तात्पर्यम्
विशेषस्वरूपम् तत्प्रभेदाश्च
तात्पर्यम्
‘एकं रूपं हरेर्नित्यमचिन्त्यैश्वर्ययोगतः ।
बहुसङ्ख्यागोचरं च विशेषादेव केवलम् ।
अभावो यत्र भेदस्य प्रमाणावसितो भवेत् ।
विशेषनामा तत्रैव विशेषव्यवहारवान् ।
विशेषोऽपि स्वरूपं स स्वनिर्वाहक एव च ।
द्रव्यात्मना स नित्योऽपि विशेषात्मैव जायते ।
नित्या एव विशेषाश्च केचिदेवं द्विधैव सः ।
वस्तुस्वरूपमस्त्येवेत्येवमादिष्वभेदिनः ।
प्रकाशिका
तदेतद्व्युत्पादयति ।। एकं रूपमित्यादि ब्रह्मतर्कवचनेन ।।
हरेरेकं रूपं रूपाणीति बहुवचनगोचरतां गच्छति । अचिन्त्यत्वात् विशेषबलाच्च भेदरहितेषु व्यवहार निर्वाहकत्वात् विशेषस्यापि विशेष्यस्वरूपत्वात् विशेषविशेष्यव्यवहारोऽपि विशेषनिबन्धनः विशेषस्य विशेष्यात्स्वतोऽन्यविशेषाभावेऽपि स्वनिर्वाहकत्वात् विशेषित्वं युज्यते । स्वनिर्वाहकत्वाद्विशेषस्य द्रव्यरूपेण सर्वदावस्थानं विशेषरूपेण कादाचित्कत्वम् च युज्यते ।। एवं कादाचित्कः क्वचित् स्थायीति विविधो विशेषः तथा देवदत्तस्यासनम् शयनमुत्थानमित्येवमादिको विशेषः कादाचित्क इत्यर्थः स्थायिविशेषं वस्तुषूदाहरति ।। वस्त्विति ।। वस्तुस्वरूपत्वास्तित्वादयो विशेषा द्रव्येणात्यन्ताभेदिनः ।। एवं स्थायिविशेषः । कादाचित्कविशेषश्च सर्ववस्तुषु अनुभवसिद्धः इत्यर्थः ।।
न्यायदीपिका
अनन्तरूपाण्यभिन्नानीत्युक्तम् । रूपाणामेक्येऽनन्तत्वायोगादित्याशङ्कां ब्रह्मतर्कवाक्येन परिहरति ।। एकमिति ।। विशेषादेव केवलमित्युपपादकान्तरम् । भेदाभावे कथं विशेषमात्रेण व्यवहारविशेष इत्यत आह ।। अभाव इति ।। यत्र वस्तुनि भेदाभावः प्रमाणावसितो भवेत्तत्र व्यवहारविशेषनिर्वाहक एवहि विशेषो नामतः । अतो विशेषादेव प्रमाणावसितभेदाभावेषु भगवद्रूपेषु व्यवहारविशेषो युक्त इति भावः । भेदाभावेऽपि विशेषादेव भगवद्रूपेषु व्यवहारविशेषो भवति चेद्गवाश्वादावपि विशेषादेव व्यवहारविशेषः स्यदित्यतो वाऽऽह ।। अभाव इति ।। यत्र भेदाभावः प्रमाणावसितो भवेत्तत्रैव विशेषो व्यवहारविशेषनिर्वाहकोऽङ्गीक्रियते । गवाश्वादौ तु भेदस्यैव प्रमाणावसितत्वान्न व्यवाहारो विशेषनिबन्धन इति भावः ।
नन्वयं विशेषो विशेषिणो भिन्नोऽभिन्नो वा । आद्ये भेदानवस्था । द्वितीये विशेषविशेषिव्यवहारो न स्यात् । न च तत्र विशेषादेव व्यवहारविशेषनिर्वाहः विशेषानवस्थाप्रसङ्गादित्यत आह ।। विशेषोऽपीति । विशेषोऽपि विशेषिस्वरूपमतो न भेदानवस्था । भेदाभावेऽपि विशेषादेव विशेषव्यवहारसिद्धिः । विशेषस्य स्वस्यैव स्वस्मिन् व्यवहारविशेषनिर्वाहकत्वेन विशेषान्तरानङ्गीकारान्न विशेषानवस्थाऽपीति भावः ।
