गीता
ज्ञातज्ञेयज्ञानरूपा प्रेरणा भगवतोऽभिन्ना
गीता
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।
करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ।। १८ ।।
तात्पर्यम्
‘सम्प्रेरयितुरीशस्य कर्मस्वखिलचेतनान् ।
ज्ञातृज्ञेयज्ञानरूपा प्रेरणा सा स एव यत् ।
स्वरूपेणैव नित्या सा विशेषात्मतया भवेत् ।
विशेषोऽपि स्वरूपेण नित्यश्च स्याद् विशेषतः ।
स्वनिर्वाहकता यस्मान्नानवस्था विशिष्टवत् ।
विशेष्यस्य विशिष्टस्याप्यभेदेऽपि विवादिनि ।
विशेषोऽस्त्येव नात्रापि ह्यनवस्था कदाचन ।
ज्ञातुरन्योऽहमिति तु कस्याप्यनुभवो नहि ।
अस्मि ज्ञातैवाहमिति भेदस्तस्मात् तयोः कुतः ।
पश्यामीति विशेषोऽयमिदानीं मे समुत्थितः ।
इत्याद्यनुभवाद् भेदो न विशेष्यविशिष्टयोः ।
विशेषणं तु द्विविधं विशेषाख्यं तथेतरत् ।
विशेषमणयेद् येन प्रोक्तं तेन विशेषणम् ।
विशेषोऽपि विशेषस्य स्वस्यैव गमको भवेत्’ इत्यादि तत्त्वविवेके ।
सङ्ग्रहः पञ्चकारणानां सङ्क्षेपः । अधिष्ठानस्य करणेऽन्तर्भावात् । दैवशब्दोदितेश्वरस्यैव मुख्यकर्तृत्वात् स्वतन्त्रकर्त्रोः कर्तृशब्देनैवोक्तेः त्रैविध्यम् । कर्म चेष्टा ।। १८ ।।
प्रकाशिका
‘‘ज्ञानं ज्ञेयं परिज्ञाता त्रिविधाकर्मचोदना’’ इत्येतदुपपादयति ।। सम्प्रेरयितुरित्यादिना ।।
जगत्प्रेरणे सधर्मत्वेनेशाभिन्नत्वादीशवत् ज्ञानज्ञेयपरिज्ञातृरूपा धर्मिस्वरूपेण नित्या विशेषरूपेण जायते । धर्मिस्वरूपेण नित्यत्वं विशेषरूपेण जायमानत्वं विशेषस्य न विशेषान्तरं तस्य स्वनिर्वाहकत्वेनाविरोधात् ।। अत एव विशेषस्य विशेषान्तरापेक्षया नानावस्था भवेत् ।। यथा एकमेव वस्तु विशेष्यं विशिष्टमिति उच्यते ।। न हि विशेष्यविशिष्टयोः भेदः केन चिदङ्गीकृतो धर्मधर्मिभेदवत् ।। विशेष्यविशिष्टयोरभेदेऽपि विशेषोस्त्येवानर्थान्तरभूतः ।। अन्यथा तच्छद्वयोः पर्यायत्वं स्यात् ।। एवं विशेषस्य विशेषोऽपि नार्थान्तरभूत इत्यर्थः विशेष्यविशिष्टयोरत्यन्ताभेदं साधयति ।। ज्ञातुरित्यादिना ।। येन विशेषेण विशेषितं वस्तु विशिष्टमित्युच्यते ।। विशेषणमित्यादिना ।। इतरत् दण्डादिकं दण्डीत्यादौ ज्ञातव्यम् ।। अणयेद्गमयेत् इत्यर्थः ।।
‘‘पञ्चैतानि महाबाहो कारणानि निबोध मे’’ इत्युपक्रम्य
‘‘अधिष्टानं तथा कर्ता कारणं च पृथग्विधम् ।।
विविधा च पृथक् चेष्टा दैवं चैवात्र पञ्चमम्’’
