस्य निर्णयो येन तदित्यर्थः ।।

अन्यत्र क्वचिद्व्यामोहनार्थमिति ।। भागवतादावित्यर्थः । तथा च तृतीयस्कन्धतात्पर्ये चतुर्दशाध्याये हिरण्याक्षवधप्रसङ्गे

व्यत्यासेनापि चोच्यन्ते ह्यविवेकेन कुत्रचित् ।

दुष्टानां मोहनार्थाय तत्र तत्र कथाः क्वचिदिति ।

पञ्चदशे च ।

विष्णुहस्तवधाल्लोको भक्तस्यान्यस्य न क्वचित् ।

तथाप्यसुरमोहाय न विविक्तं क्वचित्क्वचित् ।। इति ।

ननु भागवतस्य समाधिनानुस्मर यद्विचेष्टितमिति समाधिभाषया प्रवृत्त्युक्तेः कथमसुरमोहनार्थं क्वचिदप्युक्तिरिति चेन्न । योजनाभेदेन विष्णूत्कर्षप्रतिपादकत्वेन समाधिभाषया प्रवृत्त्युक्तेः तत्वनिर्णयाय प्रवृत्तावप्यसुरमोहनार्थम् । ‘‘उवाह कृष्णो भगवान् श्रीदामानं पराजितः’’ इत्यादौ विभक्तिव्यत्यासादेर्बुद्धिपूर्वंकरणात् तत्त्वनिर्णय इव मोहोप्युद्देश्य इति भागवतादिकं केवलतत्त्वनिर्णयफलकं न भवति । किंतु दुर्जनमोहनेऽपि तात्पर्यवत् । भारते शतरुद्रियादौ शिवाद्युत्कर्षप्रतिपादनेऽपि न मोह उद्देश्यः । पाशुपतादिदर्शनान्तरमालम्ब्य तन्मतमेतादृशमसारमिति तन्मतासारताज्ञापनमेवोद्देश्यम् । अन्ते निषेधात् । तथा चैकादशस्कन्धतात्पर्ये ।

दर्शनान्यवलंब्यैव पशुपत्यादिनां तु या ।।

बहुश्रुतिविरुद्धं च वदेत्सा दर्शनात्मिका ।।

अन्ते निषेधसंयुक्तेति । अत एव केवलं तत्त्वनिर्णयमित्युक्तम् । न चैकादशस्कन्धे तृतीयाध्यायतात्पर्ये

पञ्चरात्रं च वेदाश्च मूलरामायणं तथा ।।

पुराणं भागवतं चैव भारतं च न भिद्यते ।।

एतेष्वपि यथाविष्णोराधिक्यप्रतिपादनम् ।।

तद्भक्तानां च क्रमशः स एवार्थो न चापरः ।।

अन्यथादृश्यमानं तु मोहायैव विनिर्दिशेत् ।। इति ।

भारतस्यापि मोहोद्देशेन क्वचित्प्रवृत्तेरुक्तत्वात्कथमेतदिति चेन्न । भारते न किमपि वाक्यं मोहोद्देशेन कृतम् । किं तु मोहकवत्प्रतीयमानं दर्शनभाषया प्रवृत्तम् । अन्यथादृश्यमानमिति वाक्यस्य चान्यथान्योत्कर्षपरत्वादिना प्रतीतं यद्वाक्यजातं तत्तेषां स्वदोषेण मोहाय भवतीति विनिर्दिशेत् । यच्च

‘‘रोदिष्यन्ति स्त्रियोऽप्येवमेषां क्रुद्धासि भामिनि ।। बीभत्सुशरसंछिन्नानि’’ति दुर्योधनादीनामर्जुनहतत्वं यदपि

ततस्तं देशमागम्य कृतकर्मा विभीषणः ।।

बोधयामास तौ वीरौ प्रज्ञास्त्रेण विमोहितौ ।।

इत्यत्र विभीषणस्य विज्ञानास्त्रेणेन्द्रजित्कृतरामलक्ष्मणमोहनिवर्तकत्वमित्यादि पुरुषव्यत्यासादिकं तदपि न मोहोद्देशेन । किंतु प्रसिद्धार्थेष्वनन्विता ।। गुह्यार्थतत्परैवांधोमणिमित्यादि का च सेति गुह्यभाषालक्षणलक्षित्वाद्गुह्यभाषया प्रवृत्तम् । अन्यथार्जुनविभीषणादिपरत्वेन दृश्यमानं यद्वाक्यजातं तत्तेषां स्वदोषेण मोहायैव भवतीति विनिर्दिशेत् जानीयात् । अन्धो मणिमविन्ददित्यादि शब्दानामर्थान्तरपरत्ववद्बीभत्सुविभीषणादिशब्दानां भीमरामपरत्वेन गुह्यार्थस्य विभीषणः शत्रुविभीषणत्वादित्यादौ वर्णितत्वात् । अन्यथा वेदस्यापि मोहनार्थत्वप्रसङ्ग इत्यलम् ।।

