गीता

ब्रह्माप्नोतीत्यत्र ब्रह्मशब्दः लक्ष्मीवाचकः

गीता

सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे ।

समासेनैव कौन्तेव निष्ठा ज्ञानस्य या परा ।। ५० ।।

बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ।

शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ।। ५१ ।।

विविक्तसेवी लध्वाशी यतवाक्वायमानसः ।

ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ।। ५२ ।।

तात्पर्यम्

वक्ष्यमाणप्रकारेण वर्तमानस्तदनन्तरं नैष्कर्म्यसिद्धिं प्राप्तो भूत्वा ब्रह्माख्याया लक्ष्म्याः सकाशं यथाऽऽप्नोति तथा निबोध । ‘मम योनिर्महद् ब्रह्म’ ‘ब्रह्मणो हि प्रतिष्ठाऽहम्’ इत्युक्तत्वात् । ‘ब्रह्मभूतः प्रसन्नात्मा’ इत्युक्तवा ‘मद्भक्तिं लभते पराम्’ इति वक्ष्यमाणत्वाच्च ।

सर्वपापक्षयाद् देहं त्यक्तवा देवान् क्रमाद् व्रजन् ।

प्राप्य लक्ष्मीं तत्प्रसादात् पुनः स्वृद्धा हरौ यदा ।

भक्तिस्तया पुनर्ज्ञाने स्वृद्धे विष्णुं प्रपद्यते ।

अपरोक्षदृशो विष्णोः शरीरेऽपि सतः पुरा ।

त्यक्तदेहादिकस्यापि यावद् विष्णुं प्रपद्यते ।

तावद् गुणा विवर्धन्ते स्थिताः स्युः प्राप्य केशवम्’ इति महावराहे ।। ५०५२ ।।

प्रकाशिका

‘‘बुध्द्या विशुद्धया युक्तो धृत्यात्मानं नियम्य’’ चेत्याद्युक्तनैष्कर्म्यसिद्धि हेतुत्वात् वक्ष्यमाण प्रकारेण वर्तमानः तदनन्तरं नैष्कर्म्यसिद्धिं प्राप्त इत्युक्तम् । यथा ब्रह्माप्नोति (इति) ब्रह्मशब्दः प्रयुज्यते तत्र ब्रह्मशब्दस्याप्रसिद्धिशङ्कानिवृत्यर्थं प्रयोगं दर्शयति ।। ममयोनिर्महद्ब्रह्मेत्यादिना ।। ब्रह्मभूतः प्रसन्नात्मे’’त्युक्त्वा ‘‘मद्भक्तिं लभते परा’’मित्यत्रार्चिरादिमार्गेण लक्ष्मीं प्राप्य भगवद्भक्तिं परां लभते इति यद्देहत्यागानन्तरमपि विष्णुभक्त्यादिगुणवृद्धिवचनं तत्प्रमाणान्तरेण प्रपञ्चयति ।। सर्वेति ।। अत्र सर्वपापक्षयवत् तथाविधपुण्यस्याप्यनिष्टत्वात्

।। ५०५२ ।।

न्यायदीपिका

असक्तेत्यादिना नैष्कर्म्यसिद्धिसाधनविवरणप्रतिज्ञापूर्वकं तदनन्तरफलमुच्यते ।। सिद्धिमिति ।। तत्र नैष्कर्म्यसिद्ध्यनन्तरं च येनोपायेन परं ब्रह्माप्नोति तं प्रकारं निबोधेत्यन्यथाप्रतीतिनिरासायाह ।। वक्ष्यमाणेति ।। अत्र यथा येन वक्ष्यमाणप्रकारेण वर्तमानो नैष्कर्म्यसिद्धिं प्राप्तो भूत्वा महालक्ष्मीं प्राप्नोति तं प्रकारं निबोधेत्येवोच्यते । न तु नैष्कर्म्यसिद्ध्यनन्तरं परब्रह्मप्राप्तिसाधनं निबोधेत्यर्थः । ब्रह्मशब्दस्य लक्ष्मीवाचकत्वमेव कुत इत्यत आह ।। ममेति ।। अत्र ब्रह्मपदेन परब्रह्मैव किं न स्यादित्यत आह ।। ब्रह्मेति ।। एतद्ब्रह्म प्राप्त्यनन्तरमपि भक्तयादिलाभश्रवणाल्लक्ष्मीतत्वमेवेदं न तु परंब्रह्मेत्यर्थः । भवेदेतद्यदि नैष्कर्म्यसिद्धिं प्राप्तस्य लक्ष्मीप्राप्त्यनन्तरमपि भक्तयादिलाभोऽस्ति । न तु परब्रह्मप्राप्त्यनन्तरमिति सिद्ध्यति । तदेव कुत इत्यत आह ।। सर्वेति ।। पापपदमप्रारब्धानिष्टकर्मपरम् । नन्वपरोक्षज्ञानिनोऽहि नैष्कर्म्यसिद्धिस्तत्कथं तदनन्तरमपि ज्ञानादिलाभः । तथात्वे मुक्तावपि तत्प्रसङ्गादित्यत आह ।। अपरोक्षेति ।। पुरा देहत्यागात् । अपरोक्षज्ञानानन्तरमपि ज्ञानादिवृद्धिर्भवेदेव न चातिप्रसङ्गः । प्रमाणानुगुण्येन मुक्तौ तदभावोपपत्तेरिति भावः ।। ५०५२ ।।

