तात्पर्यम्
तात्पर्यम्
अनिर्वचनीयत्वपक्षेऽपि सदिदं रजतमित्यविद्यमानसत्त्वप्रतीतिं विना न हि भ्रान्तित्वम् । भ्रान्तिसत्त्वाङ्गीकारेऽप्यभ्रान्तं सदिदं रजतमित्यविद्यमानसत्वप्रतीतौ हि प्रवर्तते । तस्मादुभयविलक्षणं न किञ्चित् ।
न्यायदीपिका
भवेदेतद्यदिभ्रान्तौ प्रतीयमानाकारस्यासत्त्वं संप्रतिपन्नं स्यात् । नैतदस्ति । अनिर्वचनीयत्वाङ्गीकारात् । अनिर्वचनीयप्रतीतौ भ्रमत्वोपपत्तेः । अतः कथं भ्रान्तावसतः सत्त्वेन प्रतीतिरित्यत आह ।। अनिर्वचनीयत्वेति ।। अस्त्वनिर्वचनीयत्वं भ्रान्तौ प्रतीयमानाकारस्य । तथापि न भ्रान्तावसतः सत्त्वेन प्रतीतिर्निवारयितुं शक्यते । तथाहि तदनिर्वचनीयं रजतं किं भ्रान्तावनिर्वचनीयतयैव प्रतीयते सदिदमिति वा । नाद्यः । सदिदमिति प्रतीतिं विनाऽनिर्वचनीयमित्येव प्रतीतौ भ्रान्तित्वायोगात् । अन्यथा बाधकज्ञानस्यापि भ्रमत्वप्रसङ्गात् । परिभाषामात्रस्यान्यथयितुमपि शक्यत्वात् । द्वितीये च तत्सत्त्वं सदसद्वा । नाद्यः । अनिर्वचनीयत्वविरोधात् । भ्रान्तित्वानुपपत्तेश्च । द्वितीये प्राप्तमसतः सत्त्वेन प्रतिभानमितिभावः । नानिर्वाच्यरजतस्य सत्त्वमसत् । किंतु प्रातीतिकमतो नासतः सत्त्वेन प्रतीतिरित्यत आह ।। भ्रान्तीति ।। अस्तु तावदनिर्वचनीयस्य सत्त्वं प्रातीतिकम् । तथाप्यसतः सत्त्वेन ख्यातिर्दुष्परिहरा तथाहि । तत्प्रातीतिकं सत्वं किं प्रातीतिकमेव प्रतीयत उत व्यावहारिकमिति । नाद्यः । प्रवृत्यभावप्रसङ्गात् । द्वितीये तस्य व्यावहारिकत्वं सदसद्वा नाद्यः । प्रतीतिकत्वविरोधात् । द्वितीये तु कथं नासतः सत्वेन ख्यातिरिति भावः । अतोऽसद्वैलक्षण्यसाधकार्थापत्तेर्दुष्टत्वान्न कस्यापि भ्रमविषयस्यानिर्वाच्यतेत्युप संहरति ।। तस्मादिति ।।
किरणावली
अस्त्वित्यादिना ।। निवारयितुं न शक्यत इत्यन्तेन ।। तदुपपादयितुं विकल्प्याद्यपक्षदूषणपरतया सदिदं रजतमिति प्रतीतिं विना न भ्रान्तित्वमित्यंशं व्याचष्टे ।। तथा हीत्यादिना ।। भ्रान्तित्वायोगादिति ।। अनिर्वचनीयविषयज्ञानस्य त्वया भ्रान्तित्वस्याङ्गीकर्तुमशक्यत्वादित्यर्थः ।। अन्यथेति ।। बाधकज्ञानस्याप्यनिर्वचनीयविषयत्वादिति भावः । ननु भ्रमस्य प्रातिभासिकानिर्वचनीयार्थविषयत्वात् । बाधकज्ञानस्य च व्यावहारिकानिर्वचनीयार्थविषयत्वाद्वैषम्यमित्यत आह । परिभाषामात्रस्येति ।। व्यावहारिकप्रातिभासिकसद्भेदे प्रमाणाभावात् । दीर्घभ्रमविषयाल्पकालीनभ्रमविषययोः शुक्तयारोपितरजतयोरपि व्यावहारिकप्रातिभासिकभेदस्य कर्तुं शक्यत्वेनाप्रामाणिक परिभाषामात्रस्यान्यथयितुमपि शक्यत्वादित्यर्थः ।
