तात्पर्यम्

तात्पर्यम्

—यन्न पश्येत्परो विष्णुर्द्वितीयत्वेन स स्वतः ।

तद्द्वितीयं न भवति प्रादुर्भावात्मकं वपुः ।

प्रधानपुरुषादन्यद्यत्तस्माद्भिन्नमीश्वरः ।

विभक्तत्वेन नियतं यस्मात्पश्यति सर्वदा ।

पश्यन्नेव यतो विष्णुस्तदभेदं न पश्यति ।

चेतनाचेतनस्यास्य नाभेदोऽस्ति ततोऽमुना ।

न हि ज्ञानविलोपोऽस्ति सर्वज्ञस्य परेशितुः ।

जीवाः ब्रह्माणि, लक्ष्मीः परमहिम, परमात्मा परब्रह्म

ब्रह्माणि जीवाः सर्वेऽपि परब्रह्माणि मुक्तिगाः

प्रकृतिः परमं ब्रह्म परमं महदच्युतः

नैव मुक्ता न प्रकृतिः क्वापि हि ब्रह्मवैभवम् ।

प्राप्नुवन्त्यपि तज्ज्ञानान्निजं ब्रह्मत्वमाप्यते ।

यद्यस्य परमेशित्वं तदा स्याद्दुःखिता कुतः ।

दुःखी चेत्कुत ईशत्वमनीशो ह्येव दुःखभाक् ।

कुतः सर्वविदोऽज्ञत्वं क्व भ्रमोऽप्यज्ञतां विना ।

तस्मान्नैवेश्वरो जीवस्तत्प्रसादात्तु मुच्यते ।

प्रकाशिका

‘विज्ञानघन एव एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्तीति ओ ब्रवीमीति होवाच याज्ञवल्क्यः । साहोवाच मैत्रैय्यत्रैव मा भगवान् मोहान्तमापीपन्न प्रेत्य संज्ञास्तीति होवाच । न वा ओऽहं मोहं ब्रवीमि । अविनाशी वा ओऽयमात्माऽनुच्छित्तिधर्मा । यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति । तदितर इतरं जिघ्रति । यत्र त्वस्य सर्वमात्मैवाभूत् । तत्केन कं पश्येत् । तत्केन कं जिघ्रेत् । येनेदं सर्वं विजानाति, तं केन विजानीयात् । बिज्ञातारमरे केन विजानीयात्’ इत्येतां श्रुतिं व्याख्याय ‘यद्वैतं न पश्यति’ इत्येषा श्रुतिः व्याख्यायते ।। यन्न पश्येदित्यादिना ।। ‘स यो ह वै तत्परम् ब्रह्म वेदे’ त्येषा श्रुतिर्व्याख्यायते ।। ब्रह्मणीत्यादिना ।।

न्यायदीपिका

यद्वैतन्न पश्यति नतु तद्द्वितीयमस्ति इत्यस्यार्थो यदिति । ततोन्यद्विभक्तं यत्पश्येदित्ये तद्व्याक्रियते ।। प्रधानेति ।। अन्यदवतारव्यतिरिक्तमीश्वरेण भिन्नतया दृष्टत्वात्प्रधानपुरुषादिकं भिन्नमेवेश्वरादित्युक्तम् । अभिन्नतया सर्वज्ञेनेश्वरेणादृष्टत्वाच्चभिन्नमित्युपपादकं पश्यन्वैतन्नपश्यतीति एतद्वाक्यं व्याक्रियते ।। पश्यन्निति ।। प्रधानादीनां स्वतो भिन्नत्वेन दर्शनमीश्वरस्य भ्रमः किं नस्यादित्याशङ्कापरिहाररूपं नहि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यत इत्येतद्व्याक्रियते ।। नहीति ।। विपरिलोपो विपरीतत्वम् । अविनाशित्वादिति । नित्यत्वेन निर्दोषत्वादित्यर्थः ।

