गीता
गीता
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ।। १८ ।।
तात्पर्यम्
कर्मणि जीवे अस्वातन्त्र्यादकर्म कर्मविधिफलयोरभावात् । अकर्मणि विष्णौ । स्वातन्त्र्यात्सर्वकर्तृत्वम् ।
करोऽस्मिन् मीयत इति कर्मजीव उदाहृतः ।
विधिशब्देनामितत्वात् अकर्म भगवान् हरिः ।। इति नारदीये ।
कर इति सकारान्तः अदृष्टवाची । क्रियावाची वा । तदधीनत्वात् । प्रसिद्धश्च जीवे कर्मशब्दः पञ्चरात्रे । कृत्स्नफलवत्वात् कृत्स्नकर्मकृत् ।
प्रकाशिका
उत्तरश्लोकं व्याचष्टे ।। कर्मणीत्यादिना ।। कृत्स्नकर्माकरणे कृत्स्नकर्मकृत्यं कृत्स्नफलवत्त्वादवगन्तव्यम् ।। १८ ।।
न्यायदीपिका
एतद्बोधनं स्तूयते ।। कर्मणीति ।। तत्र पूर्वार्धं दुर्गमार्थत्वाद्व्याचष्टे ।। कर्मणीति ।। कर्मविधिफलयोरभावादकर्मेत्यनेन तद्भावाज्जीवः कमेंति सूचितं । जीवेश्वरयोरेवं व्युत्पत्त्या कर्माकर्मपदवाच्यत्वं कुत इत्यत आह ।। कर इति ।। अमितत्वादविषयीकृतत्वादित्यर्थः । कोयं करो नामेत्यत आह ।। कर इति ।। करशब्दस्य हस्तादिवाचित्वमेव दृष्टं नादृष्टादिवाचित्वमित्यत उक्तम् ।। सकारान्त इति ।। हस्तादिवाचिनोऽयं सकारान्तोऽन्य एवेति भावः । कर्मविधिवाचीचेति द्रष्टव्यं । अत एव कर्मविधीत्याद्युक्तम् । अनेन विधिशब्देनामितत्वं अकर्मपदेन कथमुच्यत इति परास्तम् । अकर्तरि जीवे कथं करो मीयत इत्यत आह ।। तदिति ।। नाकर्तरि क्रियादर्शनं विरुद्धं स्वातन्त्र्येणाकर्तृत्वेपि भगवदधीनकर्तृत्वेपि भगवधीनकर्तृत्वादिति भावः । अत एव पूर्वमस्वातन्त्र्यादित्याद्युक्तम् । कर्मशब्दस्य जीवे विद्वद्रूढिं च दर्शयति ।। प्रसिद्धश्चेति ।। ननु ज्ञानिनः स्वातन्त्र्येण पारतन्त्र्येण वा कृत्स्नकर्माकरणात्कथं कृत्स्नकर्मकृत्त्वमुच्यत इत्यत आह ।। कृत्स्नेति ।। स्वयोग्याशेषकर्मफलमोक्षस्य नियतत्वादिति भावः ।। १८ ।।
किरणावली
कर्मविधिवाचीचेति स्वोक्ते अर्थान्तरे ज्ञापकमाह ।। अत एवेति ।। इत्यादीत्यादिपदेन विधिशब्देनामितत्वादित्यस्य परिग्रहः ।। अनेनेति ।। करश्शब्दस्य कर्मविधिवाचित्व कथनेनेत्यर्थः । कृत्स्नफलवत्त्वमपि बाधितमित्यत आह ।। स्वयोग्यस्याशेषकर्मफलस्य मोक्षस्य नियतत्वादित्यर्थः । नतु स्वयोग्यं यदशेषं कर्म तत्फलस्येत्यर्थः । तथात्वे स्वयोग्यकृत्स्नकर्म कृदित्येतावता बाधकाभावेन फलपर्यन्तं धावनायोगात् । उक्तं च पद्मनाभतीर्थ श्रीमच्चरणैः । कृत्स्नकर्माकरणेपि कृत्स्नकर्मकर्तृत्वं कृत्स्नफलवत्त्वादवगन्तव्यमिति । नन्वाचार्यैरपि स्वयोग्यकृत्स्नकर्मकृदित्येव कुतो न व्याख्यातमिति चेन्न । कर्माकरणेपि तत्फलप्राप्तेरत्राभिमतत्वादिति बोध्यम् ।। १८ ।।
भावदीपः
सकारान्त इतीति ।। करः कर्मविधिरस्मिन् जीवे मीयते विषयीक्रियते इत्यर्थे निरुक्तत्वादुपपदटिलोपः । माङ् मान इत्यतः कनिन्नित्युक्तं भवति ।। अनेनेति ।। करःशब्दस्य कर्मविधिवाचित्वकथनेनेत्यर्थः ।। करो मीयत इति ।। कर्मविधिर्मीयते ज्ञायत इत्यर्थः ।। १८ ।।
भावप्रकाशः
कर्मविधिफलयोरभावादित्यनुसारेणार्थान्तरमाह । कर्मविधिवाचीवेति । स्वोक्ते साधकमाह । अत एवेति । कृत्स्नफलवत्वमपि बाधितमित्यत आह । स्वयोग्याशेषेति ।। १८ ।।
वाक्यविवेकः
अत एवेति । सकारान्तस्य करस्शब्दस्य कर्मवाचित्वादेव मूलकृता कर्मविधिफलयोरभावादकर्मणि विष्ण्वित्युक्तमित्यर्थः । अकर्तरि जीव इति । कर्मकर्तर्येवादृष्टस्य भाव्यत्वादिति भावः ।। १८ ।।