द्वितीयमपि द्वेधा विकल्प्याद्योत्तरत्वेनानिर्वचनीयत्वपक्षेऽविद्यमानसत्वप्रतीतिं विना न भ्रान्तित्वमित्यंशं दूषणद्वयपरतया व्याचष्टे ।। द्वितीये च तत्सत्वमिति ।। यदि तत्सत्वं सदेव तर्हि नानिर्वचनीयं ब्रह्मसत्त्ववत् । अतोऽविद्यमानसत्वं विना सत्वस्यासत्वं विना त्वदभ्युपगतानिर्वचनीयत्वविरोधादित्यर्थः । तथात्वे तत्प्रतीतेस्तद्वतितत्प्रकारकत्वेन ब्रह्मज्ञानवत् सत्वस्याविद्यमानत्वं विना भ्रान्तित्वानुपपत्तेरिति मूलारोहो द्रष्टव्यः ।। द्वितीये इति ।। अनिर्वचनीये रजते प्रतीयमानस्य सत्त्वस्य सत्यत्वेऽनिर्वचनीयत्वभङ्गप्रसङ्गात् । तत्प्रतीतेर्भ्रान्तित्वायोगात् । तत्सत्त्वमसदेव सत्त्वेन प्रतीयत इति द्वितीये पक्षेऽङ्गीकार्ये इत्यर्थः । भ्रान्तिसत्वाङ्गीकारेऽप्यभ्रान्तं सदिदं रजतमित्यविद्यमानसत्त्वप्रतीतौ हि प्रवर्तत इत्यत्र भ्रान्तिसत्वाङ्गीकारेपीत्यंशस्यानिर्वचनीयस्येति शेषं पूर्ववाक्यादविद्यमानसत्त्वप्रतीतिं विना नभ्रान्तित्वमित्यनुवृत्तिं चाभिप्रेत्य व्याचष्टे ।। अस्तु तावदिति ।। तदुपपादयितुं विकल्प्याद्योत्तरत्वेनाभ्रान्तं सदिति प्रतीतौ हि प्रवर्तत इत्यंशं हि शब्दस्य हिहेताववधारण इत्यभिधानादवधारणार्थकत्वं मत्त्वा व्यावहारिकं सदिति प्रतीतावेव प्रवर्तते । न तु प्रातीति कमिति प्रतीतौ प्रवर्तत इत्यर्थतया योजयति ।। तथाहीत्यादिना ।। प्रवृत्त्यभावेति ।। नहि प्रातीतिकं कदाचिदनेनार्थक्रियासूपयुज्यमानं दृष्टम् । ये न तत्प्रतीत्यापि प्रवर्तेतेति भावः । प्रातीतिकं सत्त्वं व्यावहारिकमिति प्रतीयत इति ।
द्वितीयेऽपि विकल्प्याद्यपक्षोत्तरत्वेन प्रवृत्तस्य भ्रान्तिसत्वाङ्गीकारेऽप्यभ्रान्तं सदित्यविद्यमानसत्वप्रतीतौ हीत्यंशस्य अनिर्वचनीयरजतस्य प्रातिभासिकसत्यत्वाङ्गीकारमते । तस्य इदमभ्रान्तं सद्व्यावहारिकम् । सदित्यविद्यमानव्यावहारिकसत्वप्रतीतावेव घटनेति शेषः । प्रतीयमानं व्यावहारिकसत्त्वं असदेवेत्यङ्गीकार एव । स्वाङ्गीकृतस्य प्रातिभासिकसत्त्वस्य घटना न तु सदित्यङ्गीकारे इत्यर्थमभिप्रेत्य व्याचष्टे ।। नाद्य इति ।। द्वितीये त्विति ।। द्वितीयेऽङ्गीकार्ये इत्यर्थः ।। न कस्यापीति ।। शुक्तौ प्रतीयमानस्य तत्राप्रतीयमानस्य व्यावहारिकसत्त्वस्य वेत्येवं न कस्यापीत्यर्थः ।
भावदीपः
बाधकज्ञानस्यापीति ।। श्रुतौ प्रतीतं रूपमनिर्वचनीयमेव न व्यावहारिकं सदपीति परस्य बाधकज्ञानोदयादिति भावः ।। अनिर्वचनीयत्वविरोधादिति ।। सत्यभूतसत्त्वाश्रयस्य सद्वैलक्षण्यायोगादिति भावः ।
भावप्रकाशः
