गीता

देहनाशभयं जीवस्वरूपनाशभयं च न युक्तम्

गीता

न त्वेवाहं जातु नाऽसं न त्वं नेमे जनाधिपाः ।

न चैव न भविष्यामः सर्वे वयमतः परम् ।। १२ ।।

तात्पर्यम्

बन्धुस्नेहाद्धि त्वया स्वधर्मनिवृत्तिः क्रियते । तत्र देहनाशभयात्किं वा चेतननाशभयात् ? देहस्य सर्वथा विनाशित्वान्न तत्र भये प्रयोजनम् । न च चेतननाशभयात् । तस्याविनाशित्वादेव ।