परमं ब्रह्म वेद ब्रह्मैव भवतीति श्रुतिं व्याख्यातुं तदुपयुक्तमाह ।। ब्रह्माणीति ।। श्रुतिव्याख्यानमपीति । यद्यपि परमं ब्रह्म वेद तथापि ब्रह्मैव भवति न परंब्रह्मभवतीत्यर्थः । कुत इत्थं कल्प्यते । परब्रह्मज्ञानेन परब्रह्मत्वं भवतीत्येवार्थः किं नस्यादित्यत आह ।। यदीति ।। यदि जीवस्य मुक्तौ परमेश्वरैक्यं स्यात्तर्हि संसारेपि तथास्यात् । प्राग्भिन्नस्य पश्चादभेदानुपपत्तेर्नैतद्युज्यते । तथात्वे दुःखानुपपत्तेरितिभावः । कुतोन स्याद्दुःखितेत्यत आह ।। दुःखीति ।। परमेश्वरभूतस्याप्यज्ञानवशाद्दुःखित्वमित्यत आह ।। कुत इति ।। सर्वज्ञस्यापि भ्रांत्याऽज्ञानमित्यत आह ।। क्वेति ।। भ्रमस्याधिष्ठानाज्ञानमूलत्वादज्ञानस्य च भ्रान्तिमूलत्वाङ्गीकारेऽन्योन्याश्रयतेति भावः ।

किरणावली

प्रधानपुरुषाद्यन्यदित्यस्येयं योजना । प्रधानं जडप्रकृतिः तदभिमानिनी श्रीश्च । पुरुषो हिरण्यगर्भः । आदिपदेन महदहङ्कारादितत्वानि तदभिमानिनश्च । तस्मादवताररूपादन्यत् प्रधानपुरुषादि । तदीश्वरो विभक्तत्वेन सर्वदा पश्यति । तस्मात्तद्भिन्नं नियतं भिन्नमेवेति । सर्वज्ञेनेत्यनेन पश्यन्निति व्याख्यातं भवति । मूले सर्वज्ञ एव तदभेदं स्वस्य न पश्यतीति योज्यम् । अमुना विष्णुना । यद्यप्य चेतनाभेदो न प्रसक्तः । तथापि सर्ववैलक्षण्यज्ञानस्य मोक्षान्तरङ्गत्वादिह तदुपपादितम् । विपरीतत्वमित्यर्थवैपरीत्यमतद्वतितत्प्रकारकत्वमिति यावत् । कुतो नास्तीत्यतो द्रष्टुरित्युक्तम् । तस्यार्थः सर्वज्ञस्येति । अधिष्ठानयाथार्थ्यज्ञानिन इत्यर्थः । तदपि कुत इत्यतः । अधिष्ठानयाथात्म्याज्ञानस्य दोषमूलकत्वात् । तदभावेऽभावनिश्चयादिति भावेनाविनाशित्वादित्युर्वरितं श्रौतपदं व्याचष्टे ।। अविनाशित्वादिति ।। अनित्यत्वं देहहानिर्दुःखप्राप्तिरपूर्णतेत्युक्तरीत्या चतुर्विधनाशाभावेन निर्दोषत्वादित्यर्थः । परमं महदच्युत इत्यत्र परमं महत् ब्रह्मेति वर्तते । ननु प्रकृतानुपयुक्तं किमिहोच्यते । श्रुतौ परमं ब्रह्म वेदेत्येवोक्तेः । प्रत्युतानेन प्रमाणेन परमं ब्रह्म श्रीतत्वं वेदेत्येवार्थप्राप्तेरिति चेन्न । मुक्तिगास्तु परब्रह्माण्यपि प्रकृतिः परमं ब्रह्मापि इत्यर्थाङ्गीकारेणाच्युतस्यापि मुख्यतः परमं ब्रह्मेत्यनेन वाच्यत्वात् प्रकृतोपयोगोपपत्तेः । तदुक्तं विष्णुतत्त्वविनिर्णयटीकायाम् । सर्वेऽपि मुक्ता अमुक्ताश्च मुक्तिगास्तु परब्रह्माण्यपीति प्रकृतिरपि नाप्राप्नोतीति योज्यम् ।।