भ्रान्तित्वायोगादिति ।। अनिर्वचनीयविषयकज्ञानस्य त्वया भ्रान्तित्वानङ्गीकारादित्यर्थः ।। अन्यथेति । बाधकज्ञानस्यापि अनिर्वचनीयविषयकत्वादिति भावः ।। ननु भ्रमस्य प्रातिभासिकानिर्वचनीयविषयत्वाद्बाधकस्य व्यावहारिकानिर्वचनीयविषयकत्वाद्वैषम्यमित्यत आह । परिभाषामात्रस्यान्यथयितुमपि शक्यत्वादिति ।। इदं व्यावहारिकमिदं प्रातिभासिकमिति भेदस्याप्रामाणिकत्वात्परिभाषामात्रस्येत्युक्तम् ।। अनिर्वचनीयत्वविरोधादिति । नहि यस्य सत्वं सत्तदनिर्वचनीयमिति सम्भवतीति भावः ।। भ्रान्तित्वानुपपत्तेश्चेति ।। अनिर्वचनीयविषयकज्ञानस्य भ्रान्तित्वे ब्रह्मविषयकज्ञानस्यापि भ्रान्तित्वं स्यादिति भावः ।। किं तु प्रातीतिकमिति ।। प्रतिभासिकमित्यर्थः । प्रवृत्यभावप्रसङ्गादिति । न हि प्रातिभासिकं कदाचिदनेनार्थक्रियासूपयुज्यमानं दृष्टं येन तत्प्रतीत्याऽपि प्रवतेति भावः ।। प्रातीतिकत्वविरोधादिति ।। न हि यस्य व्यावहारिकत्वं सत् तत्प्रातिभासिकमिति भावः । द्वितीये कथं नासत इति ।।
ननु रजतमिदमिति ज्ञानादेव प्रवृत्तिः प्रवृत्तिविषयविशेष्यकेष्टतावच्छेदकप्रकारज्ञानस्यैव प्रवर्तकत्वात् ।। नतु प्रातिभासिकवैलक्ष्यण्यज्ञानाद्येनासतोऽप्यपरोक्षप्रतीत्यापत्तिरिति चेन्न । अनुभवविरोधात् । विधिनिषेधाववधूय प्रत्ययायोगाच्च । इदं रजतं प्रातिभासिकमिति ज्ञानादपि प्रवृत्यापत्तेश्च । नह्यस्य साक्षात्प्रवृत्तौ प्रतिबन्धकत्वं प्रवृत्तिविषयाभावानवगाहित्वात् । अपि तु प्रवृत्तिजनकप्रातिभासिकज्ञानविघटकत्वेनैव तथा च प्रवर्तकापरोक्षज्ञाने रजतत्वादिवदसदपि प्रातिभासिकवैलक्षण्यप्रकारत्वेन प्रातिभासत इत्यङ्गीकार्यमिति ।।
वाक्यविवेकः
भवेदेतदिति । असत् सत्वेन भ्रान्तौ प्रतीयत इत्येतत् भवेदित्यर्थः । अनिर्वचनीयप्रतीतौ चेति । प्रातिभासिकविषयत्वादिति शेषः । किं भ्रान्ताविति ।। किं प्रातिभासिकतया प्रतीयते उत व्यावहारिकतयेत्यर्थः ।। भ्रान्तित्वायोगादिति । प्रतिभासिकमिति प्रतीतौ यथास्वरूपं प्रतिभासात् भ्रान्तित्वं न स्यादित्यर्थः ।
इतः परं टीकाभेदेन वाक्यं भिद्यते । एकस्यां टीकायां एतद्वाक्यानन्तरं, अन्यथा भ्रान्तिज्ञानस्यापि भ्रमत्वप्रसङ्गात् इति वाक्यं श्रूयते तस्यार्थः । यथारूपमर्थावगाहनेऽपि यदि रजतमिति ज्ञानं भ्रमः तर्हि अनुव्यवसायोऽपि भ्रमः स्यात् । यथास्वरूपं विषयीकारित्वस्य भ्रमत्वाविरोधित्वात् इति । टीकान्तरेतु एतद्वाक्यानन्तरं, अन्यथा बाधज्ञानस्यापि भ्रमत्वप्रसङ्गात् इति वाक्यं श्रूयते । यथास्व रूपमर्थावगाहनेऽपि यदि रजतमिति ज्ञानं भ्रमः तर्हि प्रातिभासिकरजतभिन्नतया शुक्तिविषयकं नेदं रजतमपि तु शुक्तिरेवेति बाधकज्ञानमपि भ्रमः स्यात् । स्वरूपानुसारेणार्थविषयकत्वस्य