तमेव विशेषं विभज्य निरूपयति ।। द्रव्येति ।। एतच्च चेतनाचेतनसाधारणं वाक्यं यथाक्रमं योजनीयम् । चेतने कश्चिद्विशेषो जायते कश्चिन्नित्य इत्येवं विशेषो द्विविधो भवति । न च वाच्यं द्रव्यात्मकत्वेन विशेषस्य नित्यत्वान्न जननमिति । चेतनद्रव्यात्मकत्वेन नित्यस्यापि व्यक्तिविशेषविवक्षया जननोक्तिसम्भवात् । अचेतनेच विशेषिद्रव्यस्यैव विशेषोपादानत्वादुपादानविशेषिद्रव्यात्मनाऽयावद्द्रव्यभाव्यपि कार्यरूपेण कश्चिद्विशेषो जायते । कश्चिद्यावद्द्रव्यभावीति द्विविधो विशेष इति भावः । चेतनाचेतनयोः प्रत्येकं द्विविध विशेषान् तत्तत्स्थलेषूदाहरति ।। वस्त्विति ।। चेतनवस्तुस्वरूपमस्तीत्यत्र चेतनत्ववस्तुत्वस्वरूपत्वास्तित्वविशेषा नित्याभिव्यक्ताः । चेतनः करोति भुङ्क्ते गच्छतीत्यत्र करणगमनभोजनविशेषाः व्यक्तयव्यक्तियुताः । ते द्विविधा अपि विशेषिणाऽत्यन्ताभेदिनः । तथा चूतफलस्वरूपमस्तीत्यत्र चूतत्वफलत्वादिविशेषा यावद्द्रव्यभाविनो विशेषिणाऽत्यन्ताभिन्नाः । पीतं चूतफलमित्यत्र पीतत्वादिविशेषाः कादाचित्का विशेषिणा भिन्नाभिन्ना इति भावः ।
किरणावली
ननु कालभेदेनैकत्वबहुत्वयोरुपपत्तिः किं न स्यादित्यत उक्तम् । नित्यमिति सदेत्यर्थः । एवं च शङ्कापरिहारस्य जातत्वाद्विशेषादेवकेवलमिति व्यर्थमित्यत आह ।। विशेषादेव केवलमित्युपपादकान्तरमिति ।। रूपाणामैक्येऽनन्तत्वायोगः विरोधात् । अभिन्नेष्वपर्यायरामकृष्णाद्यनन्तशब्दव्यवहारायोगश्च । अपर्यायशब्दानां भिन्नवस्तुष्वेव प्रयोज्यत्वात् । अन्योऽन्तर आत्माऽनन्दमय इत्यादावन्यादिशब्दप्रयोगायोगश्च । अभेदे सति भेदवाचकशब्दानां निरर्थकत्वेनाप्रामाण्यप्रसङ्गादित्यनुपपत्तौ प्रसक्तायामचिन्त्यशक्तया विरोधशान्तावपि भेदव्यवहारानुपपत्तिर्न शाम्यति । न हि भेदव्यवहाराणां अचिन्त्यशक्तिर्विषय इत्यतो विशेषादेव केवलमित्युपपादकान्तरमित्यर्थः । विशेषस्य भेदप्रतिनिधित्वेन भेदव्यवहाराणां स एव विषयः । तदुक्तमनुव्याख्याने । भेदशब्दा विशेषं च हरावन्यत्रभिन्नताम् । ब्रूयुरिति । उक्तं च श्रीपद्मनाभतीर्थीये । एकं रूपमित्यादि ब्रह्मतर्कवचने हरेरेकं रूपं रूपाणीति बहुवचनगोचरतां गच्छत्यचिन्त्यशक्तित्वात् । विशेषबलाच्च । तस्य भेदरहितेषु व्यवहारनिर्वाहकत्वादिति । ततश्चाचिन्त्यैश्वर्ययोगतस्तदेकं बहुसङ्ख्यागोचरं च, केवलं विशेषादेव भेदव्यवहारगोचरं चेति योज्यमिति टीकाभिप्रायः । भेदाभेदस्थले विशेषादेव भेदाभेदयोर्विरोधपरिहारेऽपि भेदव्यवहाराय न विशेषस्योपयोगस्तस्य भेदेनैव चारितार्थ्यात् । नात्र विशेषेणैकत्वानेकत्वविरोधपरिहारो भेदेन व्यवहारनिर्वाह इति मन्तव्यमिति भावेनोक्तं केवलं भेदनिरपेक्षाद्भेदप्रतिनिधिविशेषादेवव्यवहारगोचरमिति । एतेनैवकारकेवलशब्दयोरन्यतरवैयर्थ्यमिति निरस्तम् ।
