गीता

गीता

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।

न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ।। १४ ।।

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।

अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ।। १५ ।।

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।

तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ।। १६ ।।

तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।

गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ।। १७ ।।

तात्पर्यम्

यथा पितॄदत्तं पालकत्वं राजपुत्राणाम् एवं परमात्मदत्तं क्रियास्वातन्त्र्यलक्षणं कर्तृत्वम् । क्रियानिष्पन्नधर्मादिरूपकर्मणि स्वातन्त्र्यं च जीवानामप्यस्तीत्याशङ्कां परिहरति । न कर्तृत्वमित्यादिना । क्रियायामदृष्टोत्पादने फले च स्वातन्त्र्यं लोकस्य न सृजतीश्वर इत्यर्थः । अन्यथा लोकस्येति विशेषणं व्यर्थम् । जनपदे निवसतां तद्वित्तभोजिनामप्याधिपत्यादानान्न दत्ता जनपदा राज्ञा स्वपुत्राणामितिवत्कर्मफलादिसंयोगिनामपि तत्स्वातन्त्र्यादानान्न सृजतीति युज्यते । स्वयमेव भवति भावयति चेति स्वभावो भगवान् । स्वभावत्वात्स्वयमेव कर्तृत्वादिषु प्रवर्तते ।

प्रकाशिका

न कर्तृत्वमित्यादेर्निवर्त्यां शङ्कां यथेत्यादिना दर्शयित्वाऽर्थमाह ।। क्रियायामित्यादिना ।। स्वयमेव भावयति, न तूपाधिवशात्करोतीति स्वभावो विष्णुरित्यर्थः ।।

अत्र बहुप्रमाणविरोधमुद्भाव्य यद्दुर्दर्शनप्राप्तमस्वाभाविककर्तृत्वमकर्तृत्वं वा भगवतस्तद्दूषयति ।। अहं सर्वस्येत्यादिना ।। न च परेशस्यास्वाभाविककर्तृत्वमित्यत्र प्रमाणमस्ति ।। अस्वाभाविककर्तृत्वमिति यत् सदसद्विलक्षणकर्तृत्वमभ्युपगतं मायावादिना तत्प्रागेव निरस्तमित्याह ।। अनिर्वाच्येति ।।

तन्निर्विशेषमेव ब्रह्माऽस्त्वित्यत आह ।। न चेति ।। सर्वविशेषरहितत्वेऽपि न शून्यतापत्तिः, ब्रह्मणोऽस्तित्वादिति वाच्यम् ।। अस्तित्वे, अस्तिशब्दवाच्यत्वे, अस्तिशब्दलक्ष्यत्वेऽपि सर्वविशेषरहितत्वभङ्गप्रसङ्गात् ।। अस्ति ब्रह्मेत्यादिशब्दानां पर्यायत्वदोषश्च स्यात् । ब्रह्मणो निर्विशेषत्वे अर्थविशेषाभावादित्याह ।। न हीति ।। न च सत्त्वादिविशेषाभावेऽपि ब्रह्मणि असदादिव्यावृत्तिद्वारा लक्षणया वा सदादिशब्दप्रवृत्तिरिति वाच्यम् ।। सत्त्वादिविशेषनिबन्धनत्त्वात् असदादिव्यावृत्तेः । अन्यथा तद्व्यावर्तनवैय्यर्थ्यसम्भवात् । असतोऽपि असद्व्यावृत्तिप्रसङ्गाच्च । न च सर्वशब्दावाच्यस्य लक्षणा दृष्टा । न चाशब्दस्याप्रामाणिकस्य ब्रह्मणः सत्त्वं वक्तुं शक्यते ।। अस्तित्वं तु शशविषाणवदप्रामाणिकस्य न सिध्द्यति ।। न च सदसद्विलक्षणं किञ्चिद्वक्तुं शक्यते । तदाह ।। व्यावर्तेत्यादिना ।।