इत्युक्तानां पञ्चानां कारणानां त्रिषु कारणेषु अन्तर्भाव्यं यत् प्रतिपादकं वचः ‘‘करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः’’ इति तद्व्याचष्टे ।। सङ्ग्रह इत्यादिना ।। १८ ।।
न्यायदीपिका
दैवं चैवेतीश्वरस्य कर्मसु प्रेरकत्वमुक्तम् । तत्प्रेरणास्वरूपं निरूप्यते ।। ज्ञानमिति ।। तत्स्मृत्योपपादयति ।। संप्रेरयितुरिति ।। प्रेरणाया भगवद्धर्मत्वात्कथं ज्ञातृत्वादीत्यत आह ।। सेति ।। प्रेरणाया ज्ञानादिरूपभगवत्स्वरूपत्वेन तथात्वमुपपद्यत इत्यर्थः । प्रेरणायास्तदा तदा जायमानायाः कथं भगवत्स्वरूपत्वमित्यत आह ।। स्वरूपेणेति ।। न प्रेरणा तदा तदोत्पद्यते । किं तु भगवत्स्वरूपतया सर्वदा विद्यमानैव व्यक्तिरूपेण जायते ।। अतो भगवत्स्वरूपत्वमुपपन्नमिति भावः ।
योऽयं प्रेरणाया व्यक्तिरूपो विशेषः सोऽपि नानित्य इति शङ्कनीयम् । तस्य नित्यप्रेरणारूपत्वेन सदा विद्यमानस्यैव विशेषतो जायमानत्वादित्याह ।। विशेषोऽपीति ।। एवं विशेषस्यापि विशेषस्तस्यापीत्यनवस्था स्यादित्यत आह ।। स्वनिर्वाहकतेति ।। भवेदनवस्था यदि प्रेरणायाः भिन्नो विशेषस्तस्यापि तथेत्यङ्गीक्रियते । न चैवम् । सा प्रेरणा स्वरूपमेव स्वात्मानं विशेषतया विशेषितया निर्वहति । स विशेषोऽप्येवमित्यङ्गीकारादित्यर्थः । एतद्दृष्टान्तेनोपपादयति ।। विशिष्टवदिति ।। तदेव विवृणोति ।। विशेष्यस्येति ।। अस्ति तावद्विशेष्यविशिष्टयोरविप्रतिपन्नोऽभेदः । धर्मधर्मिभेदवादिनापि तस्याङ्गीकृतत्वात् । न च विशेष्यविशिष्टयोर्निर्विशेषाभेदः । तथासति ज्ञातृदेवदत्तशब्दयोः पर्यायतापातात् । न च विशेषोऽपि निर्विशेषः । तथात्वे विशेषविशेषिशब्दयोः पर्यायत्वापत्तेः । नचैवं विशेष्यस्यापि विशेषाङ्गीकारेणानवस्थाऽस्ति । विशेष्यवस्तुनस्तद्विशेषाणां च स्वनिर्वाहकत्वात् । एवमीश्वरप्रेरणाया विशेषस्तस्यापि विशेष इत्यङ्गीकारे न कश्चिद्दोष इति भावः । भवेदेतद्विशेष्यविशिष्टयोरभेदसिद्धौ, स एव कुत इत्यत आह ।। ज्ञातुरिति ।। विशेष्यविशिष्टयोर्भेदानुभवाभावादभेदानुभवसद्भावाच्च न भेद इति भावः । विशेष्यविशिष्टयोरभेदेऽनुभवान्तरं च दर्शयति ।। पश्यामीति ।। म इति विशेष्यमुच्यते । विशेषः समुत्थित इति तस्यैव विशिष्टत्वम् ।