नन्वयावद्द्रव्यभाविस्थले विशेषेण भेदाभेदविरोधशान्तिवद्भगवत्येकत्वानेकत्वविरोधस्य विशेषेणैव शान्तिरस्तु ।
तस्य भेदप्रतिनिधित्वात् । युक्तया घटनीयेऽर्थेऽचिन्त्यशक्तेरनुपयोग एवेति चेन्न । अयावद्द्रव्यभाविस्थले हि तस्मिन् सत्यसत्वयुक्तया भेदः समर्थ्यते । अभेदे तस्मिन् सत्यसत्वमेव कथमित्यतः पटादेस्तंत्ववस्थाविशेषत्वेन तन्तुतन्मात्रत्वाभावात् । विशेषमहिम्ना तस्मिन् सत्यसत्वं युज्यते । तत एव भेदाभेदयोर्न विरोध इति च समाधीयते । अत्यन्ताभेदस्थले पटस्य स्पार्शनेन्द्रियेणोपलब्धावपि तद्रूपानुपलब्धिः कथमित्यतो रूपस्य पटतन्मात्रत्वाभावात् । विशेषशक्तया पटोपलब्धावप्यनुपलब्धिः समाधीयते । नचैवं प्रकृतैकत्वानेकत्वविरोधो विशेषेण शाम्यति । रामकृष्णादिरूपाणां मूलरूपतन्मात्रत्वेन विशेषस्यैवानवतारात् । तथा च श्रुतिः पूर्णमदः पूर्णमिदमित्येवंजातीयका ।
अतोऽशेषगुणोन्नद्धं निर्दोषं यावदेवहि ।
तावदेवेश्वरो नाम तत्रभेदोऽपि न क्वचित् ।
एकोऽपि निर्विशेषोऽपि चतुर्धा व्यवहारभागित्यादिभगवत्पादीयं वचनं च । विशेषानवतारेच भेदव्यवहारा निर्विषयाः प्रसज्येरन्नतोऽचिन्त्यशक्तिरनुसरणीया । सैव ह्यखण्डेऽपि भगवद्रूपे लोकविलक्षणं विशेषं संपाद्य सकलविरोधशान्तिहेतुरत एव द्वितीयतात्पर्ये–
देहेन्द्रियादिभेदेन निर्भेदोऽपि हरिः स्वयम् ।
भण्यते केवलैश्वर्यादनाद्यानन्दचिद्धनः । इति ।
भाष्ये च–
अनन्योऽप्यन्यशब्देन तथैको बहुरूपवान् ।
प्रोच्यते भगवान्विष्णुरैश्वर्यात्पुरुषोत्तमः । इति ।
एवमन्येष्वपि ग्रन्थेषु स्वनिर्वाह्यं विशेषमनादृत्य शक्तिरेव सकलविरोधशामकतयोक्तेत्यलमतिरहस्यप्रमेयप्रतिपादनेन प्रकृतवाक्यार्थघटनौत्सुक्यविजृंभितेन । विस्तरस्तु विरोधोद्धारेऽनुसन्धेयः ।। भेदाभावे कथं विशेषमात्रेण व्यवहारविशेष इत्यत आहेति ।। इत्यतः इत्याशङ्कायां भेदाभावे व्यवहारविशेषनिर्वाहकतयैव विशेषस्य धर्मिग्राहकप्रमाणसिद्धत्वादित्याहेत्यर्थः ।