सर्वशास्त्रोत्तमत्वमिति ।। विचार्यसर्वशास्त्रोत्तमत्वमित्यर्थः । तदुक्तं सुधायाम् । ननु भारतं सर्वशास्त्रोत्तमं सत्यम् । विचार्येषु तदित्यविरोध इति ।। किन्तु वेदमूलतया पञ्चमवेदत्वेनापीति ।। पञ्चमवेदत्वोक्तया सूचितया वेदमूलतयापीत्यर्थः । इतिहासपुराणः पञ्चमो वेदानां वेद इति पञ्चमवेदत्वोक्तया वेदसमानार्थत्वेन वेदसंवादित्वरूपवेदमूलकत्वं लभ्यते । अत्र वेदमूलत्वं नामेदमेव यद्वेदसंवादित्वं तदपि वेदार्थस्याप्यत्र भावेन । नत्वत्रोक्तसर्वस्य वेदसंवादित्वम् । नापि वेदमुपलभ्य रचितत्वम् । तथाच भाष्ये ।

केवलेनात्मबोधेन दृष्टं वेदार्थसंमितम् ।।

वेदादपि परं चक्रे पञ्चमं वेदमुत्तमम् ।। इति ।

यद्वा पञ्चमवेदत्वेनेतिहासपुराणः पञ्चमो वेदानां वेद इति वेदगृहीतप्रामाण्य(कत्व) लक्षणमूलतयापीत्यर्थः । तदुक्तं विष्णुतत्वनिर्णये । इतिहासपुराणः पञ्चमो वेदानां वेद इति तद्गृहीतत्वाच्चेति । अथवा । इतिहासपुराणाभ्यां वेदं समुपबृंहयेदितिहासपुराणः पञ्चमो वेदानां वेद इति वेदव्याख्यानत्वाभिप्रायेणोक्तेन पञ्चमवेदत्वेन वेदमूलतया वेदार्थज्ञानोपायतयापीत्यर्थः । स्पष्टं चैतद्भाष्ये ।

भावदीपः

तस्या एवेति ।। भारतस्य वा तदन्तर्गतग्रन्थान्तरस्य वा त्यागेनेति योज्यम् । नन्वित्यादिना कृतचोद्यस्य शास्त्रेष्विति श्लोकस्थपूर्वोत्तरार्धतात्पर्योक्त्योत्तरमाह भारतस्येत्यादिना ।

प्रतिनिधेः पाषाणादेः । महत्त्वं भारहेतुरित्याह ।। महत्वात्तत एव भारेण ततत्वादिति ।। महत्वाद्भारो महाभारः । निरुक्तत्वादेव महत आपञ्चमीसमासश्च ज्ञेयः । तेन महाभारेण ततत्वाद्व्याप्तत्वात् । महाभारोपपदात् तनोतेर्डप्रत्यय इति भावः । निर्वचनमवयवार्थकथनम् । ‘एष विष्णोर्भगवतः कला भुवनपावनी’ इत्यादि पृथुं प्रति ऋषिभिरुक्तं हृदि कृत्वा शङ्कते ।। पृथ्वादिष्विति ।। आदिपदेन बलरामकार्तवीर्याजुनादिग्रहः । ‘आविवेश पृथुं देवः शङ्खी चक्री चतुर्भुजः’ इति, ‘पृथुहैहयादयो जीवास्तेष्वाविष्टो हरिः स्वयम्’ इत्यादिवचनात्तेषां न साक्षादवतारत्वमस्तीति भावेन स्वयं शब्दार्थमाह ।। साक्षान्नारायणेति ।। गुह्येति ।। भाषाद्वयं भारततात्पर्यद्वितीये व्यक्तम् । अन्यत्र पुराणेषु ।।

