गीता
गीता
यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये ।। ११ ।।
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
मूध्नर्याधायात्मनः प्राणमास्थितो योगधारणाम् ।। १२ ।।
तात्पर्यम्
मन आदीनां ब्रह्मणि चरणं ब्रह्मचर्यम् ।। ११,१२ ।।
न्यायदीपिका
केन प्रकारेण स्मर्तव्योऽसीत्यस्य परिहार उच्यते ।। यदक्षरमिति ।। तत्र पूर्वमन्तकालस्मरणस्य सदा तद्भावभावितत्वं साधनमुक्त्वा ब्रह्मचर्यं तथा कथमुच्यत इत्यतो ब्रह्मचर्यपदं तत्परतया व्याचष्टे ।। मन आदीनामिति ।। तत्ते पदं सङ्ग्रहेण प्रवक्ष्य इत्यस्य तत्स्मरणप्रकारं प्रवक्ष्य इत्यर्थः ।। ११,१२ ।।
किरणावली
ब्रह्मचर्यं तथा कथमिति ।। सदा तद्भावभावनाद्ब्रह्मचर्यमप्यन्तरङ्गतया स्मरणसाधनं कथमुच्यत इत्यर्थः । ननु यदक्षरमिति श्लोके तत्पदमक्षरस्वरूपं प्रवक्ष्य इति स्मर्तव्यस्वरूपप्रतिपादनस्य प्रतिज्ञातत्वात्केन प्रकारेणेत्यस्य परिहारो न दृश्यत इत्यत आह ।। तत्तेपदं सङ्ग्रहेण प्रवक्ष्य इत्यस्येति ।। ११ ।।
भावदीपः
तथा कथमुच्यत इति ।। अन्तकालस्मरणसाधनतया कथमुच्यत इत्यर्थः ।। ११ ।।
भावप्रकाशः
यदक्षरमित्यस्य केन प्रकारेण स्मर्तव्योऽसीत्येतत्परिहारत्वस्फोरणाय चतुर्थपादं व्याचष्टे ।। तत्तेपदं प्रवक्ष्य इत्यस्येति ।। ११ ।।
वाक्यविवेकः
गीतायां यदिच्छन्त इति ।। यत्पदमिच्छन्तः आत्मचर्यां चरन्ति तत्तस्य पदस्य स्मरणप्रकारं ते सङ्ग्रहेण प्रवक्ष्य इत्यर्थः ।। एतेन सर्वद्वाराणीत्यादिना भागवत्पदस्मरणप्रकारस्यैव वक्ष्यमाणत्वात् ।। तस्य पदस्य स्मरणप्रकारं वक्ष्यतीति वक्तव्यम् ।। तत्पदं वक्ष्य इति कथनमयुक्तमिति चोद्यं परिहृतम् ।। तदित्येतस्येत्यर्थे वर्तते पदमित्यस्यावृत्तिः अर्थवशात्पदपदस्येति विपरिणामः स्मरणप्रकारमित्यस्य शेष इति चाङ्गीकृत्य तस्य पदस्य स्मरणप्रकारं वक्ष्य इत्यर्थस्योक्तत्वात्
।। ११,१२ ।।