गीता
भगवन्मुखे उभयसेनाप्रवेशः
गीता
अमी च त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनिपालसङ्घैः ।
भीष्मो द्रोणः सूतपुत्रस्तथासौ
सहास्मदीयैरपि योधमुख्यैः ।। २६ ।।
वाक्त्राणि ते त्वरमाणा विशन्ति
दंष्ट्राकरालानि भयानकानि ।
केचिद्विलग्ना दशनान्तरेषु
संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ।। २७ ।।
यथा नदीनां बहवोऽम्बुवेगाः
समुद्रमेवाभिमुखा द्रवन्ति ।
तथा तवामी नरलोकवीरा
विशन्ति वक्त्राण्यभिविज्वलन्ति ।। २८ ।।
यथा प्रदीप्तं ज्वलनं पतङ्गा
विशन्ति नाशाय समृद्धवेगाः ।
तथैव नाशाय विशन्ति लोका
स्तवापि वक्त्राणि समृद्धवेगाः ।। २९ ।।
लेलिह्यसे ग्रसमानः समन्तात्
लोकान्समग्रान्वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं
भासस्तवेग्राः प्रतपन्ति विष्णो ।। ३० ।।
तात्पर्यम्
अन्यचेष्टां कुर्वतामपि भगवच्चेष्टयैव प्रलये प्रजानां प्रवेशवत् प्रवेशो युज्यते । सेनामध्यतो भगवन्मुखानामुभयाभिमुखत्वाच्चोभे सेने तत्र प्रविशतः । ये तु तस्मिन्नेव मुहूर्ते मरिष्यन्ति तेषां दशनान्तरेषु चूर्णितमपि शिरः सूक्ष्मदृष्टिगोचरत्वान्मानुषदृष्ट्या तथा न दृश्यते । यथा भिन्नमपि घटादिकं यावत् पृथङ् न पतति तावन्मन्ददृष्टीनां न ज्ञायते । यथा पुरूरवसो जराऽश्विभ्यामेव दृष्टा ।। २६३० ।।
प्रकाशिका—‘‘अमी च त्वा धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः ।।
भीष्मो द्रोणः सूतपुत्रस्तथाऽसौ सहास्मदीयैरपि योधमुख्यैः ।।
वक्त्राणि ते त्वरमाणा विशन्ति’’
इत्येतत् घटयति ।। अन्यचेष्टामित्यादिना ।। युद्धोपक्रमकाल एव केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैरित्युक्तं घटयति ।। येत्वित्यादिना ।। दिव्यदृष्टित्वादर्जुनेन तथा संदृश्यन्ते इत्यत्र विष्णुधर्मोक्तं दृष्टन्तमाह ।। यथेति ।। स्नानात्पूर्वं दृष्टस्य स्नानकालकृतजरास्नातस्यालङ्कृतस्यापि पुरूरवसोऽङ्गेऽश्विभ्यां दृष्टेत्यर्थः ।। २६३० ।।
न्यायदीपिका
ननु धृतराष्ट्रपुत्रादीनां भगवन्मुखप्रवेशोन्मुखचेष्टाभावात्कथममी च त्वा धृतराष्ट्रस्य पुत्रा इत्याद्युच्यत इत्यत आह ।। अन्येति ।। भगवन्मुखप्रवेशानुन्मुखचेष्टानामपि भगवन्मुखचेष्टयैव तत्र प्रवेशादुपचारेण विशन्तीति प्रयोगो युज्यते । प्रलयोदकप्रवेशानुन्मुखचेष्टानां प्रजानां तच्चेष्टयैव तत्र प्रवेशे प्रविष्टा उदकं प्रजा इति प्रयोगवदित्यर्थः । भगवन्मुखचेष्टयैव तत्र प्रवेशश्चेद्धार्तराष्ट्रसेनाया एव भवेत् । भगवन्मुखानां तदभिमुखत्वात् । अतः सहास्मदीयैरित्ययुक्तं स्यादित्यत आह ।। सेनेति ।। ननु युद्धोपक्रम एव चूर्णितोत्तमाङ्गतयाऽन्यैरदृष्टाः कथमर्जुनेन मया तथा संदृश्यन्त इत्युच्यते केचिद्विलग्ना इत्यादिनेत्यत आह ।। येत्विति ।। तस्मिन्नेव मुहूर्ते मरिष्यमाणानामेवात्र ग्रहणाद्युद्धोपक्रम एवैवमुक्तिर्युक्ता । विशीर्णत्वेनापतितस्य सूक्ष्मदृष्टिगोचरत्वादन्येषां तथा दर्शनं च युक्तम् । दिव्यं ददामि ते चक्षुरित्यादेरर्जुनस्य दिव्यदृष्टित्वादन्यादृष्टदर्शनं च युक्तमिति भावः । अन्येषां तददर्शने दृष्टान्तमाह ।। यथेति ।। दिव्यदृष्टित्वादर्जुनस्यान्यादृष्टदर्शने दृष्टान्तमाह ।। यथेति ।। एतच्च विष्णुधर्मे विस्तरेणोक्तम् ।। २६३० ।।