भावप्रकाशः

शिष्यशिक्षार्थं भाष्ये पृथक् गुरुप्रणामानुष्टानेऽपि स्वस्य गुरुदेवताभेदाभावं सूचयितुमत्र गुरून्न पृथगनंसीदिति स्फुटत्वादनुक्त्वा शास्त्रेष्वित्युत्तर वाक्यमवतारयति । नन्विति । उत्तमत्वमेव कुत इति । येन गीताया एव व्याख्येयत्वं स्यादित्येवार्थः । मूले नामसहस्रस्य पूर्वं ग्रहणेऽपि समासेऽल्पाच्तरस्य पूर्वनिपातनियमात् आह ।। गीतानामसहस्रयोरिति । यद्वां गीताया व्याख्येयत्वेनाभ्यर्हितं पूर्वमित्यनुसारेणाह । गीतानामसहस्रयोरिति । उत्तमत्वं कुत इति । अयं च पुराणकृतं प्रतिप्रश्न इति भावः । एवमुत्तरत्रापि ज्ञातव्यम् । भारते गीतादेरुत्तमत्वमिति । न च नामसहस्रकस्य गीतासमत्वात्तत्परित्यागेन गीताव्याख्यानमनुचितमिति वाच्यम् ।। गीतायाः सर्वभारतार्थसङ्ग्रहरूपत्वेन वासुदेवार्जुनसंवादरूपत्वेन च नामसहस्रापेक्षयाऽप्युत्तमत्वात् ।। यथोक्तं भाष्ये ।। तत्र च सर्वभारतार्थसङ्ग्रहाम् । वासुदेवार्जुनसंवादरूपां भारतपारिजातमधुभूतां गीतामुपनिबबन्ध ।। किञ्च ।। तथैव तेन गीताया नास्ति शास्त्रं समं क्वचिदित्यादिना गीताया एव सर्वशास्त्रोत्तमत्वस्य वक्ष्यमाणत्वादितरपरित्यागेन गीताया एव व्याख्यानमुपपन्नमिति द्रष्टव्यम् ।। तज्ज्ञानादित्युक्तयुक्तयां गीतादेरुत्तमत्वसिद्धावपि भारतस्योत्तमत्वे युक्तिं पृच्छति । भारतस्य सर्वशास्त्रोत्तमत्वमेव कुत इति । इतिहासपुराणः पञ्चमो वेदानां वेद इति श्रुत्या वेदशब्दस्येतिहासपुराणवाचकत्वस्य भारतं पञ्चरात्रं च मूल रामायणं तथा इतिहास इति प्रोक्तो ब्रह्माद्यं तु पुराणकमिति स्मृत्या इतिहास पुराणमूलरामायणाष्टादशपुराणवाचकत्वस्य च सिद्धत्वेन वेदशब्देन रूढ्या पञ्चरात्रादेः गृहीतुं शक्यत्वेऽपि ब्रह्मतर्कादिसकलशास्त्रार्थसंग्रहार्थं योगमङ्गीकृत्य व्याचष्टे । वेदपदेनेति । सर्वशास्त्राणीति । भारतातिरिक्तसर्वशास्त्राणीत्यर्थः । ननु । भारतादीनाममूर्तत्वात्कथं तुलारोपणमित्यत आह । भारतादेस्तुलारोपणमिति । तत्प्रतिनिधेरिति । समानपरिमाणे मणिद्वये भारतवेदाभिमानिदेवते आवाह्य तन्मणिद्वयारोपणमित्यर्थः । एतदेवेति । अत्यरिच्यतेत्युक्तमनन्तत्वमेवेत्यर्थः । भारेण ततत्वादिति । भाष्यटीकायां भारवत्वादिति मतुपस्तद्वत्वमात्रार्थकत्वमभिप्रेत्य भारतमित्यत्र मत्वर्थे तप्रत्यय इति व्याख्यातम् । अत्र तु भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने सम्बन्धोऽस्तिविविक्षायां भवन्ति । मतुपादय इत्युक्तत्वान्मतुपो भूमार्थत्वमभिप्रेत्येति भावः ।