कथमनेन मूलवाक्येनैतदुक्तं भवतीत्यतस्तत्रैवेत्येवकारस्य विशेषव्यवहारवानित्यनन्तरं सम्बन्धः । तदनन्तरं विशेषो नामेत्यस्य सम्बन्धः । विशेषव्यवहारवानित्यत्र व्यवहारेत्यतःपरं विशेषेति योज्यम् । व्यवहारविशेषवानित्यर्थः । व्यवहारविशेषवत्त्वं च स्वस्य तन्निर्वाहकता । व्यवहारविशेषस्य निर्वाह्यतेत्येवं निर्वाह्यनिर्वाहकतासम्बन्धेनेति भावेन व्याचष्टे ।। यत्र वस्तुनीत्यादिना ।। व्यवहारनिर्वाहक एव हि विशेषो नामत इति ।। भेदाभावेऽपि तत्प्रतिनिधितया भेदव्यवहारनिर्वाहक एव हि नामतो विशेष इत्यर्थः । तथा चाभिन्ने भेदव्यवहारान्यथानुपपत्त्या तन्निर्वाहकतयैव विशेषः सिद्ध इति भावः । भवत्वेवं विशेषसिद्धिः प्रकृते किमायातमित्यत आह ।। विशेषादेवेति ।। तत्रैवेत्येवकारस्य यथाश्रुतं सम्बन्धमङ्गीकृत्य प्रमाणावसितपदव्यावर्त्याशङ्कां दर्शयन् व्याचष्टे ।। भेदाभावेऽपीति ।। भेदव्यवहारो भेदाभावेऽपि विशेषेणोपपन्नश्चेद्गवाश्वादावपि भेदव्यवहारो भेदाभावेऽपि विशेषेणोपपन्नः किं न स्यादित्यर्थः ।। आद्ये भेदानवस्थेति ।। भेदो भेदिभ्यां भिन्नोऽभिन्नोवा । आद्ये भेदानवस्था । द्वितीये भेदभेदिव्यवहारायोग इति भावः । विशेषोऽपि स्वरूपमित्यतःपरं विशेषादेव विशेषव्यवहारवानित्यस्यानुवृत्तिमभिप्रेत्य व्याकुर्वन् भावमाह ।। विशेषोऽपि विशेषिस्वरूपमित्यादिना ।। तमेव विशेषं विभज्य निरूपयतीति ।। नन्वेतदयुक्तम् । भेदव्यवहारनिर्वाहकः स्वनिर्वाहकश्च विशेषो हि प्रागभिहितः । न च तस्य विभागः क्रियते । वक्ष्यमाणानां चेतनत्ववस्तुत्वस्वरूपत्वचूतत्वफलत्वादीनां धर्माणां भेदव्यवहारनिर्वाहकस्वानिर्वाहकविशेषत्वाभावादिति चेत् । अत्र केचिद्विशेषनिर्वाह्यं गुणादिकं विभज्य निरूपयतीत्यर्थमाहुः । अपरेतु तमेवेत्यवधारणात् तं प्रागुक्तं स्वपरनिर्वाहकं विशेषमेवेति यथाश्रुत एवार्थः । द्रव्यमेव ततोऽनन्तविशेषात्मतया सदा । नानाव्यवहृतेर्हेतुरिति समयपादीयानुव्याख्याने । ततो वरं द्रव्यस्यैव गुणगुण्यात्मना स्वनिर्वाहकत्वमिति तत्वप्रकाशिकायाम् ।
भावाभावस्वरूपास्तु विशेषा एव वस्तुनः ।
अभिन्ना एव सङ्ग्राह्या व्यवहारप्रसिद्धये ।
इति लिङ्गपादीयानुव्याख्याने अत्तृत्वादयो दृश्यत्वादयो यद्यपि ब्रह्मणोऽभिन्ना एव । तथापि धर्मधर्म्यादिव्यवहारसिद्धये वस्तुनो धर्मिणो विशेषा अतिशया एव सङ्ग्राह्या । नतु तन्मात्राणीति तत्सुधायां शक्तिता व्यक्तिताचेति विशेषोपि विशेषवानिति तत्पादीयानुव्याख्याने, वाक्यान्तरे अभिन्ने एव शक्तिव्यक्ती न चोक्तदोषः यतस्तत्र शक्तिता व्यक्तिताचेति विशेषोऽप्यस्ति । स च भेदकार्यनिर्वाहक इति तत्सुधायाम् । स्यादेव पटोपलम्भेऽपि तद्रूपानुपलब्धिः । यतो रूपं पटाभिन्नमपि तद्विशेषतयाऽङ्गीक्रियते । न तु तन्मात्रमिति मायावादखण्डनटीकायाम् । इत्येवमादिषु