विशेषणयुक्तं विशिष्टम् । तद्विशेषणं निरूपयति ।। विशेषणमिति ।। विशेषाख्यं यथा वस्तुनोऽस्तित्वं फलस्य, नीलत्वमिति । इतरदत्यन्तभिन्नं दण्डादि । तदुभयमपि विशेषणमिति कस्मादुच्यत इत्यत आह ।। विशेषमिति ।। अणयेत् गमयेत् । ननु दण्डादिविशेषणं वस्तुनि दण्डित्वादिविशेषं गमयति । विशेषः किं गमयेदित्यत आह ।। विशेष इति ।। पूर्वोक्तकर्मकारणानि सङ्क्षिप्यात्रोच्यन्ते ।। करणमिति ।। तत्र कर्मसङ्ग्रहकथनं क्वोपयुज्यत इत्यतस्तदनूद्य मध्यमपदलोपिसमासोऽयमिति भावेन व्याचष्टे ।। सङ्ग्रह इति ।। कथमधिष्ठानादिपञ्चकस्य करणादित्रित्वमित्यत आह ।। अधिष्ठानस्येति ।। ननु पूर्वानुक्तकर्मणोऽत्र कथनात्कथं तेषामयं संक्षेपः स्यादित्यत आह ।। कर्मेति ।। १८ ।।
किरणावली
कथं ज्ञातृत्वादीति ।। ज्ञातृत्वं ज्ञेयत्वं च कथमित्यर्थः । अन्येत्वादिपदस्य ज्ञानत्वं कथमित्यर्थस्तस्य धर्मत्वाविरोधात्प्रेरणाया इति । एतेन यद्यस्मात्पे्ररणा स एव ज्ञात्रादिरूपः प्रेरको भगवानेव । तस्माज्ज्ञतृज्ञानज्ञेयरूपेति योजनोक्ताभवति । कथं प्रेरणाया ज्ञात्रादि रूपभगवत्स्वरूपत्वमिति चेन्न । प्रेरणाहि प्रेरकनिष्ठो व्यापारः स च प्रेरकेण भगवतात्यन्ताभिन्नः । विशिष्टस्य धर्मत्वेन ज्ञातृशब्दित ज्ञानविशिष्टज्ञान ज्ञेयानां भगवदत्यन्ताभिन्नत्वाद्यद्येनात्यन्ताभिन्नमिति न्यायेन प्रेरणाया अपि ज्ञातृज्ञेयज्ञानरूपत्वमिति भावः ।। किं तु भगवत्स्वरूपतयेति ।। भगवत्स्वरूपशक्तयात्मनेत्यर्थः । एतेन जायमानत्वात्कथं भगवत्स्वरूपत्वमिति शङ्कायां भगवत्स्वरूपतया सर्वदा विद्यमानेत्यस्यानुत्तरत्वमितिरस्तम् । शक्तिरूपेण विद्यमानेत्यर्थाङ्गीकारात् । नित्येत्यस्यध्वंसरहितेत्येतावन्मात्रार्थत्व प्रतीतेर्नित्यदा वर्तमानेत्यर्थमभिप्रेत्योक्तं सर्वदा विद्यमानेति ।। व्यक्तिरूपेण जायत इति ।। व्यक्तिरूपजनिं प्राप्नोति । नत्वसतः सत्तासम्बन्धरूपां जनिं प्राप्नोतीत्यर्थः ।। नानित्य इति शङ्कनीयमिति ।। नित्यत्वे कादाचित्कत्व व्यवहारानुपपत्तेरनित्यत्वमिति न शङ्कनीयमित्यर्थः ।। तस्येति ।। प्रेरणाया यो व्यक्तिलक्षण सोविशेषस्तस्य नित्यप्रेरणारूपत्वेन हेतुना सदाविद्यमानस्यैव विशेषतो व्यक्तिरूपविशेषेण जायमानत्वादसतस्सत्तासम्बन्धरूपजन्यभावेपि व्यक्तिरूपविशेषाङ्गीकारादित्याहेत्यर्थः । विशेषोपि व्यक्तिलक्षणो विशेषोपि स्वरूपेण नित्यप्रेरणारूपेण नित्यश्च नित्य एव सन्विशेषतो व्यक्तिरूपविशेषेण स्याज्जायत इति मूलार्थः ।।