न च प्रमाणावेद्यस्यापि ब्रह्मणः स्वप्रकाशत्वेन सिद्धिरिति वाच्यम् ।। स्वप्रकाशस्यापि अप्रामाणिकस्यासिद्धेः ।। यदि तत्र प्रमाणमुच्यते, तर्हि तत्किं स्वप्रकाशत्वं ब्रह्मातिरिक्तम् तत्स्वरूपं वा । ब्रह्मातिरिक्तं चेत् स्वप्रकाशत्वधर्मसद्भावेन ब्रह्मणो निर्विशेषत्वभङ्गः स्यात् ।। ब्रह्मस्वरूपं चेत्स्वप्रकाशत्वं, तर्हि स्वप्रकाशत्वे प्रमाणवचनेन ब्रह्मणि प्रमाणमुक्तं स्यात् । ततस्तस्याप्रमेयत्वभङ्गः स्यात् ।। न च वाच्यम् स्वप्रकाशादिशब्दैः परतः प्रकाशमानत्वमेव निरस्यते । न तु स्वप्रकाशत्वं नाम किञ्चिद्बोध्यते ब्रह्मण इति । परतः प्रकाशमानत्वाभावात् । स्वप्रकाशत्वस्याप्रामाणिकत्वेनाभावाद प्रामाणिकत्वापत्तेः । तदेतदाह ।। स्वप्रकाशत्वमित्यादिना ।।

ननु नासत्त्वमापादयितुं शक्यते ब्रह्मणः । सत्त्वादिधर्माभावेन सदादिशब्दैर्वाच्यत्वाभावेऽपि असदादिव्यावृत्ततया बोध्यमानस्यार्थाद्विद्यमानत्वस्य सिद्धेरित्यत आह ।। अर्थत इति ।। तस्मादर्थापत्त्यादिवेद्यत्वाभावात् निर्विशेषत्वेन स्ववेद्यत्वाभावात् अनिवार्यमसत्त्वं मायिमते ब्रह्मणः ।। न च स्वेन स्वस्य वेद्यत्वे कर्तृकर्मविरोध इति वाच्यम् ।। मामहं जानामीत्यनुभवेन कर्तृकर्मविरोधस्य बाधितत्वात् ।। न च स्ववेद्यत्वाभावेऽपि वेदनरूपेण ब्रह्मास्तीति वाच्यम् ।। विषयरहितस्य वेदनस्याभावात् । भोजनवत् । न हि भोज्यरहितं भोजनं किञ्चिदस्ति । तथा निर्विषयं स्वप्रकाशज्ञानादिशब्दैर्वक्तुं न शक्यते ।। तदेतदाह ।। विषमेष्विति ।। १४ ।।