किरणावली
अमी च त्वा धृतराष्ट्रस्य पुत्रा इत्यादीति ।। वक्त्राणि ते त्वरमाणा विशन्तीति पृथगुच्यत इत्यर्थः । अमी च त्वा धृतराष्ट्रस्य पुत्रा इति मूले तु आ इति पदच्छेदः । तेन वक्त्राणि ते त्वरमाणाविशन्तीत्यत्र ते वक्त्राणि विशन्तीति कर्मान्वयसम्भवात् पूर्वं त्वेत्यनन्वितमिति निरस्तम् । तु आ इति पदविभागमङ्गीकृत्याविशतीत्यन्वयाङ्गीकारात् ।। विष्णुधर्म इति ।। विष्णुधर्मे एकोनत्रिंशाध्याये पुरूरवसो रूपातिशयं श्रुत्वा तद्दर्शनार्थमागतावश्विनौ प्रतिगृहान्तर्गतेन राज्ञेदानीं तैलाभिषिक्तोऽस्मि स्नात्वा विभूषित आगच्छामीत्युक्ते स्नानात्पूर्वमनन्तरं च त्वद्रूपं द्रष्टव्यं तूर्णमागच्छेत्यश्विभ्यां उत्तरे दत्ते राजा बहिर्निस्सृतस्तमेतावपश्यतः । ततः स्नात्वाऽलङ्कृतः पुनरागतस्तमेताववलोक्य हासं चक्रतुः । हासकारणे पृष्टे
ृणु भूपाल सकलमावयोर्हासकारणम् ।
युष्मद्दर्शनसम्भूतं क्षणापनयहेतुकम् ।
अस्नातस्याभवत्पूर्वं यादृशी ते सुरूपता ।
सांप्रतं तादृशी नेयं भूषितस्यापि भूषणैः ।
दिव्येन चक्षुषा भूप कालस्यास्य च तस्य च ।
वपुः परिणतं स्वस्यापश्यावोऽपचयप्रदमि’’ति
सविस्तरमुक्तमित्यर्थः ।। २६३० ।।
भावदीपः
विष्णुधर्मे विस्तरेणोक्तमिति ।। एकोनविंशाध्याये । पुरूरवसो रूपं दृष्टुमागतावश्विनौ प्रति पुरूरवो राजा तैलाभ्यक्तोऽस्मि, स्नात्वा भूषणभूषित आगमिष्यामि, तदा मद्रूपं द्रष्टव्यमित्युक्ते
‘अप्रसाधितमेवाशु भवन्तं वसुधाधिपम् ।
पश्यावो भूषितं त्वां वै पश्वात्संक्रन्दनान्वितम्’
इत्यश्विभ्यामुक्ते तूर्णं बहिर्निर्गतं राजानं
‘‘अंगोपाङ्गादिकं सर्वं नृपतेस्तदपश्यताम् ।
शिरोललाटबाह्वास्यनयनादिविलोकनम् ।
कृत्वा चिरं महीपालमूचतुस्तावरिन्दमौ ।
प्रविश्य स्नात्वा भूपाल यथार्हैश्च विभूषणैः ।
विभूषिततनुं भूयः त्वां द्रक्ष्यावो नरेश्वर’’ ।
इत्यश्विभ्यामुक्तो राजा गृहं प्रविश्य स्नातोऽनुलिप्तः वस्त्रालङ्कारभूषणभूषितोऽश्विनोः समीपमागतः । तदा तौ तद्रूपं दृष्ट्वा हासं चक्रतुः । राज्ञा हासकारणे पृष्टे
‘‘ृणु भूपाल सकलमावयोर्हासकारणम् ।
युष्मद्दर्शनसम्भूतं क्षणापचयहेतुकम् ।
अस्नातस्याभवत्पूर्वं यादृशी ते सरूपता ।
साम्प्रतं तादृशी नेयं भूषितस्यापि भूषणैः ।
दिव्येन चक्षुषा भूप कालस्यास्य च तस्य च ।
वपुःपरिणतिं स्वस्मात् पश्यावोऽपचयप्रदाम्’’
इत्यादिनेति भावः ।। २६३० ।।
भावप्रकाशः
अमीचत्वेति । अत्र तु आ इत्येव पदविभागो न तु त्वेति । तथात्वे वक्त्राणि इत्यत्रत्यते इत्यनेन पुनरुक्तत्वापत्तेरिति द्रष्टव्यम् ।। ननु युद्धोपक्रम एवेति । अत्र युद्धोपक्रम एव कथं चूर्णितोत्तमाङ्गत्वं तथात्वे वा कथमन्येषां तथादर्शनं कथं चान्यदृष्टदर्शनमर्जुनस्येति प्रश्नत्रयमिति विवेको द्रष्टव्यः ।। मरिष्यमाणानामिति । मूले तु व्यत्ययो बुहलमिति बहुलग्रहणात् मरिष्यन्तीति परस्मैपदप्रयोग इति भावः । मूले भिन्नमित्यस्य विद्लृ विदारण इति धातोर्विदारण इत्यर्थः ।। २६३० ।।
वाक्यविवेकः
भगवन्मुखेति । यथा गृहादौ प्रवेष्टुः पुरुषस्य प्रवेशोन्मुखव्यापारो दृश्यते । तथा धार्तराष्ट्रादीनां भगवन्मुखप्रवेशानुकूलो व्यापारो न दृश्यत इति भावः ।। २६३० ।।