बहुग्रन्थेषु निर्भेदेऽपि वस्तुनि भेदव्यवहारः कथमित्याशङ्क्य निर्भेदेऽपि चेतनादौ वस्तुनि चेतनत्ववस्तुत्वस्वरूपत्वगुणक्रियादिरूपः स्वभावभेदापरनामको विशेषोऽस्ति । स च वस्तुनाऽभिन्नोपि तन्मात्रत्वाभावात् विशेषशब्दवाच्योऽभेदप्रतिनिधित्वाद्भेदव्यवहारहेतुः । स्वस्य विशेषत्वं धर्मिणो विशेषित्वमिति धर्मधर्म्यात्मना स्वनिर्वाहकश्चेत्यस्यार्थस्य स्फुटं प्रतीयमानत्वात्तमेव विशेषं विभज्य निरूपयतीत्युपपन्नमित्याहुः । न च विशेषो नाम वस्तुनः काचिच्छक्तिरिति तत्वनिर्णयटीकायाम् । भेदहीने वस्तुन्यस्ति कश्चिच्छक्तिविशेष इति जन्माधिकरणसुधायाम् । विशेषशक्त्या निर्भेदमप्याकाशमनन्तांशोपेतमिति समयपादीयसुधायां चेत्येवमादिषु बहुषु ग्रन्थेषु वस्तुगतायाः शक्तेः विशेषत्वमुक्तमिति वाच्यम् । वस्तुतन्मात्रत्वाभावेन व्यवहारविशेयतया भेदव्यवहारनिर्वाहकश्च विशेषो रूपजात्यादिलक्षणः प्रत्यक्षसिद्धः । येन प्रत्यक्षसिद्धेन व्यवहारोऽखिलो भवेदिति वचनादेव च स्वपरनिर्वाहके रूपादौ स्वपरनिर्वाहकत्वशक्तिरतीन्द्रियाऽस्ति । तद्विवक्षया शक्तेर्विशेषत्वप्रवाद इत्युपपत्तेः । स्वपरनिर्वाहशकनाच्छक्तिरिति शक्तिपदेन स्वभावभेदापरनामकधर्माणामेव ग्रहणसम्भवाच्च । विस्तरस्तु विरोधोद्धारे ।
द्रव्यात्मनेत्यादिवाक्यजातमुभयविधविशेषपरं एतदुपपादनपर उत्तरग्रन्थे चेतनाचेतनविशेषाणां प्रतिपादयिष्यमाणत्वादित्यभिप्रेत्याह ।। एतच्चेति ।। द्रव्यात्मना स नित्योऽपि विशेषात्मैव जायत इति पूर्ववाक्ये । एवं द्विधैव स इत्युत्तरवाक्येच जात्येकवचनप्रयोगात्संदंशन्यायेन नित्या एव विशेषाश्च केचिदिति मध्ये बहुवचनमविवक्षितमिति भावेन चेतनविषये तावद्योजयति ।। चेतने कश्चिदिति ।। एतेन
केचित्कश्चिद्विशेषाः विशेषो जायते ।
कश्चिद्विशेषो नित्याः नित्य
इति व्याख्यातं भवति । मूले मध्ये बहुवचनं तु पूर्वोत्तरैकवचनं जात्यभिप्रायमिति ज्ञापयतीति ज्ञातव्यम् । जायत इत्यन्तवाक्यव्यावर्त्याशङ्कां प्रतिक्षिपति ।। न च वाच्यमिति ।। द्रव्यात्मना द्रव्यात्मकत्वेन स विशेषो नित्यः । सदातनोऽपि विशेषात्मा व्यक्तयाख्यविशेषमाप्नोतीति । विशेषात्मा व्यक्तिविशेषं प्राप्तः । जायत इत्युच्यत इति मूलार्थमभिप्रेत्य तात्पर्यमाह ।। चेतनद्रव्यात्मकत्वेनेति ।। अचेतनेच विशेषिद्रव्यस्येति ।। विशेषिद्रव्यस्य धर्मिभूतचूतफलादेर्विशेषं पीतमागन्तुकं प्रत्युपादानत्वादित्यर्थः । तेन मन्मते द्रव्यस्य निर्गुणस्यैव प्रथममुत्पत्तिरनन्तरं तदुपादानकतया गुणोत्पाद इत्यनङ्गीकारात्कथं