न्यायदीपिका

यदुक्तं जीवानां स्वातन्त्र्याभावापेक्षयैवाकर्तृत्वं परतन्त्रकर्तृत्वं त्वस्त्येवेति न तद्युक्तम् । न कर्तृत्वमित्युत्तरवाक्यविरोधादित्यत आह ।। यथेति ।। स्वतो जीवानां स्वतन्त्रकर्तृत्वाद्यभावेपि परमात्मदत्तं तदस्त्यतः कथं ब्रह्मण्याधानमुच्यत इत्याशङ्कामेवात्र परिहरति । न तु जीवानां सर्वात्मना कर्तृत्वाभावं वक्तीति भावः । कर्मफलसंयोगे च स्वातन्त्र्यमित्यपि संयोज्यम् । अनेन न कर्तृत्वं न कर्माणीति पौनरुक्तयं च परिहृतम् ।। नन्वत्र कर्तृत्वाद्यभाव एवोच्यते न तु तत्रास्वातन्त्र्यमतः कथमनेनैषा शङ्का परिह्रियत इत्यत आह ।। क्रियायामिति ।। कर्तृत्वादिकं न सृजतीत्यस्य तत्र स्वातन्त्र्यं न सृजतीत्येवार्थोऽतो भवत्येतदाशङ्कापरिहार इत्यर्थः । नन्वत्रेश्वरस्यैव कर्तृत्वाद्यभाव उच्यत इति किं न स्यादित्यत आह ।। अन्यथेति ।। यद्यत्रेश्वरस्यैव कर्तृत्वाद्यभाव उच्यते तदा लोकस्य कर्तृत्वादिकं न सृजतीति व्यर्थं स्यादित्यर्थः । यदुक्तं जीवस्य पारतन्त्र्येण कर्तृत्वाद्यस्तीति न तद्युक्तम् । कर्तृत्वादीश्वरो लोकस्य न सृजतीत्युक्तत्वात् । न च तत्र तस्य स्वातन्त्र्यं न सृजतीत्यर्थः । कर्तृत्वादिसद्भावेऽपि स्वातन्त्र्याप्रदानाभिप्रायेण कर्तृत्वादिकं न सृजतीत्येवंजातीयप्रयोगादर्शनादित्यत आह ।। जनपद इति ।। यद्यत्र जीवानां सर्वात्मनेश्वरस्य च कर्तृत्वं न निषिध्यते तर्हि स्वभावस्तु प्रवर्तत इति स्वभावादेव प्रवृत्तिकथनं न युज्यत इत्यत आह ।। स्वयमेवेति ।। नात्र स्वभावपदेन प्रसिद्धस्वभावोऽभिधीयते येनोक्तविरोधः । किं तु स्वस्थितावन्यकरणे च परनिरपेक्षत्वाद्भगवानेवेत्यर्थः । प्रसिद्धपदपरित्यागेनाप्रसिद्धपदप्रयोगः किमर्थमित्यतो हेतुसूचनार्थमिति भावेन वाक्यार्थमाह ।। स्वभावत्वादिति ।।

किरणावली

फलंचेत्युत्तरवाक्यानुसारेणाह ।। कर्मफलसंयोगेचेति ।। कर्मणि स्वातन्त्र्यं चेति च शब्देन फलसंयोगे च स्वातन्त्र्यमिति संयोज्यमित्यर्थः ।। अनेनेति ।। क्रियानिष्पन्नधर्मादिरूपकर्मणीति कर्मशब्दस्यापूर्वार्थ ग्रहणेनेत्यर्थः ।। कर्तृत्वादिकं न सृजतीत्यस्य तत्र स्वातन्त्र्यं न सृजतीत्येवार्थ इति ।। ननु सिद्धान्ते जीवानां परमात्मदत्तं क्रियास्वातन्त्र्यमङ्गीकृतमेव ।

तदधीनस्वतन्त्रत्वं स्वावरापेक्षयैव तु प्रभुर्हि जीवो जडमपेक्ष्य ।

स्वातन्त्र्यं च जडान्प्रतीत्युक्तत्वादिति

चेत् न । भावानवबोधात् । यथा राजा स्वयं विरक्तः स्वगतपालकत्वं पुत्राणां ददाति तथा भगवान्स्वसत्तादावन्यानपेक्षत्वलक्षणं निरुपचरितस्वातन्त्र्यं स्वगतं जीवानां ददातीत्ययं पक्षोऽत्र निरस्यते । तदधीनस्वतन्त्रत्वं स्वावरापेक्षयैव तु इत्यत्र तु स्वसत्तादावीश्वराद्यधीनत्वेपि स्वावरानधीनस्वभावत्वात् । प्रत्युत स्वावरसत्तादेः स्वानुग्रहायत्तत्वात् स्वावरान्जीवान् प्रति स्वातन्त्र्यम् । स्वातन्त्र्यं च जडान्प्रतीत्यत्र च जीवस्येशाधीनज्ञानेच्छाप्रयत्नवत्त्वाज्जडस्य तदभावेन केवलं परकृतेन नोदनादिना क्रिया वत्त्वाक्रियाज्ञानेन प्रतिकुठारादि चक्षुरादिकारकान्तराप्रयोज्यत्वात्प्रत्युत कारकान्तरस्य कर्तृप्रयोज्यत्वाज्जडान्प्रतिच स्वातन्त्र्यमीशायत्तमुच्यत इति कुतो विरोधः ।। स्वभावत्वादितीति ।। स्वस्थितावन्यकरणेच परनिरपेक्षत्वादित्यर्थः ।।