भ्रमत्वाविरोधित्वात् इति । ननु प्रातिभासिकार्थविषयत्वं भ्रमत्वमिति परिभाषा क्रियत इत्यत आह ।। परिभाषामात्रस्येति । व्यावहारिकार्थविषयत्वं भ्रान्तित्वमित्यपि परिभाषाकर्तुं शक्येति भावः । तत्सत्वमिति ।। रजते प्रतीयमानं व्यावहारिकसत्वं सद्वासद्वेत्यर्थः । अनिर्वचनीयत्वेति । यस्य व्यावहारिकं सत्यं सत् तत् व्यवहारिकमेवेति नियमात् प्रातिभासिकत्वविरोधादित्यर्थः ।। भ्रान्तित्वेति । यथास्वरूपं वस्तुविषयीकारिज्ञानस्य भ्रमभिन्नत्वनियमादिति भावः । द्वितीय इति । रजते प्रतीयमानं व्यावहारिकसत्वमसदिति पक्षे प्रामाण्यभ्रमवेलायां अस्मिन् रजते प्रतीयमानं व्यावहारिकत्वं न प्रातिभासिकम् । अपि तु घटादिसत्वं यथा व्यवहारिकं तथेदमपि व्यावहारिकमिति ज्ञानं भवति । अस्मिंश्च ज्ञाने शुक्तिरजतगतस्यासद्व्यावहारिकत्वस्य सत्वेन विषयीकरणमस्तीति भावः ।। एतेन भ्रान्त्या असतो व्यावहारिकत्वस्य विषयीकरणेऽपि न सत्वेन विषयीकरणं अपि तु सत्वासत्वौदासीन्येन । ततश्च नासतः सत्वेन प्रतीतिसिद्धिरिति परास्तम् । मूले भ्रान्तिसत्यत्वेति । भ्रान्तिसत्यत्वशब्दः प्रातिभासिकसत्यत्ववाची । ततश्च शुक्तिरजतस्य प्रातिभासिकसत्यत्वस्य विद्यमानत्वेऽपि न तद्ज्ञात्वा प्रवर्तते अपि तु विद्यमानं अप्रतिभासं सत्वं ज्ञात्वा प्रवर्तत इति भावः । असतः सत्वेनेति । अव्यावहावरिकत्वस्य सत्वेन ख्यातिः प्रामाण्यभ्रमदशायां दुष्परिहारेत्यर्थः ।। प्रातीतिकं सत्वमिति । प्रातीतिकसत्वावच्छिन्नं रजतं प्रातीतिकमिति प्रतीयते उत व्यावहारिकमिति प्रतीयत इत्यर्थः ।। एतेन सदिदं रजतमिति ज्ञानेन प्रवृत्तेः दर्शनात् प्रातीतिकरजतं प्रातीतिकमिति प्रतीयते उत व्यावहारिकमिति प्रतीयत इति वक्तव्यम् । सदिदं रजतनिष्टसत्वमिति ज्ञानेन प्रवृत्तेरदर्शनात् प्रातीतिकं सत्वं प्रातीतिकमिति प्रतीयते उत व्यावहारिकमिति प्रतीयत इति कथनमयुक्तमिति दूषणं परास्तम् । द्वितीय इति । व्यावहारिकत्वेन रजतं प्रतीयत इति पक्षे तत्र प्रतीयमानं व्यवहारिकत्वं सद्वा असद्वेत्यर्थः ।। प्रातीतिकत्वेति । यत्र व्यावहारिकत्वं सत् तत्र न प्रातीतिकत्वं इति नियमादिति भावः । द्वितीय इति । प्रातिभासिके रजते प्रतीयमानं व्यावहारिकत्वमसदिति पक्षे प्रामाण्यभ्रमदशायां व्यावहारिकं सत्वं सत्वेन प्रतीयत इति असतः सत्वेन प्रतीतिर्नास्तीति कथं इति भावः । एतेन व्यवहारिकतया रजतप्रतीतिमात्रेण प्रतीत्युत्पत्तौ असतो व्यावहारिकत्वस्य सत्वेन विषयीकरणं नापेक्षितमिति दूषणं परास्तम् । प्रामाण्यभ्रम एव असद्व्यावहारित्युकं सत्वं सत्वेनावगाहत इत्यत्र तात्पर्यात् ।। तस्मादितीति ।