विशेषिद्रव्यस्य विशेषोपादानत्वमिति निरस्तम् । चूतफलादेः सहजश्यामादिरूपं प्रत्यनुपादानत्वेऽप्यागन्तुकविशेषं प्रत्युपादानत्वात्पीतरूपादेः द्रव्यात्मना नित्यत्वमयुक्तम् । द्रव्यस्यैवानित्यत्वादित्यतो द्रव्यात्मनेत्येतद्व्याचष्टे ।। उपादानेति ।। स कश्चिद्विशेषः पीतादिरुपादानविशेषिद्रव्यात्मना उपादानविशेषिद्रव्यात्मकत्वेन निमित्तेन नित्योऽपि यावद्द्रव्यभाव्यपि विशेषात्मा कार्यरूपस्सन् जायते अयावद्द्रव्यभावीति यावत् । कश्चिच्चूतफलत्वादिरूपो विशेषो नित्यो यावद्द्रव्यभावी । जातेः सहजत्वात्सहैव नाश्यत्वादिति द्विविधो विशेष इत्यर्थः ।। वस्तुस्वरूपमस्त्येवमादिष्वभेदिन इति मूले एवमादिष्वित्यंशं विहाय वस्तुस्वरूपमस्त्येवेत्यत्रेति वाक्यं विभज्य केचिद्विशेषा नित्या इत्यस्यानुवृत्तिमभिप्रेत्य व्याचष्टे ।। चेतनवस्तुस्वरूपमित्यादिना ।।
एवमादिषु केचिद्विशेषा नित्या जायन्ते चेत्यनुवृत्तिमभिप्रेत्य व्याचष्टे ।। चेतनः करोतीति ।। शक्तिरूपेण नित्याः व्यक्तिरूपेण जायन्त इत्यर्थमभिप्रेत्योक्तं व्यक्तयव्यक्तियुता इति । कर्तृत्वभोक्तृत्वादीनां मुक्तावनुच्छेदेन स्वरूपत्वादिति भावः । एवं वस्तुस्वरूपमस्त्येवेत्येवमादिष्वित्यंशं व्याख्यायाभेदिन इत्युर्वरितस्यैवं द्वेधा विद्यमानविशेषाः द्रव्यात्मना विशेषिणाऽभेदिन एवेत्यनुवृत्त्या सम्बन्धमभिप्रेत्य व्याचष्टे ।। द्विविधा अपीति ।। वस्तुस्वरूपमिति वाक्यमेवाचेतने द्विविधविशेषोदाहरणपरतया व्याचष्टे ।। तथाचूतफलेति ।। अत्रापि वस्तुस्वरूपमस्तीत्यत्र केचिद्विशेषाः नित्याः अत एव द्रव्यात्मना विशेषिणाऽभेदिन एवेत्यनुवृत्तिमभिप्रेत्य व्याख्यानं ध्येयम् । एवमादिषु केचिद्विशेषा जायन्तेऽतो द्रव्यात्मना विशेषिणाऽभेदिन इत्यनुवृत्तिमभिप्रेत्यैवमादिष्वभेदिन इत्येतद्व्याचष्टे ।। पीतंचूतफलमित्यत्रेति ।। अत्र जायन्त इत्युक्त्वा पुनरभेदिन इत्युक्तेरभिप्रायमाह ।। विशेषिणा भिन्नाभिन्ना इति भाव इति ।। मूलेऽनुभवादेवेत्येवशब्दस्य ज्ञानग्राहकसाक्ष्यनुभवादेव किं प्रमाणान्तरगवेषणेनेत्यर्थः ।।
भावदीपः
उपपादकान्तरमिति ।। अचिन्त्यैश्वर्ययोगत्वापेक्षयेत्यर्थः । विशेषित इति । विशेषवत इत्यर्थः ।। न च तत्रेति ।। विशेषविशेषिणोर्भेदाभावेऽप्ययं विशेषी विशेषोऽयमिति व्यवहारो विशेषान्तरादित्यर्थः ।। विशेषव्यवहारेति ।। अयं विशेषोऽयं विशेषीति व्यवहारेत्यर्थः । तामेव योजनामाह ।। चेतन इति ।। विशेषोपादानत्वादिति ।। विशेषं प्रत्युपादानकारणत्वादित्यर्थः ।। अयावद्द्रव्यभाव्यपि इति विभागः ।। कार्येति ।। विशेषकार्यरूपेणेत्यर्थः ।।