एवं विशेषस्यापीति ।। व्यक्तेरपि व्यक्तिस्तस्या अपीत्यनवस्थेत्यर्थः ।। भवेदिति ।। यदि प्रेरणातो भिन्नो व्यक्तिलक्षणो विशेषस्तस्य व्यक्तिलक्षणविशेषस्यापि तथान्यो व्यक्तिलक्षणोविशेष इत्यङ्गीक्रियते । तर्हि भवेदनवस्था । नचैवम् । प्रेरणाया व्यक्तिलक्षणो विशेषो भिन्नः । नापि व्यक्तिलक्षणविशेषादन्यस्तद्व्यक्तिरूपो विशेष इत्यर्थः । तर्हि प्रेरणाया व्यक्तिरिति व्यक्तेर्व्यक्तिरिति कथं विशेषविशेषिभावः कथं वा प्रेरणा व्यक्तिरित्याद्यपर्यायव्यवहार इत्यत आह ।। सेति ।। सा प्रेरणा व्यक्तिरूपधर्मतया निर्वहति स विशेषोभेदकार्यनिर्वाहको विशेषोप्येवं स्वनिर्वाहकोन्यथाविशेषविशेषिशब्दरूपपर्यायत्वाद्यापत्तेरित्यर्थः । विशेष्यस्य विशिष्टस्याप्यभेदेप्यविवादिनीति मूल आद्योऽपि शब्दो विशेष्यस्य विशिष्टस्यचेति यथा श्रुतसमुच्चये । अभेदेसत्यपीत्यनौचित्य द्योतने वा । द्वितीयस्तु विशेषोप्यस्तीत्यन्वीयत । सच भेद व्यवहारोप्यस्तीत्यनुक्तसमुच्चये । विशेषशब्दश्च विशिष्टविशेष्ययोर्भेदव्यवहारघटकस्य विशेषविशेषिणोर्भेदव्यवहार घटकस्य विशेषस्य वाचकः । तथाच विशिष्टस्य विशेष्यस्याविवादिनि भेदोऽभेदोवेति विवादरहिते परसंमतेऽभेदेसत्यपि भेदव्यवहारोप्यस्त्येव तद्घटको विशेषोप्यस्ति । विशेषविशेषिणोरभेदेसत्यपि विशेषोविशेषीति भेदव्यवहार घटकोविशेषोप्यस्ति । नचैवं भेद मूलिकाया अनवस्थाया अवकाशोस्ति । अभेदस्याविप्रतिपन्नत्वात् । नाप्यभेदाभेदिनोरभेद इत्यभेद मूलिकानवस्था विशिष्टविशेष्याभेदस्यैवा भेदाभेद्य भेदत्वेनान्ताभेदाभावात् । नापि विशेषपरंपरया नवस्थास्वनिर्वाहकत्वादत एव नानवस्थाकथंचनेत्युक्तमिति मूलार्थमभिप्रेत्याह ।। अस्तितावदित्यादिना ।। धर्मधर्मिभेदवादिनापीति ।। विशेषणविशेष्यतत्सम्बन्धातिरिक्तं विशिष्टं नास्तीति वदता विशेष्याभेदस्याङ्गीकृतत्वादिति भावः । नात्रास्तिह्यनवस्थेत्यत्र हि शब्दस्य स्वनिर्वाहकता यस्मादिति प्रकृतहेत्वर्थकत्वमिति भावेनाह ।। विशेष्यवस्तुन इति ।। तद्वान्विशेष्यश्च यतो नभिन्नौ सदा स्वनिर्वाहकशक्तियुक्ताविति महाभारततात्पर्यनिर्णये । विशेष्यस्य तद्विशेषणानां च स्वनिर्वाहकीया स्वनिर्वाहस्वरूपाविशेष शक्तिस्तद्युक्ततयाऽनवस्थाभावस्योपपादितत्वात् । तद्रीत्या विशेषवस्तुनोविशेष्याख्यस्य धर्मिणस्तद्विशेषाणां ज्ञानी बली कर्तेत्येव माद्यनेकविशिष्टाकाररूपाणां धर्माणां च स्वनिष्ठस्वनिर्वाहक शक्तिलक्षणविशेष बलेन स्वनिर्वाहकत्वात् । तथा तत्तद्विशेषाणां तत्तद्विशेष्यविशेषणभावघटकानां स्वनिर्वाहकत्वशक्तिरूपविशेषाणां शक्तयन्तरमन्तरेण केवलं स्वमहिम्नैव विशेषविशेषिभावनिर्वाहकत्वादिति भावः । विशिष्टाकाराद्यनेक धर्मरूपेण स्थितं विशेष्यं स्वनिर्वाहकत्वशक्तियोगेन नाना व्यवहारनिर्वाहकम् । तन्निष्ठा स्वनिर्वाहकत्वरूपा विशेषशक्तिस्तु शक्तयन्तरमन्तरेण स्वयमेव विशेषविशेषिभावेन स्वनिर्वाहकेति नानवस्थेति मथितोर्थः । तथा चानुव्याख्याने ।