किरणावली

असक्तेत्यादीति ।। असक्तेत्यादिनोक्तं यन्नैष्कर्म्यसिद्धिसाधनं तद्विवरणप्रतिज्ञापूर्वकं तदनन्तरफलं कर्मविनाशाख्यं नैष्कर्म्यसिद्ध्यनन्तरफलमुच्यत इत्यर्थः ।। अन्यथाप्रतीतिनिरासायेति ।। या सिद्धिर्ज्ञानस्य परा निष्ठेति वाक्यशेषे कर्माक्षयाख्यनैष्कर्म्यसिद्धेर्ज्ञानपरमफलैकदेशतया ज्ञानशरीरप्रविष्टत्वोक्तेर्ज्ञानस्य च ब्रह्मप्राप्तावन्यानपेक्षत्वस्य सर्वापेक्षाच यज्ञादिश्रुतेरश्ववदिति सूत्रे निर्णीतत्वादिति भावः । वक्ष्यमाण प्रकारेणेति मूले यथेत्यादौ संयोज्य व्याचष्टे ।। यथायेनेति ।। यथेत्यस्य प्रतिपदम् ।। तं प्रकारमिति ।। ननु टीकायां तदनन्तरमिति पदं किमिति नोपात्तमतो व्यर्थमेतदिति चेन्न । वक्ष्यमाणप्रकारेण वर्तमानो नैष्कर्म्यसिद्धिं प्राप्त इत्येतावन्मात्रोक्तौ तयोः समानकालीनत्वप्रतीत्या साध्यसाधनभावायोगात् । मूलकृता वर्तमानस्तदनन्तरमित्युक्तत्वेपि टीकाया अन्वय प्रदर्शनमात्रतात्पर्यकत्वात्तत्र तदनुपादानस्यादोषत्वात् ।। अत्र ब्रह्मपदेनेति ।। मम योनिर्महद्ब्रह्मेत्यत्र तस्मिन् गर्भं दध्याम्यहमिति वाक्यशेषेण ब्रह्मपदस्य महालक्ष्म्यर्थकत्वेपि ब्रह्मणोहीत्यत्रापि ब्रह्मपदस्य तस्मिन्नेव चतुर्दशाध्याये मम योनिर्महद्ब्रह्मेत्युपक्रमप्रकृत महालक्ष्म्या एव ब्रह्मत्वेपि ब्रह्मेति प्रकृतामहालक्ष्मीरिति तात्पर्योक्तरीत्या महालक्ष्मी परत्व ग्रहणेपि सिद्धिं प्राप्तो यथा ब्रह्मेत्यत्र ब्रह्मपदेन परंब्रह्मैव किं न स्यात् । मुख्यार्थत्यागे कारणाभावादित्यर्थः ।