श्रुतिव्याख्यानमपीतीति ।। अपि तज्ज्ञानादित्यादिकं श्रुतिव्याख्यानरूपमित्यर्थः । यद्यस्य परमेशत्वमित्यत्र तदा मुक्तौ यद्यस्य परमेशत्वं स्यात् तर्हि तदा संसारेऽपि परमेशत्वं स्यात् । यद्यस्य तदासंसारेऽपि परमेशत्वं स्यात् तदा दुःखिता कुतः स्यादित्यावृत्त्यभिप्रायेण व्याचष्टे ।।

भावप्रकाशः

पश्यन् वै इति । सर्वज्ञ एवेत्यर्थः ।। अविनाशित्वादिति श्रौतपदमनूद्य व्याचष्टे ।। नित्यत्वेन निर्दोषत्वादिति ।। ब्रह्माणीति मूलस्य सर्वेऽपि मुक्ता अमुक्ताश्च । मुक्तिगास्तु परंब्रह्माण्यपि । प्रकृतिर्महालक्ष्मीः । परशब्दादतिशये मप्रत्यय इति भावः ।। परमं महत् ब्रह्मेति वर्तते ।। क्वापि देशे काले वा वैभवं महिमानमित्यर्थः ।। परमं ब्रह्मेति श्रुतिं व्याकुर्वन्नेवोत्तरवाक्यमवतारयति ।। यद्यपि परममिति ।। ननु मुक्तौ जीवस्य परमेशत्वाङ्गीकारेण तदानीं दुःखस्याभावादिष्टापत्तिरित्यत आह । यदि जीवस्य मुक्ताविति । अज्ञानाभावेऽपि दोषवशात् भ्रमः किं नस्यात् इत्यत आह । भ्रमस्याधिष्टानज्ञानेति ।

वाक्यविवेकः

यद्वैतन्नपश्यतीति । यत् द्द्वैतं न पश्यतीत्यत्र द्द्वैतमिति पदच्छेदममिप्रेत्य यन्न पश्येत् इत्यनेनार्थमाहेत्यर्थः । अथेतोऽन्यद्विभक्तं यत्पश्येत् इत्यनेनैव पूर्णत्वात् पश्यन्वैतन्नपश्यतीति वाक्यं व्यर्थमित्याशङ्कापरिहारेणैतद्वाक्यस्य सार्थक्यमुपपद्य तद्व्याख्यानवाक्यं दर्शयति । इश्वरेणेत्यादिना । ईश्वरेण भिन्नतया दृष्टत्वात् प्रधानपुरुषादिकमीश्वराभिन्नमेवेत्युक्तमिति ततोऽन्यद्विभक्तं यत्पश्येदिति वाक्यार्थानुवादः । अभिन्नस्य सर्वज्ञेनेश्वरेणादृष्टत्वाच्च भिन्नमित्युपपादकं पश्यन् वै तन्न पश्यतीतितावद्वाक्यं वैयर्थ्यशङ्कानिरासप्रयुक्तसार्थक्याभिधायकम् ।। शिष्टं व्याख्यानप्रदर्शकमिति विवेकः । एतेन पश्यन् वै तन्न पश्यतीत्येतत् व्याक्रियत इत्येतावता पूर्णत्वात् शिष्टं व्यर्थमिति परास्तम् । नित्यत्वेनेति । अविनाशत्वादिति नित्यत्वोक्तया निर्दोषत्वलाभादित्यर्थः । अनित्यत्वं देहहानिर्दुःखप्राप्तिरपूर्णतेति श्लोके दुःखपदेन उपलक्षणतया दोषमात्रं गृहीत्वा दोषप्राप्तेरपि नाशत्वस्योक्तत्वात् नित्यत्वोक्तया दोषाभावो लभ्यत इति भावः । एतेन नित्यस्यापि तमोयोग्यस्वरूपज्ञानस्य दोषदर्शनात् नित्यत्वेन निर्दोषत्वादित्ययुक्तमिति दूषणं परास्तम् । श्रुतिव्याख्यानमपीति । अपि तज्ज्ञानान्निजं ब्रह्मत्वमाप्यत इति मूलं परमं ब्रह्म वेद ब्रह्मैव भवतीति श्रुतिव्याख्यानमित्यर्थः । श्रुतिद्द्वयं व्याचष्ट इत्यर्थः ।