तात्पर्यम्

क्षत्रियादिष्वपि शमाद्यनुवृत्तिः

तात्पर्यम्

‘स्वकर्मणा तमभ्यर्च्य’ इति वचनाच्च क्षत्रियादिष्वपि शमाद्यनुवृत्तिर्ज्ञायते । न हि शमादिकं विना तस्याभितोऽर्चनं भवति । सम्यक् शमादिभिरर्चनं ह्यभ्यर्चनम् । न च शमादीन् विना सिद्धिं विन्दति । ‘यज्ञदानतपः कर्म न त्याज्यम्’ इत्युक्तत्वाच्च । ‘शमो मन्निष्ठता बुद्धेर्दम इन्द्रियनिग्रहः’ इति हि भागवते । न च क्षत्रियादिभिरपि शौचतपः क्षमादिभिर्हीनैर्भाव्यमिति तत्तद्धर्मेषूच्यते । युक्ता ह्येतैः सर्वैर्गुणैर्जनकतुलाधारादयः । अतो युद्धेऽपलायनमैश्वर्यं च क्षत्रियस्य विशेषगुणौ । तौ, कृष्यादयः, जीवनार्थं शुश्रूषा, याजनं जीवनार्थं प्रतिग्रहश्चेत्येत एवान्येषां परधर्माः ।

प्रकाशिका

‘‘स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दतिमानवः’’ इति वाक्यशेषबलात् क्षत्रियादिष्वपि ब्रह्मकर्म स्वभावजमित्युक्तशमाद्यनुछित्तिर्ज्ञायते चेत् स्वधर्मपरधर्मविवेकः कथमित्यत आह ।। युद्धेति ।। युद्धेऽपलायनमैश्वर्यं च क्षत्रियस्य स्वधर्मौ यस्य यः स्वधर्मः विहितः स तदन्येषां परधर्मः इत्यर्थः ।।

न्यायदीपिका

एवं प्रमाणान्तरेण क्षत्रियादिष्वपि शमाद्यनुवृत्तिरस्तीत्युक्त्वा वाक्यशेषबलेनाप्येतदुपपादयति ।। स्वकर्मणेति ।। अत्र सर्वेषां भगवदभ्यर्चनमेवोच्यते । न तु शमादिकमित्यत आह ।। नहीति ।। यदा सर्वेषां भगवदभ्यर्चनमेवोच्यते । तदा शमादिकमुक्तमेव । तद्विना अभितोऽर्चनस्यैवायोगादिति भावः । तत्कुत इत्यत आह ।। सम्यगिति ।। सम्यगर्चनं ह्यभितोऽर्चनं च शमादिभिरर्चनमेवेत्यर्थः । शमादिकं विनाऽपि साधनसंपूर्त्याऽर्चनमात्रमत्र विवक्षितं किं न स्यादित्यत आह ।। नचेति ।। शमादिभिरर्चनमेवात्राभ्यर्चनं विवक्षितम् । न तु शमादिकं विनाऽन्यत् । एतदभ्यर्चनस्य मोक्षफलत्वश्रवणात् । शमाद्यभावे तदयोगादिति भावः । उपक्रमबलेन क्षत्रियादिषु ब्राह्मणधर्मानुवृत्तिर्ज्ञायत इत्याह ।। यज्ञेति ।। शमाद्यभावे कुतो मोक्षाभाव इत्यत आह ।। शम इति ।। भगवन्निष्ठादिकं हि शमादिकं नाम । भगवन्निष्ठाद्यभावे च मोक्षाभावः सुप्रसिद्ध इति भावः । निषेधाभावाच्च क्षत्रियादिषु शमाद्यङ्गीकार्यमित्याह ।। नचेति ।। निषेधश्च भवंस्तद्धर्मकथनस्थल एव भवतीति तत्तद्धर्मेष्वित्युक्तम् । इतोऽपि क्षत्रियादिषु शमाद्यङ्गीकार्यमित्याह ।। युक्ता हीति ।। तुलाधारो वैश्यः । आदिपदेन दण्डधारादिशूद्रसङ्ग्रहः । हीति भारतादिप्रसिद्धिं सूचयति ।। एवं चेत्स्वपरधर्मविवेकः कथमित्यत आह ।। अत इति ।। उक्तन्यायेनान्येषां साधारणत्वादित्यर्थः । एवं कृष्यादयो वैश्यस्य जीवनार्थम् । शुश्रूषा शूद्रस्य । याजनं जीवनार्थमध्यापनं प्रतिग्रहश्च विप्रस्येति द्रष्टव्यम् । परधर्मानाह ।। तौचेति ।।