भारतं सजातीयोत्तमं सर्वपापक्षयहेतुज्ञानविषयनिर्वचनोपेतशब्दवाच्यत्वात् । यथा रामायणत्यनुमान सूचकं निरुक्तमस्येति वाक्यं अवतारयति । किञ्चेति ।। निष्टाप्रत्ययस्य कर्मार्थत्वशङ्कानिरासार्थमाह ।। निरुक्तं निर्वचनमिति । किं निमित्तमिति । किं कारणमित्यर्थः । पूर्वं तु प्रमाणप्रश्न इति भावः । विमतमाप्तवाक्यं अनुकूलेन वक्त्राऽनुकूलान् श्रोतृन्प्रति तदीयहितसाधनबोधायोपदिष्टत्वात् । संप्रतिपन्नवत् । वक्तुरानुकूल्याभावात् जैनादि अनाप्तवाक्यम् ।। श्रोत्रानुकूल्याभावात् बौद्धादि । प्रसङ्गानुकूलता वैधुर्यान्नर्मादीत्यनुमानसूचकम् । स्वयं नारायण इति वाक्यमित्यभिप्रेत्याह । परमाप्तकृतत्वमिति ।

वाक्यविवेकः

अनेकेषु ग्रन्थेष्विति ।। ननु भागवताद्यनेकेषु ग्रन्थेषु विद्यमानेषु गीतायाः को विशेषः येन गीतायाः एवादरातिशयेन तात्पर्यमुच्यत इत्यर्थः ।। एतेन भागवतस्य भारतस्य तात्पर्यस्योक्तत्वात् तस्या एव तात्पर्यमुच्यत इत्यनुपपन्नमिति दूषणं परास्तम् ।। आदरातिशयेनेत्यस्य शेषमङ्गीकृत्यभागवताद्यपेक्षया आदरातिशेयेन गीतायाः एव तात्पर्यमुच्यत इत्यर्थस्योक्तत्वात् ।। भारतेऽपीति । भारतेऽपि अंशान्तरापेक्षया गीतासहस्रनामरूपयोः उत्तमत्वं युक्तमित्यर्थः को विशेष इति येन तयोः सर्वोतमत्वं स्यादिति शेषः ।। ननु भारतादेः तुलारोपणे तस्मिन् समये तुलाभिन्नप्रदेशेषु भारताद्यभावः स्यात् ।। तुलारोपितघटादेर्देशान्तरे अभावनियमात् अनुपपन्नं व्याख्यानम् आकाशवत् तुलारोपणमित्यत आह । भारतादेस्तुलारोपणं नामेति । भारताद्यभिन्नप्रतिनिधेस्तूलारोपणमित्यर्थः । इदमुक्तं भवति ।। द्विविधः प्रतिनिधिः ।। भिन्नोऽभिन्नश्च ।। सोमस्य पूतीकः भिन्नः प्रतिनिधिः । बलिना चौर्येणानीतस्य मूलरूपस्य क्षीराब्धिशायिनो भगवतः कीरीटस्य यादवकृष्णमुधर्ि्न प्रविष्टं किरीटमभिन्नः प्रतिनिधिः । एवं भारतादिसकलशास्त्राणां अन्यो यः प्रतिनिधिः तस्य तुलारोपणं दैवैः कृतम् ।। एवं रूपान्तरेण देशान्तरे अवस्थानसम्भवात् न देशान्तरे भारताद्यभावप्रसक्तिः । नापि तुलारोपणासम्भवः ।। व्यासप्रसादासादिताभिन्नप्रतिनिधेरणुत्वादिति । एतेन भारतप्रतिनिधित्वेन कल्पितस्य वस्तुनो भारवत्वेऽपि न भारतस्य तत्सिद्धिः ।। भारतादेः प्रतिनिधिप्रवेशाङ्गीकारे व्यर्थप्रतिनिधिस्थापनकल्पनं प्रतिनिधिप्रवेशवत् साक्षादेव तुलाप्रवेशसम्भवात् इति परास्तम् ।। एतदेव कुत इति तुलारोपणेनातिरेको जात इति कुतः प्रमाणात् प्रतिपत्तव्य इत्याशङ्का परिहाराय पुराणकारः महाभारतशब्दं प्रमाणत्वेनाहेत्यर्थः ।। एतेन भारतं सर्ववेदाश्चेति प्रमाणस्योदाहृतत्वेन कुतः प्रमाणात् प्रतिपत्तव्यमिति शङ्कोदय इति परास्तम् । भाष्यकारं प्रतिशङ्कानुदयेऽपि पुराणकारं प्रति शङ्कोदयसम्भवात् ।। पुराणकृता प्रमाणस्य प्रागनुपन्यासात् । महत्वादिति ।। पूज्यताप्रयोजकबहुधर्मवत्वात् अत एव पूज्यताप्रयोजकबहुधर्मवत्वादेव भारेण ततत्वादित्यर्थः ।। एतेन असाधारण्येन व्याख्याने भारतस्य निमित्तत्वात् तत्कथनं व्यर्थमिति परास्तं भारतमात्रस्याप्रयोजकत्वेपि उक्तभारतस्य प्रयोजकत्वात् ।। निरुक्तमित्यत्र भावे क्तप्रत्यय इति भावेनाह ।। निरुक्तं च निर्वचमिति । किं निमित्तमिति ।। पूर्वं प्रमाणप्रश्नः कृतः इदानीं तु निमित्तप्रश्न इति भेदः परमाप्तकृतत्वमिति ।। परमादरेणेति शेषः । परमादरेण परमाप्तकृतत्वं दर्शयतीत्यर्थः । एतेन परमाप्तकृतत्वस्य भागवतादिसाधारण्यात् सर्वोत्तमत्वे हेतुत्वाभिधानमयुक्तमिति परस्तम् ।। भागवतादीनामादरेण कृतत्वेऽपि परमादरेण कृतत्वाभावात् । नन्वाप्तो नामेति । यद्वस्तु यदा यथात्त्वेन प्रमितं तथा तस्य वक्ता तदा तद्विषये आप्त इत्यर्थः ।। एतेन यथार्थदर्शी यथार्थवादीत्यनेन पूर्णत्वात् दृष्टेत्येतद्व्यर्थमिति परास्तम् ।। आप्तोनाम यथार्थदर्शी यथादृष्टार्थवादीत्यस्य यद्वस्तु यदा यथात्वेन प्रमितं तथा तस्य वक्ता तदा तद्विषये आप्त इत्यर्थतात्पर्यमित्यभ्युपगमात् । ब्रह्मादीनां योग्यानामिति ।।

