श्रीभगवानुवाच
श्रीभगवानुवाच—
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ।। १ ।।
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।
स कालेनेह महता योगो नष्टः परंतप ।। २ ।।
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ।। ३ ।।
तात्पर्यम्
उक्तयोर्ज्ञानकर्मणोरुभयोर्विशेषविस्तरात्मकोऽयमध्यायः ।
‘ब्रह्मरुद्रेन्द्रसूर्याणां यद्दत्तं विष्णुना पुरा ।
पञ्चरात्रात्मकं ज्ञानं व्यासोऽदात्पाण्डवेषु तत् ।
तेषामेवावतारेषु सेनामध्येऽर्जुनाय च ।
प्रादाद्गीतेति निर्दिष्टं सङ्क्षेपेणायुयुत्सवे ।
यथा कुर्वन्ति कर्माणि यथा जानन्ति देवताः ।
सर्वे कार्तयुगाश्चैव नृपाश्च मनुपूर्वकाः ।
ज्ञातव्यं चैव कर्तव्यं यथा सर्वैर्मुमुक्षुभिः ।
त्रैतादित्रिषु जातैश्च गीतायां तदुदाहृतम् ।
पाण्डवाद्याः क्षेमकान्ताः करिष्यन्ति च जानते ।
तथैव तेन गीताया नास्ति शास्त्रं समं क्वचित् ।
वेदार्थपूर्वकं ज्ञेयं पञ्चरात्रं यतोऽखिलम् ।
तत्सङ्क्षेपश्च गीतेयं तस्मान्नास्याः समं क्वचिदि’ इति ब्रह्मवैवर्ते ।। १ ।।
प्रकाशिका
उक्तयोरित्यनेन एतदध्यायप्रतिपाद्यमुक्त्वा इममित्यादेरर्थमाह ।। ब्रह्मेत्यादिना तेषां ब्रह्मादीनाम् ।। १ ।।
न्यायदीपिका
उक्तार्थसङ्गतत्वेनैतदध्यायप्रतिपाद्यमर्थं दर्शयति ।। उक्तयोरिति ।। ज्ञानकर्मणोर्मध्येऽन्यतरस्येति प्रतीतिनिरासायोभयोरित्युक्तम् । कर्मणोऽतीताध्याये विस्तृतत्वात्किमनेनेत्यतो विशेषेत्युक्तम् । उक्तकर्मयोगे रुचिजननाय पूर्वानुष्ठितोऽयं धर्म इत्युच्यते ।। इममिति ।। तत्तात्पर्यं स्मृत्यैवाह ।। ब्रह्मेति ।। गीतापञ्चरात्रसङ्क्षेपश्चेत्तर्हि तस्याः सर्वोत्तमशास्त्रत्वहानिरित्यतः शब्दत एव सङ्क्षेपो नार्थत इत्याह ।। यथेति ।। सर्वपञ्चरात्रार्थत्वे गीतायाः पञ्चरात्रादधमत्वमात्रं मास्तु । तावता सर्वशास्त्रोत्तमत्वं कथमित्यत आह ।। वेदेति ।। सर्वशास्त्रेभ्योऽतिशयेन वेदार्थपूरकपञ्चरात्राशेषार्थत्वेन गीतायाः सर्वशास्त्रोत्तमत्वं युक्तमिति भावः ।। १ ।।
किरणावली
द्विवचनेन द्वित्व सिद्धेरुभयोरिति व्यर्थमित्यत आह ।। ज्ञानकर्मणोर्मध्य इति ।। ननु ज्ञानस्याविस्तृतत्वात् उभयोर्विशेषविस्तरात्मक इत्ययुक्तमित्यत उभयोर्विस्तरात्मकः कर्मणो विशेष विस्तरात्मक इत्यर्थमभिप्रेत्यावतारयति ।। कर्मण इति ।। पूर्वानुष्ठितोयमिति ।। अयमित्यनेन मयि सर्वाणि कर्माणीत्यस्य परामर्शः । कथनमात्रस्य प्रकृतानुपयोगात्तत्कथनं तदनुष्ठितत्वतात्पर्यकं अत एवैवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिरिति वक्ष्यत इति भावः । मूले विवस्वद्ग्रहणमुपलक्षणमित्यभिप्रेत्योक्तं ब्रह्मरुद्रेति । ब्रह्मशब्देन वायुरप्युच्यते । सूर्यपदेन यमोश्विनावपि । ज्ञायतेऽनेनेति ज्ञानं शास्त्रम् । पञ्चरात्रजन्यं ज्ञानमेव वा । तेषां वाय्विन्द्रयमाश्विनाम् । प्रादात्कृष्णरूपेण संक्षेपेण गीतेति निर्दिष्टं पञ्चरात्रात्मकं ज्ञानमित्यर्थः ।। सर्वशास्त्रेति ।। वेदादि सर्वशास्त्रोत्तमत्वमित्यर्थः ।। सर्वशास्त्रेभ्योऽतिशयेनेति ।। वेदार्थपूरकेभ्यः सर्वशास्त्रेभ्योतिशयेन निमित्तेन तेभ्योप्यतिशयेन वेदार्थपूरकमित्यर्थः । तर्हि वेदसमानार्थत्वमापन्नम् । व्याख्यानव्याख्येय योरैकार्थ्यादिति चेन्न । वेदार्थपूरकस्यापि ततोप्यधिकार्थत्वोपपत्तेः । तथापि पञ्चरात्रसमानार्थकत्वं प्राप्तमिति शास्त्रेषु भारतं सारमित्यादि विरोध इति चेन्न । वेदार्थपूरकत्वविषये पञ्चरात्रसमानार्थकत्वेपि ततोप्यधिकार्थत्वोपपत्तेः ।। १ ।।
भावदीपः
विवृतत्वादिति ।। न कर्मणामनारम्भादित्यादिना कर्माकरणं विनिन्द्य नियतं कुरु कर्मेत्यादिना विवृतत्वादित्यर्थः । अर्थसंक्षेपं बुद्ध्वा शङ्कते ।। पञ्चरात्रसंक्षेपश्चेदिति ।। १३ ।।
भावप्रकाशः
ननु ज्ञानकर्मणोरिति द्विवचननैवोभयत्वस्य सिद्धत्वादुभयोरिति व्यर्थमित्यत आह । ज्ञानकर्मणोर्मध्य इति । सर्वोत्तमशास्त्रत्वहानिरिति ।। पञ्चरात्रसङ्क्षेपत्वे पञ्चरात्राधमत्वापत्या सर्वोत्तमत्वहानिरित्यर्थः ।। पञ्चरात्राशेषार्थकत्वेनेति । उपलक्षणमेतत् । वेदानुक्तार्थवत्वेनेत्यपि ग्राह्यम् ।। अन्यथा गीतायाः पञ्चरात्राधिक्यालाभादिति भावः ।। १३ ।।
वाक्यविवेकः
तात्पर्यमिति । यथाकुर्वन्तीत्यादेर्गीतार्थत्त्वाभावात्तत्तात्पर्यमित्युक्तम् । शब्दत एव सङ्क्षेपो नार्थत इत्याहेति । अर्थतोऽपि सङ्क्षेपश्चेत्सर्वोत्तमत्त्वहानिः स्यान्न चैवमिति भावः ।। १ ।।