किरणावली

साधनसंपूर्त्येति ।। पूजासाधनपत्रपुष्पफलच्छत्रचामराभरणादि संपूर्त्येत्यर्थः ।। उपक्रमबलेन क्षत्रियादिष्विति ।। क्षत्रियः आदिः प्रधानो येषु त्रिषु मध्ये ते क्षत्रियादय इति विग्रहः । तेन क्षत्रियादिर्येषामिति विग्रहे वैश्यशूद्रयोरन्यपदार्थत्वात् बहुवचनायोग इति निरस्तम् ।। ब्राह्मणधर्मानुवृत्तिरिति ।। शूद्रे वैदिक द्रव्य यज्ञस्य विद्यादिप्रदानस्य चाभावेपि ज्ञानयज्ञस्यापरे नियताहाराः प्राणान्प्राणेषु जुह्वतीत्यादि यज्ञस्य चार्थिभ्यः बल्यादि प्रदानस्य च सत्त्वादिति भावः । ननु क्षत्रियादिषु शमाद्यनुवृत्तौ कथमिदमुषक्रमवाक्यं प्रमाणमिति चेन्न । शमादिरहितयज्ञादेराजसतामसत्वेन तद्युतस्यैव यज्ञादित्वात्तदिदमुक्तमुपक्रमत्वेनेति । वैश्यशूद्रब्राह्मणानां विशेषगुणान्कृष्यादय इति वक्ष्यमाणमनुसृत्य स्वयमाह ।। एवमिति ।। तौचेत्यादि मूलस्य क्षत्रियविशेषगुणत्वेनोक्तावपलायनैश्वर्याख्यौ गुणौ वैश्यविशेषगुणत्वेनानुसंहिताःकृषिवाणिज्यगोरक्षकुसीदाख्यागुणाः सच्छूद्रगुणतयाभिमता जीवनार्थं शुश्रूषा ब्राह्मण गुणत्वेनाभिमतम् । जीवनार्थं यजनमुपलक्षणमेतत् । अध्यापनं प्रतिग्रहश्चेत्येतेगुणा अन्येषां परधर्मा इत्यर्थः ।।

भावदीपः

तद्धर्मकथनस्थल एवेति ।। क्षत्रियधर्मकथनस्थल एव इत्यर्थः ।। उक्तन्यायेनेति ।। एते गुणाः किञ्चिदूनाः विप्रादित्यादिनोक्तन्यायेनेत्यर्थः । यद्वा स्वकर्मणेत्यादिनोक्तन्यायेनेत्यर्थः । मूले क्षत्रियस्य विशेषधर्मा उक्ताः । अन्येषां स्वयमाह ।। एवं कृष्यादय इत्यादि ।।

भावप्रकाशः

मोक्षफलत्वश्रवणादिति । स्वकर्मणा तमभ्यर्च्य सिद्धिं विदन्ति मानव इत्यनेनेत्यर्थः ।। वैश्यादीनां विशेषधर्मान् स्वयमाह ।। एवं कृष्यादय इति ।

वाक्यविवेक

साधनसंपूर्त्येति । धूपदीपादिसाधनसंपूर्त्येत्यर्थः ।। उपक्रम बलेनेति ।। उपक्रमे ब्रह्मचर्यादिवाचकतपःशब्देन शमादेर्ग्रहणादिति भावः । तुलाधारो वैश्य इति । तुलाधारनामा कश्चन वैश्य इत्यर्थः । दण्डधारादिशूद्रग्रहणमिति । दण्डधारेत्यादिनामकशूद्राणां ग्रहणमित्यर्थः । जनकशब्दः उत्तमक्षत्रियमात्रोपक्षलकः, तुलाधारशब्दः उत्तमवैश्यमात्रोपलक्षकः इति ज्ञातव्यम् ।