द्रव्यमेव ततोऽनन्तविशेषात्मतया सदा ।
नानाव्यवहृतेर्हेतुरनन्तत्वं विशेषत इति ।
यदर्थं दृष्टान्तो विवृतस्तदिदानीमाह ।। विशेष्यविशिष्टयोरिति ।। प्राक् ज्ञातृत्वाहंतृत्वयोः सामानाधिकरण्यानुभवः अभेदेप्रमाणतया दर्शितः । इदानीमनुभवान्तरमित्यर्थः ।। विशेषः समुत्थित इति तस्यैव विशिष्टत्वमिति ।। उच्यत इति वर्तते । तस्यैव विशेष्यस्यैवमे पश्यामीति दर्शनविशिष्टाकारलक्षणावस्थाविशेषः इदानीमभवदित्याद्यनुभवादित्यनेन विशेष्यस्यैव विशिष्टत्वमनुभवान्तरबलेनोच्यत इत्यर्थः । विशेषनिरूपणस्य सङ्गतिमाह ।। विशेषणयुक्तमिति ।। यद्विशेषण युक्तं विशेष्यं विशिष्टं जायते तद्विशेषणं निरूपयतीत्यर्थः । तेन विशेष्यगताकारविशेषस्य विशेषणयुक्तत्वाभावात्कथमेतदिति निरस्तम् ।। तद्विशेषणमिति ।। विशेष्येणात्यन्ताभिन्नं भिन्नाभिन्नं च विशिष्टं दर्शयितुमिति शेषः ।। विशेषाख्यमिति ।। विशेष्याभिन्नमित्यर्थः । विशेष्याभिन्नमपि द्विविधम् । अत्यन्ताभिन्नं भिन्नाभिन्नं चेति । तत्राद्यमुदाहरति ।। वस्तुनोस्तित्वमिति ।। द्वितीयमुदाहरति ।। फलस्य नीलत्वमिति ।। अणयेद्गमयेदिति ।। अणगताविति धातोरिति भावः । तर्हि विशेषणमिति स्यादिति चेन्न निरुक्तत्वेनषकारात्परस्यणकारस्य लोपाङ्गीकारात् ।। दण्डादीति ।। दण्डादिविशेषणं वस्तुनि विशेष्ये दण्डित्वादि विशेषं दण्डवतो विशेष्यस्य यो भावो धर्मो विशिष्टाकारस्तद्रूपं विशेषमित्यर्थः । तेन दण्डित्वं दण्ड एवेति कथं गम्यगमक भाव इति निरस्तम् । यद्यप्यस्तित्वादि विशेषणमिति वक्तव्यम् । तथाप्यभिन्ने गम्यगमक भावो विशेषकृतः । भिन्नेतु मुख्य एवेति द्योतनाय दण्डादीत्युक्तम् ।। विशेष इति ।। दण्डादिगम्यो विशिष्टाकार लक्षणो विशेष इत्यर्थः । तस्यापि विशेषधर्मत्वेन विशेषणत्वात् । विशेषोपीति मूलस्य विशिष्टाकारलक्षणो विशेषो विशेष्यधर्मतया तद्विशेषभूतोपि न विशिष्टान्तरस्य गमकः । अनवस्थाप्रसङ्गेन विशिष्टविशिष्टस्य धर्मान्तरस्याङ्गीकर्तुमशक्यत्वादतो विशेषशक्तयास्वनिर्वाहकतया स्ववैशिष्ट्यं स्वयमेव गमयेदित्यर्थः । यथास्तित्वं वस्त्वभिन्नमपि वस्तु नि विशेष्ये स्वात्यन्ताभिन्नमेव विशिष्टाकारं विशेषशक्तया गमयेत्तथा दण्डीत्यादिविशिष्टाकारोपि विशेष्याभिन्नत्वाद्विशेष शक्तया स्ववैशिष्ट्यमेव गमयेदिति कानुपपत्तिरिति भावः ।।