ननु नात्रपापपरं प्रारब्धा प्रारब्धपापमात्रपरं प्रारब्धस्य भोगैकनाश्यत्वादनभीष्टपुण्यनाशस्यापि वक्तव्यत्वाच्चेत्यत आह ।। पापपदमिति ।। नात्रपापपदं पापमात्रपरं किंतु यदप्रारब्धमनभीष्टं पुण्यपापरूपं कर्म तत्परमित्यर्थः । तदुक्तं पद्मनाभतीर्थीये । अत्र पापक्षयवज्जन्मान्तरापादकपुण्यक्षयोपि ज्ञातव्यः । पापवत्तथाविधपुण्यस्याप्यनभीष्टत्वादिति ।। तदनन्तरमपीति ।। अपिपदाद्देहं त्यक्त्वेत्युक्त्वेत्यनन्तरं देवान् क्रमाद् व्रजन्नित्युक्तमार्गप्राप्त्यनन्तरमपीति लभ्यते ।। तथात्वे मुक्तावपीति ।। कर्मक्षयोत्क्रान्तिमार्ग लक्षण ज्ञानफलत्रय प्राप्त्यनन्तरमित्यनादिप्राप्त्यङ्गीकारे ब्रह्मप्राप्त्या भोगलक्षणमुक्तावपि साधनानुष्ठानप्रसङ्गादित्यर्थः ।। पुरा देहत्यागादिति ।। नचापरोक्षदृशः शरीरे सतस्त्यक्तदेहादिकस्यापीत्येतावता पूर्णत्वाद्देहत्यागात्पुरा शरीरे सत इत्यधिकमिति वाच्यम् । शरीरे सतः अपरोक्षदृशो गुणा विवर्धन्त इत्यन्तोक्तेः अपरोक्षदशायामेव गुणा विवर्धन्त इत्यपि प्रतीतिः स्यात्तद्वारणाय देहत्यागात्पुरेत्युक्तम् । अपरोक्षदृशश्चरमशरीरत्यागात्पुरेत्येवोक्ते यदाकदाचित् गुणा विवर्धन्त इति प्रतीतिः स्यात्ततः शरीरे सत इत्युक्तम् । यावच्छरीरसम्बन्धस्तावत्पर्यन्तं गुणवृद्धिरिति भावः । ननु ज्ञाने स्वृद्धे विष्णुं प्रपद्य इत्यन्वये नैष्कर्म्यसिद्धिप्राप्त्युत्तर कालीनस्य ब्रह्मप्राप्तिहेतुत्वोक्तेः । सिद्धिं प्राप्तो यथाब्रह्म तथाप्नोति निबोधेत्यस्य नैष्कर्म्यसिद्धिं प्राप्तोयेनोपायेन ब्रह्मप्राप्नोति तथानिबोधेत्येवार्थः किं न स्यादिति चेदानन्दातिशयार्थं ज्ञाने वृद्धे परोक्षमहिम्नैवेति विष्णुं प्रपद्यत इति तदर्थाङ्गीकारात्प्रारब्धाभावव्याजेनानन्दातिशयहेतुभूतज्ञानभक्तयादिसंपादनायैव भगवता प्रारब्धकर्मणामवशेषितत्वस्य सुधायां स्पष्टमुक्तत्वादिति ज्ञेयम् ।। ५०५२ ।।

भावदीपः

नैष्कर्म्यसिद्धिसाधनेति ।। प्रारब्धेतरसर्वारिष्टकर्मनाशसाधनविवरणे(ने)त्यर्थः ।। न चातिप्रसङ्ग इति ।। मुक्तावपि ज्ञानवृद्धिप्रसङ्गरूपो न चेत्यर्थः ।। ५० ।।

भावप्रकाशः

भक्तिज्ञानादिलाभश्रवणादिति । अनेन मद्भक्तिमित्यत्र भक्तिपदं ज्ञानादेरप्युपलक्षकमित्युक्तं भवति । नचातिप्रसङ्ग इति ।। मुक्तावपि ज्ञानादिवृद्धिरूपातिप्रसङ्गो नेत्यर्थः।।५०५२।।

वाक्यविवेक

असक्तेत्यादीति । असक्तबुद्धिः सर्वत्रैत्यादिना यन्नैष्कर्म्यसिद्धिसाधनमुक्तं तद्विवरणप्रतिज्ञापूर्वकमित्यर्थः ।। वक्ष्ममाणप्रकारेणेति । बुध्या विशुद्धया युक्ता इत्यादिना वक्ष्यमाणप्रकारेण वर्तमानः अपरोक्षज्ञानद्वारा नैष्कर्म्यसिद्धिं प्राप्तो भूत्वा महालक्ष्मीं प्राप्नोति । तं प्रकारं नैष्कर्मसिध्युपायं निबोधेत्येवोच्यत इत्यर्थः । मूले अपरोक्षदृश इति । शरीरे सतो विष्णोः शरीरान्तर्गतविष्णोः अपिशब्दात् बहिस्थितविष्णोंश्च अपरोक्षदृशा अपरोक्षतो विष्णुं पश्यत इति यावत् । देहत्यागानन्तरं पुरा त्यक्तदेहस्यापि देहत्यागानन्तरमपीति यावत् । यावत् पर्यन्तं विष्णुं प्रपद्यते । तावत्पर्यन्तं गुणा वर्तन्ते केशवं प्राप्य स्थितस्य गुणाः स्थिताः एकप्रकारेण अवस्थिता भवन्ति न वर्धन्त इत्यर्थः ।। ५०५२ ।।