गीता

कर्मत्यागः मोह एव

गीता

नियतस्य तु संन्यासः कर्मणो नोपपद्यते ।

मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ।। ७ ।।

तात्पर्यम्

सङ्गफलत्यागमृते स्वरूपत्यागः कार्य इति मिथ्याज्ञानाख्यमोहात् । ‘स्वयज्ञादीन् परित्यज्य निरयं यात्यसंशयम्’ इति पाद्मे ।। ७ ।।

प्रकाशिका

‘‘नियतस्य तु संन्यासः कर्मणो नोपपद्यते ।। मोहात्तस्य परित्यागस्तामसः परिकीर्तित ।।’’ इत्यस्यार्थमाह ।। सङ्गेत्यादिना ।। ७ ।।

न्यायदीपिका

त्यागोहीत्युक्तं प्रपञ्च्यते ।। नियतस्येति ।। तत्र कर्मत्यागस्य स्वयमेव स्तूयमानत्वात्कथं मोहनिमित्तत्वमुच्यत इत्यत आह ।। सङ्गेति ।। स्वरूपत्यागस्यापि मोहनिमित्तत्वं कुतः । येनायमर्थः स्यादित्यत आह ।। स्वेति ।। ७ ।।

किरणावली

तत्र कर्मत्यागस्य स्वयमेवेति ।।

नद्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ।

त्यागी सत्त्वसमायुक्तो मेधावी च्छिन्नसंशयः ।

इत्यादाविति भावः ।।  ७ ।।

भावदीपः

भावानभिज्ञः शङ्कते ।। कर्मत्यागस्येति ।। ७ ।।

भावप्रकाशः

स्वयमेव स्तूयमानत्वादिति । काम्यानां कर्मणां न्यासमित्यादिनेत्यर्थः ।। ७ ।।