तात्पर्यम्

आपद्धर्माः

तात्पर्यम्

आपत्सु विप्रः क्षात्रं तु विशां वा धर्ममाचरेत् ।

क्षात्रासिद्धौ न शूद्रस्तु विप्रक्षत्रिययोः क्वचित् ।

क्षत्रियो ब्रह्ममापत्सु तदापत्सु विशामपि ।

क्षत्रियो विप्रधर्माऽपि नैवाभैक्षप्रतिग्रही ।

वैश्य आपत्सु शौद्रं तु धर्ममेकं नचापरम् ।

शूद्र आपत्सु विड्धर्मा तदापत्सु च कारुकः ।

शूद्रस्तु वैश्यधर्माऽपि पादशुश्रूषणं विना ।

शौद्रधर्मं चरन् विप्रक्षत्रियेपु न दुष्यति ।

येषु कर्मसु याच्यः स्यात् स्वामिनाऽपि न याचिता ।

शौद्राण्यपि स्वधर्मत्वे क्षत्रियस्याऽपि यदि ।

आत्मनश्चेद् बलाधिक्यं सानुबन्धादपि प्रभोः ।

धर्मार्थं सेवतोऽर्थार्थं विप्रधर्माधिकाद् वरः ।

प्रभुणा याच्यवृत्तिस्तु विशेषेणापि धर्मभाक् ।

बाह्वोर्बलेऽधिको यः स्यात् क्षत्रियो विद्ययाऽधिकः ।

विप्रो भागवतौ चैतौ सेशा लोकास्तयोरिमे’ इति व्यासस्मृतौ ।। ४३४८ ।।

प्रकाशिका

आपत्सु क्षत्रियो विप्रवृत्तिमाचरन् भैक्षेतरहिरण्यादिपरिग्रहहीनः स्यादित्याह ।। नैव भैक्षप्रतिग्रहीति ।। (नैवार्थप्रतिग्रहीति) अत एव पाण्डवैः प्रथमवनवासे भैक्षवृत्तिराश्रिता ।। शौद्रं तु धर्ममाचरेदित्यनुषज्यते ।। येषु कर्मस्वधिकृतं स्वामी याचते भक्षभोज्यादिकं तानि शौद्राण्यपि कर्माणि स्वधर्मस्थितावापत्काले । समर्थस्य विप्रवैश्यवृत्त्युपजीवनाद्वरिष्टो धर्मः ।। यद्यसौ क्षत्रियः स्वामिनः सानुबन्धाद्वलाधिकोऽपि तमनभिभूय धर्मनिमित्तं सेवते अर्थार्थमित्याह ।। येष्वित्यादिना ।। अत एव भीमसेनेन विराटमाश्रित्य वृत्तिराश्रिता अज्ञातवासेन च विराटोपजीवननिमित्तदोषस्तस्येत्यभिप्रायवानाह ।। बाह्वोरिति ।। ४२४८ ।।

न्यायदीपिका

प्रसङ्गाद्विप्रादीनामापद्धर्मान् स्मृत्या दर्शयति ।। आपत्स्विति ।। क्षत्रियस्य विप्रधर्माचरणे विशेषमाह ।। क्षत्रिय इति ।। भिक्षेतरहिरण्यादिप्रतिग्रही स्यादीत्यर्थः । शौद्रन्तु धर्ममाचरेदिति सम्बध्यते । न शूद्रस्य विप्रक्षत्रिययोर्धर्ममाचरेदित्युक्तम् । तर्ह्यापत्सु तेन को धर्म आश्रयणीय इत्यत आह ।। शूद्र इति ।। शूद्रस्य वैश्यधर्मत्वे विशेषमाह ।। शूद्र इति ।। वेदाक्षरादिश्रवणादिमान्न भवेदित्यर्थः । क्षत्रियो ब्राह्ममापत्सु तदापत्सु विशां धर्ममाचरेदित्युक्तम् । ततोऽप्यापदि किं कार्यमित्यत आह ।। अत्यापदीति ।। विप्रक्षत्रियेषु शूद्रधर्मं शुश्रूषणं चरन्नित्यर्थः । न केवलं क्षत्रियः शूद्रधर्मं चरन्न दुष्यतीत्येव किं तर्हीत्यत आह ।। येष्विति ।। यदि क्षत्रियस्य स्वधर्मकृतावापदो भवन्ति तर्हि तस्य सानुबन्धात्स्वामिनो बलाधिक्येऽपि धर्मार्थं तमनभिभूय येषु कर्मसु नियुक्तः स्वामिनाऽपि याच्यः स्यान्नतु स्वयं याचिता । तानि शौद्राण्यपि कर्माण्यर्थाद्यर्थं सेवमानस्य विप्रादिधर्मोपजीवनादपि वरो धर्मो भवतीत्यर्थः । तत्र स्वाम्यनभिभवादपि स्वामिना याच्यत्वं विशेषेण धर्मकारणमित्याह ।। प्रभुणेति ।। विप्रधर्माद्याश्रयणे परोपजीवनाभावाच्छूद्रधर्मे तद्भावात्कथं सानुबन्धात्प्रभोर्बलाधिक्यादौ सत्यपि ततोऽस्य वरत्वमित्यत आह ।। बाह्वोरिति ।। सर्वस्य तदीयत्वान्न परोपजीवनमिति भावः ।। ४२४८ ।।