ब्रह्मरुद्रादिदेवेषु मनुष्यपितृपक्षिषु ।

ज्ञानं संस्थाप्य भगवान् क्रीडते पुरुषोत्तमः ।

इति वचनात् ब्रह्मादिनां योग्यानामेव श्रोतृत्वमिति द्रष्टव्यम् । भारतस्य सर्वोत्तमत्वे एवंविधेनाप्तेनादरातिशयेन रचितत्वं हेतुतयोक्तमजानन् आप्तप्रणीतत्वमेव हेतुत्वेनोक्तमिति मत्वा शङ्कते ।। एवंभूतेति ।। आप्तप्रणीतत्वमेव सर्वोत्तमत्वे हेतुत्वेनोक्तमित्यङ्गीकृत्य समाधानमाह ।। मूलकारः केवलमिति ।। नासुरमोहनाद्यर्थमपीति ।। आदिशब्देनासुरैः संपादितस्य तत्वज्ञानस्य नाशो ग्राह्यः ।। न केवलमकार्यं सज्जनमोहमुद्दिश्यातत्वं नोच्यते ।। किंतु अवश्यकार्यदुर्जनमोहादिकमुद्दिश्यापि अतत्वं नोच्यत इत्यर्थः ।। इदमुक्तं भवति भागवतादिग्रन्थेषु क्वचिदतत्वमुक्त्वा कर्तव्यदुर्जनमोहादिकं क्रियत इति इहतु गुह्यदर्शनभाषाभ्यां तत्वमुक्त्वा दुर्जनमोहनादिकं क्रियत इति टीकान्तरे सुरमोहनाद्यर्थमप्यत्रान्यदुच्यत ।। अन्यथाप्रतीतस्य गुह्यदर्शनभाषाभ्यामुक्तत्वात् । अन्यत्र क्वचित् व्यामोहनार्थन्यथाकथनादिति वाक्यानन्तरं यथा सद्वाक्यस्यैवासदर्थान्तरं न प्रतीयते तथातत्वस्यैवोक्तेरिति भावः इति वाक्यं श्रूयते तत्प्रक्षिप्तं न टीकावाक्यम् । पूर्ववाक्येनैव वक्तव्यार्थस्योक्तत्वात् ।।