भावप्रकाशः
अचिन्त्यैश्वर्यरूपयुक्तेरुक्तत्वाद्विशेषादेवेत्यवधारणं कथमित्यत आह । विशेषादेव केवलमितीति । तथा चैवशब्दस्यैकमित्यनेन सम्बन्धः च शब्दस्य तु विशेषादित्यनेन, केवलशब्दस्त्वनभिमतभेदव्यावृत्यर्थ इति भावः ।। एवशब्दस्य व्यवहारवानित्यनेन सम्बन्ध इत्यभिप्रेत्याह । व्यवहारविशेषनिर्वाहक एवेति । एवशब्दस्य यथाश्रुतसम्बन्धमङ्गीकृत्याह ।। तत्रैव विशेष इति । विशेषनिर्वाह इति पाठे व्यवहारविशेषनिर्वाह इत्यर्थः ।। विशेषं विभज्य निरूपयतीति । विशेषनिर्वाह्यं गुणादिकं विभज्य निरूपयतीत्यर्थः ।। भेदाभेदौ चेतनेषु, भेदाभेदौ गुणादेश्च जडे वस्तुनि संस्थितावित्युत्तरवाक्यानुसारेणाह ।। एतच्च चेतनाचेतनसाधारणमिति । विशेषात्मेत्यस्यार्थमाह । व्यक्तिविशेषविवक्षयेति । भेदो विशेषणस्यापीत्युत्तरवाक्यानुसारेणाह ।। चेतनवस्तुस्वरूपमस्तीत्यत्रेति । भेदाभेदौ च तौ नैवेति वाक्यं मनसि निधायाह । चेतनः करोति भुंक्त इति । चेतनधर्माणामभेदसाधकेनैव भेदो विशेषणस्यापीत्यादिनाऽचेतनधर्माणामपि यावद्द्रव्यभाविनामभेदः सिद्ध इत्यभिप्रेत्य तदनुसारेण जडपरत्वेन योजयति । तथाचूतफलस्वरूपमिति । नैकत्वं नापि नानात्वं नियमादस्त्यचेतन इति वचनानुसारेणाह । पीतं चूत फलमित्यत्रेति । भिन्नाभिन्ना इतीति । मूलेऽभेदिन इति सामान्याकारेणोक्तत्वाद्भेदाभेदोऽपि तदर्थ इति भावः ।।
वाक्यविवेकः
व्यवहारविशेष इति । अत्र व्यवहारशब्दो व्यवहर्तव्यभेदकार्यपरः । भेदकार्यमात्रस्य विशेषनिर्वाह्यत्वानङ्गीकारात् उक्तं विशेष इति भेदकार्यविशेषः भेदाभावे कथं निर्वाह्य इत्यर्थः ।। एवमुत्तरत्रापि द्रष्टव्यम् । यत्र वस्तुनीति । भेदाभावेऽपि भेदकार्यान्यथानुपपत्या विशेषस्य भेदकार्यविशेषकारित्वं ज्ञेयमिति भावः ।। विशेषव्यवहारो न स्यादिति ।। धर्मिणो विशेष इति व्यवहारो न स्यादित्यर्थः ।। योजनाप्रकारमेव दर्शयति । चेतन इति । चेतने कश्चिद्विशेषः कदाचिदेव जायते कश्चिद्विशेषः सर्वदाऽस्तीत्यर्थः ।। चेतननिष्टस्य विशेषस्य द्वैविध्यमुक्त्वा अचेतननिष्टविशेषस्य द्वैविध्यमाह ।। अचेतनेचेति । विशेषिद्रव्यस्य मृदादेः विशेषोपादानत्वात् घटाद्युपादानत्वात् विशेषिकारणद्रव्यात्मना सर्वदा विद्यमानोऽपि कार्यात्मना घटाद्यात्मना कश्चिद्विशेषो जायते अन्यरक्तकरणात्मनो यावद्द्रव्यभावीत्यर्थः ।। विशेष्यत्वरूपस्य निर्विशेषत्वादिति भावः ।। विशेष्यस्वरूपस्य सविशेषत्वे विशेष्यत्वभङ्गः स्यादिति भावः ।।