नन्वधिष्ठानमिति श्लोके कर्मकारणानामुक्तत्वात्किमिदं पुनरुच्यत इत्यतोऽवतारयति ।। कर्मकारणानीति ।। तदनूद्येति ।। तदेकदेशं सङ्ग्रह इत्येतदनूद्येत्यर्थः । भाष्ये कर्मसङ्ग्रहः कर्मकारणसङ्ग्रह इति विशिष्टपदानुवादेन लक्षणाबीजसम्बन्धप्रदर्शनेन व्याख्यानात् । प्रमेयदीपिकायां कर्मशब्देन तत्कारणानि लक्ष्यन्त इत्यर्थ इत्युक्तत्वेपीह सङ्ग्रहः पञ्चकारणानां संक्षेप इति लक्षणाबीजसम्बन्धाप्रदर्शनात्कारणलाभं प्रकारान्तरेण मध्यमपदलोपी समासोयमिति भावेनेति द्रष्टव्यम् । अधिष्ठानस्य करणेन्तर्भावादिति मूलस्य कांस्यपात्र्या भुङ्क्त इत्यादि वदधिष्ठानस्य करणत्वेन विवक्षितत्वात् । विवक्षातःकारकाणि भवन्तीति वचनादिति प्रमेय दीपिकोक्तो भावो बोध्यः ।। १८ ।।
भावदीपः
तस्याङ्गीकृतत्वादिति ।। विशेष्यविशिष्टयोरभेदस्याङ्गीकृतत्वादित्यर्थः ।। ज्ञाता देवदत्त इति ।। ज्ञातृत्वविशिष्ट इत्यर्थः । देवदत्त इति विशेष्योक्तिः । दार्ष्टान्तिके योजयति ।। एवमीश्वरेति ।। अण पण गताविति धातोर्निरुक्तात्वादेव न दीर्घत्वं, किन्तु पररूपत्वमिति भावः ।। १८ ।।
भावप्रकाशः
सर्वदा विद्यमानैवेति । अनेन नित्येति पदमनादिनित्येति व्याख्यातं भवति । अभेदस्याविप्रतिपन्नत्वमेव दर्शयति । धर्मधर्मिभेदवादिनापीति ।। तस्याङ्गीकृतत्वादिति । विशेषणविशेष्यतत्सम्बन्धातिरिक्तं विशिष्टं नास्तीति वदता विशेष्याभेदस्याङ्गीकृतत्वादित्यर्थः ।। अभेदानुभवसद्भावाच्चेति ।। अनेनास्मिज्ञातैवाहमितीत्येतदुक्ततात्पर्यं भवति ।। विशेषणनिरूपणस्य सङ्गतिं दर्शयति ।। विशेषणयुक्तं विशिष्टमिति ।। विशेष्येणात्यन्ताभिन्नं विशेषणमुदाहृत्यभिन्ना भिन्नमुदाहरति ।। फलस्य नीलत्वमिति ।। विशेषणं कस्मादुच्यत इति । विशेषणमिति कस्मादुच्यत इत्यर्थः ।। १८ ।।
वाक्यविवेक
गीतायां ज्ञानं ज्ञेयं परिज्ञातेति । ईश्वरस्य कर्मणि चोदना प्रेरणा प्रकारत्रयोपेता ।। मोक्षसाधनत्वात् ज्ञेयत्वोपेता । ज्ञानरूपत्वात् ज्ञानत्वोपेता । ईश्वरस्वरूपत्वात् ज्ञातृत्वोपेतेत्यर्थः । धर्मधर्मिभेदवादिनाऽपीति । विशिष्टं तु विशेषणविशेष्यतत्सम्बन्ध एवेत्यभिधानादिति भावः ।। ततः किमित्यत आह । एवमिति ।। १८ ।।