भारतवाक्येन गुह्यदर्शनभाषानभिज्ञानानां अविद्यमानार्थस्य प्रतीयमानत्वेन न प्रतीयत इत्यस्य बाधितार्थकत्वाच्च । वेदसंवादितयेति । सर्वविषये वेदसंवादितयेत्यर्थः ।। एतेन भागवतादावपि वेदसंवादित्वस्य विद्यमानत्वात् वेदसंवादितया वेदत्वेनापि भारतस्य सर्वशास्त्रोत्तमत्वमिति कथनमयुक्त मिति चोद्यं परास्तम् । भागवतादौ क्वचिदसुरमोहनार्थमन्यथाकथितत्वेन सर्वविषये वेद संवादित्वाभावात् ।।

न्यायदीपिका

नन्वाप्तो नामयाथार्थदर्शी यथादृष्टार्थवादीच । तत्र व्यासस्य यथार्थदर्शित्वं कुतः । भगवदवतारेष्वपि पृथ्वादिष्वज्ञानादिदर्शनादित्यत उक्तम् ।। स्वयमिति ।।

अस्तु व्यासस्य यथार्थदर्शित्वं साक्षान्नारायणावतारत्वेनाज्ञानभ्रमसन्देहशून्यत्वात् । यथादृष्टार्थ वादित्वंतु कुतः । तस्य प्रमादेनायथादृष्टार्थवादित्वाभावेपि विप्रलिप्सया तत्सम्भवदित्यत आह ।। ब्रह्मेति ।। वक्तुर्विप्रलिप्सा श्रोतृणामयोग्यतायां सम्भवति । प्रकृतेच ब्रह्मादीनां योग्यानामेव श्रोतृत्वेन भगवतो विप्रलम्भाभावाद्युक्तं यथादृष्टार्थवादित्वमिति भावः । अपहासेनायथादृष्टार्थवादित्वं किंनस्यादित्यत आह ।। तत्वेति ।। अपहासस्य प्रसङ्गदोषनिबन्धनत्वादत्र च तत्वनिर्णयस्य प्रसक्तत्वेन तदसम्भवन्नात्रापहासेनापि व्यासस्यायथा दृष्टार्थवादित्वमितिभावः । एवंभूताप्तरचितत्वस्य भागवतादिष्वपि साम्यात्कोविशेषोभारतस्येत्यत उक्तम् ।। केवलमिति ।। नासुरमोहनाद्यर्थमप्यत्रान्यदुच्यते । अन्यथाप्रतीतस्य गुह्यदर्शनभाषाभ्यामुक्तत्वात् । अन्यत्र क्वचिद्व्यामोहनार्थमन्यथा कथनादितिभावः । एवं परमाप्तिमूलत्वेनैव न भारतस्य सर्वशास्त्रोत्तमत्वं किन्तु वेदसंवादितया पञ्चमवेदत्वेनापीति भावेनाह ।। पञ्चममिति ।।

भावप्रकाशः

नन्वाप्तो नाम यथार्थवादीत्युक्ते भ्रान्तप्रतारकेऽतिव्याप्तिः स्वात्तन्निवृत्यर्थं यथादृष्टार्थवादीत्युक्तम् । तथापि भ्रान्तिसिद्धार्थानुवादके अतिव्याप्तिरतो यथार्थदर्शीति । यथार्थदर्शीत्येवाभिहिते प्रातारके प्रसङ्गः । तद्व्युदासाय यथादृष्टार्थवादीति । नन्वथापि यथार्थदर्शी यथार्थवादीत्युस्याति प्रसङ्गाभावात् दृष्टपदं व्यर्थमिति चेन्न । यथार्थदर्शीत्यनेन विवक्षितार्थतत्वज्ञानस्य, यथादृष्टार्थवादीत्यनेनाविप्रलिप्साविवक्षाकरणपाटवत्वस्याभिहितत्वेनैतच्चतुष्टयस्य चावश्यकत्वेन न दोष इति भावः । यथोक्तं सुधायाम् ।। विविक्षितार्थतत्वज्ञानं अविप्रलिप्सा विवक्षा करणपाटवंचेति इयमाप्तिः तद्वानाप्त इत्यङ्गीकारादिति ।