भावदीपः

अनेनेति ।। क्रियायामदृष्टे चेति कतृत्वकर्मशब्दयोरर्थभेदकथनेनेत्यर्थः । सर्वात्मनेत्यस्य पूर्वत्रोत्तरत्र चान्वयः ।। स्वभावत्वादितीति ।। स्वस्थितावन्यकरणे च परानपेक्षत्वादित्यर्थः । शेषमाह ।। भवेद् ब्रह्मण इति ।। उपनिषदामिति ।। सत्यं ज्ञानमनन्तमित्येवमादीनामित्यर्थः ।। व्यावृत्तेरित्यस्य निबन्धनत्वपदेनान्वयः ।। तद्व्यावृत्तिप्रसङ्गादिति ।। असद्व्यावृत्तिप्रसङ्गादित्यर्थः ।। असम्भवस्योक्तत्वादिति ।। व्यावर्त्यविशेषश्चेत्येतद्व्याख्यावसर इति भावः ।। अनेनेति ।। नास्तित्वं त्वित्यादिभाष्येणेत्यर्थः । ब्रह्म नास्तित्ववत् केनापि प्रमाणेनास्तित्वानुपलम्भान्नरृङ्गवदिति सूचितमित्यर्थः ।। दूषितत्वादिति ।। सत्त्वादिधर्मबोधनं विना तद्विरोधीतरव्यावृत्तेरसम्भवेन ब्रह्मणोऽवाच्यस्य लक्ष्यत्वायोगेन च दूषितत्वादित्यर्थः । तदेव वाक्यं पुनः प्रकारान्तरेणावतारयति ।। भगवतः कर्तृत्वाभावादीति ।। दुष्टत्वादित्यस्य इति मतस्येत्यनेनान्वयः ।।

भावप्रकाशः

न कर्तृत्वमित्युत्तरवाक्यविरोधादिति ।। तत्र जीवस्य सर्वथा कतृत्वाभावस्योक्तत्वादिति भावः । फले चेत्युत्तरवाक्यस्यानुसारेणाह । कर्मफलसंयोगेचेति । अनेनेति । क्रियानिष्पन्नधर्मादिरूपकर्माणीति कथनेनेत्यर्थः ।। प्रसिद्धपदपरित्यागेनेति ।। हरिरेवेत्यादि विष्णुवाचकत्वेन प्रसिद्धपदपरित्यागेनेत्यर्थः ।।

वाक्यविवेकः

स्वतो जीवनामिति ।। जीवानां अन्याधीनस्वतन्त्रकर्तृत्त्वभावेऽपीत्यर्थः ।। कर्मफलसंयोगे चेत्यस्याध्याहारं कृत्वा तस्य स्वातन्त्र्यमित्यनेनान्वयो वक्तव्य इत्यर्थः । अनेनेति । कर्तृशब्दस्य क्रियास्वातन्त्र्यमर्थः । कर्मशब्दस्य क्रियाजन्यधर्माधर्मस्वात्तन्त्र्यमर्थ इति सूचनेनेत्यर्थः ।। नन्वत्रेति । न कर्तृर्त्वं न कर्माणिति श्लोके जीवस्य कर्त्तृत्वाद्यभाव एवोच्यते । न पुनः स्वतन्त्रकर्तृत्वादिनिषेधमुखेन कर्तृत्वादिकमङ्गीकृत्य तत्रास्वतन्त्र्यमुच्यत इत्यर्थः ।। हेतुसूचनार्थमिति ।। स्वातन्त्र्यरूपहेतुसूचनार्थमित्यर्थः ।।