किरणावली

आपत्सु विप्र इति मूलस्यापत्सु विप्रः क्षात्रं च क्षात्रमेव धर्ममाचरेत् । तदलाभे विशांवा विशामपि धर्ममाचरेदिति योजना । न शूद्र इत्यत्र शूद्रस्तु क्वचिदापत्सुच विप्रक्षत्रिययोर्धर्मं नाचरेदिति सम्बध्यते । शौद्रं तु इति तुशब्दस्य वैश्यस्त्विति सम्बन्धः । अवधारणेवा तुशब्दः । शौद्रं धर्ममेकमेवेत्यर्थः । मूले कारुकः कर्मारतक्षकादिकर्मवान् । अत्यापदि क्षत्रियोपीत्यस्यापदि क्षत्रियोपि शौद्रं धर्मं पादशुश्रूषणं विप्रक्षत्रियेषु मध्ये चरन्नपीत्यन्यथाप्रतीतेर्व्याचष्टे ।। विप्रक्षत्रियेषु शूद्रधर्मं शुश्रूषणं चरन्नित्यर्थ इति ।। विप्रक्षत्रियेषु विषये शौद्रं धर्मं शुश्रूषां चरन् इत्यर्थः ।। किं तर्हीत्यत आहेति ।। किं तर्हीत्यत उत्तमधर्मभाक् भवतीत्याहेत्यर्थः । येषु कर्मसु याच्यः स्यादिति श्लोकद्वयमन्वयं दर्शयन्व्याचष्टे ।। यदि क्षत्रियस्येत्यादिना ।। तत्र स्वधर्मत्वे क्षत्रियस्यापदोयदीत्यादेर्व्याख्यानं यदि क्षत्रियस्येति । स्वविहितो धर्मो यस्य सः स्वधर्मः तस्य भावः स्वधर्मत्वं तस्मिन्स्वधर्मत्वे इति विग्रहमभिप्रेत्य स्वधर्मत्वं स्वधर्म एवेति च मत्वोक्तम् ।। स्वधर्मकृताविति ।। आत्मन इत्यस्य प्रतिपदं तस्येति । सानुबन्धात्प्रभोरित्यस्यार्थः ।। सानुबन्धात्स्वामिन इति ।। चेद्बलाधिक्यमित्यत्र चेच्छब्दोयद्यर्थे । तर्हीति लभ्यते । अपि शब्दस्य तेनान्वयः । यदि बलाधिक्यं तर्ह्यपीत्यर्थस्तस्य तात्पर्यं बलाधिक्येपीति । धर्मार्थं सेवत इत्यन्यथाप्रतीतेरध्याहरति ।। धर्मार्थं तमनभिभूयेति ।। धर्मार्थं तमनभिभूय तं सेवत इत्यन्वये शौद्राण्यपीत्यनन्वितं स्यादित्यतोनभिभूयेत्यतः परमेषु कर्मस्वित्यादि संयोज्य व्याचष्टे ।। येषु कर्मस्विति ।। कर्मणां याचनाधिकरणत्वाभावात् । कर्मसु याच्यः स्यादित्ययुक्तम् । विषयसप्तमीत्वपक्षेपि कर्मसु याचना स्यादिति वक्तव्यमित्यत अध्याहृत्य योजयति ।। येषु कर्मसुनियुक्तः स्यादिति ।। स्वामिनापीति ।। मयि दयांकृत्वैतत्कर्मभवद्भिः कर्तव्यमिति नियोजकेन स्वामिनापि याच्य इत्यर्थः । येष्विति श्रवणात्तानीति संयोज्य शौद्राण्यपीत्यस्यान्वयं दर्शयन्व्याचष्टे ।। तानीति ।। तानि शौद्राणि कर्माण्यर्थार्थमज्ञातवासादि प्रयोजनसिद्ध्यर्थं सेवतः सेवमानस्य भीमादेर्विप्रादिधर्मोपजीवनादपि वरो धर्मो भवतीत्यर्थ इति भावः । बाह्वोर्बलेति मूलस्य यः क्षत्रियोबाह्वोर्बलविषयेऽन्येभ्योधिकः स्याद्यश्च विप्रोविद्ययाधिकः । तावेतौ यदि भागवतौ स्यातां तर्हीमेसेशालोकास्तयोरधीना इत्यर्थः । अत्र क्षत्रियविप्रशब्दाभ्यां भीमसेनाचार्यौ मुख्यतो विवक्षितौ ।। सर्वस्य तदीयत्वादिति ।। स्वीयं वेदविदां सर्वं देवेशानां तु किं पुनः । ततस्तेन्याश्रयं नैव चक्रुः स्वबलसंश्रयादित्युक्तरीत्येति भावः ।। ४२४८ ।।

भावदीपः

श्लोकद्वयं एकान्वयेन योजयति ।। यदि क्षत्रियस्येत्यादिना ।। ४८ ।।

भावप्रकाशः

विशेषनिषेधः शेषविधिं गमयतीति न्यायं मनसि निधायाह । भिक्षेतरहिरण्यादिप्रतिग्राहीति । ननु विप्राणामपि वेदाक्षररूपत्वाभावाद्विशिष्य शूद्रस्य निषेधोऽनुपपन्न इत्यत आह । वेदाक्षर श्रवणादिमानिति । विप्रक्षत्रियेषु न दुष्यतीति सम्बन्धप्रतीतिनिरासायाह विप्रक्षत्रियेषु शूद्रधर्म इति ।। ४२४८ ।।