अथवा यथार्थदर्शीत्यनेन भ्रमादिदोषशून्यत्वरूपनिर्दोषत्वमभिहितम् । न चाव्याप्तिः । यो यत्र विषये निर्दोषः स तत्राप्त इत्यङ्गीकारात् । यथादृष्टार्थवादीत्यनेन च यथादृष्टः प्रमाणप्रमितोऽर्थः तथा तद्वादीत्येवं प्रमाणप्रमितस्यैव वक्तृत्वमिति प्रत्येकं लक्षणपरत्वेन व्याख्येयम् । एतदप्युक्तं सुधायाम् । एतेन निर्दोष प्रमितस्यैव वक्तेति लक्षणणद्वयमपिः समाहितं वेदितव्यमिति । व्यासो यथार्थदर्शी भगवदवतारत्वादित्याशङ्क्य हेतोः व्यभिचारमाह ।। भगवदवतारेऽपीति । पृथ्वादिष्विति । नवमं पार्थिवं वपुरित्यादिना भागवते भगवदवतारेषु गणितत्वादिति भावः । आदिपदेन बलभद्रादिग्रहणम् । एतेषामज्ञानादिकमपि भागवतादेवावगन्तव्यम् ।।

साक्षान्नारायणावतारत्वेनेति पृथ्वादीनां त्वावेशावताराणां अज्ञानमुपपन्नमिति भावः । प्रमादेनेति । प्रमादेन यदयथादृष्टार्थत्ववादित्वं तदभावेनेत्यर्थः । विप्रलिप्सया तत्सम्भवादिति । बद्धादिषु तथा दर्शनादिति भावः ।। योग्यानामेवेति ।। वक्तृपे्रमास्पदत्वे सति तत्वज्ञानयोग्यानामित्यर्थः । प्रसङ्गदोषः प्रयोजनानुद्देशरूपः । नासुरमोहनादीत्यादिपदेन सतां योग्यादधिकस्य संपादितस्य नाशो ग्राह्यः । यथोक्तमन्यत्र–

दुष्टानां मोहनार्थाय सतामपि च कुत्रचित् ।

यथायोग्यफलप्राप्त्यै लीलैषा परमात्मनः ।। इति ।

ननु शतरुद्रियादौ रुद्रसर्वोत्तमत्वादिप्रतीतेः का गतिरित्यत आह । अन्यथा प्रतीतस्येति ।। गुह्यदर्शनभाषाभ्यामिति । यथा प्रदृश्यनमानार्था समाधिः सा प्रकीर्तितेति उक्तत्वेन समाधिभाषया प्रवृत्ते ग्रन्थे खडिति प्रतीयमानस्यापि ग्राह्यत्वात् गुह्यदर्शनभाषाभ्यामित्येवोक्तमिति भावः । अन्यत्र क्वचिदिति । भागवतादिषु कैलासयात्रादावित्यर्थः । व्यामोहनार्थमिति ।। दुष्टानां मोहनाय चेत्युक्तेरिति भावः । व्यामोहनार्थमन्यथा कथनादिति भाव इति क्वचित्पाठः । स तु सुगम एव । व्यामोहनार्थमन्यथा कथनात् । यथा सद्वाक्यस्यैवासदर्थान्तरं न प्रतीयते तथा तत्वस्यैवोक्तेरिति पाठेतु अन्यथा कथनादित्यनन्तरं अत्र त्वित्यध्याहारेण नासुरमोहनार्थमिति उक्तविवरणपरतया यथा सद्वाक्यस्येत्यादिकं भिन्नवाक्यत्वेन योजनीयम् ।। यथा सद्वाक्यस्यैवासदर्थान्तरं न प्रतीयते तथेति । अर्थान्तरप्रतीतिरूपव्यामोहनोद्देशेन तत्वस्यानुक्तेरित्यर्थः । तेषामर्थान्तरप्रतीतिस्तु गुह्यदर्शनभाषापरिज्ञानाद्भवतीति भावः ।

सर्वशास्त्रोत्तममिति । निर्णेयस्सर्वशास्त्रेषूत्तममित्यर्थः । तेन अतो नैतादृशं किंचित्प्रमाणतममिष्यत इति निर्णायकब्रह्ममिमांसायाः सर्वशास्त्रोत्तमत्वसाधकानुव्याख्यानेन न विरोध इति भावः । यथोक्तं सुधायाम् ।। ननु भारतं सर्वशास्त्रोत्तमं पठ्यते सत्यं निर्णायकेष्वेतदित्यविरोधत इति किमु । वेदमूलतयेति । पञ्चमवेदत्वोक्तया वेदमूलतयेत्यर्थः । पञ्चमवेदत्वोत्किर्हि नापौरुषेयाभिप्रायेण । किंतु वेदमूलत्वाभिप्रायेणेति तदुक्तया वेदमूलत्वं सूचितमिति भावः । उपलक्षणमेतत् । युक्तिमूलतयाऽपीत्यपि ग्राह्यम् ।