गीता
गीता
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ।। ६७ ।।
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ।। ६८ ।।
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ।। ६९ ।।
तात्पर्यम्
‘देवेभ्योऽन्ये यदा ब्रह्म पश्यन्त्यन्यन्न दृश्यते ।
निशायामिव सुव्यक्तं यथान्यैर्ब्रह्म नेयते ।
आश्चर्यवस्तुदृग्यद्वद्व्यक्तमन्यन्न पश्यति ।
ऐकाग््य्राद्वा सुखोद्रोकाद्देवाः सूर्यवदेव च ।
प्रायशः सर्ववेत्तारस्तत्रापि ह्युत्तरोत्तरम्’ इति ब्रह्मतर्के ।। ६९ ।।
प्रकाशिका
प्रजहातीत्यादि व्याचष्टे ।। देवेभ्य इति ।। यथाऽन्यैरित्यज्ञानिभिरित्यर्थः ।।६९।।
न्यायदीपिका
पिण्डीकृत्योक्तलक्षणमुच्यते ।। या निशोति ।। तत्र सर्वपे्ररकाणां देवानामपि ज्ञानित्वाज्ज्ञानिनां परमात्मेतरादर्शने लोकयात्रोच्छेदः स्यादित्यतस्तद्वाक्यं देवेतरज्ञानिविषयतया स्मृत्यैव व्याचष्टे ।। देवेभ्य इति ।। यथान्यैरित्यनेन पूर्वार्धतात्पर्यमुक्तं भवति । यथाज्ञैर्ब्रह्म न ज्ञायत इत्यर्थः ।। सूर्यवदिति ।। सूर्यो यथा स्वतेजसा सर्वं प्रकाशयत्येवं स्वज्ञानेन सर्वं विषयीकुर्वन्तीत्यर्थः
।। ६९ ।।
किरणावली
पिण्डीकृत्योक्तलक्षणमिति ।। प्रजहातीति श्लोकचतुष्टयोक्तं लक्षणं पिण्डीकृत्योच्यत इत्यर्थः ।। यानिशेतीति ।। या निशेत्यादिश्लोकत्रयेणेत्यर्थः ।। तद्वाक्यमिति ।। या निशेत्यादिश्लोकमित्यर्थः । श्लोकद्वयं तु संप्रज्ञातासंप्रज्ञातसमाधिस्थसाधारणज्ञानिमात्रविषयमिति भावः । यस्यां जाग्रतीति द्वितीयार्धतात्पर्यमुच्यते देवेभ्य इति ।। यस्यां परमात्मेतरलक्षणायां निशायां भूतानि जाग्रति । सा मुनेर्मननशीलानां पश्यतो ब्रह्म पश्यतां देवातिरिक्तानां निशा निशायां सुप्तानामप्रतीयमानविषयकल्पा तज्ज्ञानगोचरानेति गीतोत्तरार्धार्थमभिप्रेत्य देवेभ्योऽन्ये यदा सुव्यक्तं ब्रह्म पश्यन्ति तदा निशायामिव निशायां सुप्तानामिव अन्यत् देहगेहादिविषयजातं व्यक्तं न दृश्यत इत्युक्तम् । ननु भगवतः सर्वकर्तृत्वज्ञाने सति तत्कार्यतया सर्वस्य ज्ञानावश्यंभावात् सर्वकर्तृत्वज्ञानार्थं च सर्वस्य ज्ञातव्यत्वात् कथं देहगेहादेर्भगवदन्यस्याज्ञानमित्यत उक्तं सुव्यक्तमिति । अन्यानन्तर्भावेनेत्यर्थः। उक्तविधया जगज्ज्ञानं ब्रह्मज्ञानान्तर्भूतमिति भावः ।।
यथान्यैरित्यनेनेति ।। सुखोद्रेकादित्यन्तेनेति भावः । देवेभ्योऽन्य इति प्रकृतानामेव यथान्यैरित्यन्यपदेनोक्तौ ब्रह्म नेयत इति विरुद्धं स्यादित्यतो व्याचष्टे ।। यथाज्ञैरिति ।। ब्रह्म पश्यन्तीति ज्ञानिनां प्रकृतत्वादन्यैरित्यस्य तदन्यैरज्ञैरित्यर्थ इति भावः । ततश्चैवं मूलार्थः । यथाज्ञैर्मूढैर्वेदमार्गेष्वभि निवेशविधुरैर्ब्रह्म नेयते न दृश्यते मूढा ब्रह्म नपश्यन्तीति यावत् । तद्वदिन्द्रियसंयमयुक्तो ज्ञानी व्यक्तमन्यन्न पश्यति । कुतः । ब्रह्मण्येव चित्तैकाग्य्रात् सुखोद्रेकाद्वा सुखोद्रेकाच्च ब्रह्मणः प्रत्यक्षदर्शनेन परमानन्दमग्नत्वाच्चेति यावत् । चित्तैकाग्य्रसुखोद्रेकाभ्यामन्यज्ञानाभावे दृष्टान्तमाह आश्चर्यवस्तुदृग्यद्वदिति ।। यथाश्चर्यं वस्तु पश्यंस्तत्रैव चित्तैकाग्य्रात्तद्दर्शनेन जनितसुखोद्रेकाच्चान्यन्न पश्यति किं तु तदेव पश्यति । यथा प्रकृते संयम्य अन्यन्न पश्यति किंत्वाश्चर्यं ब्रह्मैव पश्यतीति । एतेन या सर्वभूतानां निशा परमेश्वरस्वरूपलक्षणा यस्यां सुप्तानीवाज्ञत्वान्न किञ्चिज्जानन्ति तस्यामिन्द्रियसंयमयुक्तो ज्ञानी जागर्ति । भेरीताडनादावपि तदेकाग्रचित्ततया परमानन्दमग्नत्वात्तदेव जानातीत्यर्थ उक्तो भवति । ननु सूर्यस्यापि देवत्वेन दार्ष्टान्तिकत्वात् सर्ववेत्तृत्वदृष्टान्तीकरणमयुक्तमित्यतो व्याचष्टे ।। सूर्य इति ।। स्वज्ञानेन प्रतिभया । ऋषीन्राज्ञस्तथारभ्य प्रतिभाभ्यधिका क्रमात् । यावद्ब्रह्मा ब्रह्मणस्तु प्रायो नाप्रतिभासितमिति वचनादिति ज्ञेयम् ।। ६९ ।।
भावदीपः
उक्तलक्षणमिति ।। प्रजहातीति श्लोकचतुष्टये विक्षिप्योक्तं लक्षणं पिण्डीकृत्योच्यत इत्यर्थः ।। ६९ ।।
भावप्रकाशः
लोकयात्रोच्छेद इति । लोकप्रवृत्युच्छेद इत्यर्थः ।। यथाऽन्यैरित्यत्र देवेभ्योऽन्ये इत्युक्तत्वात् दैवेरिति प्रतीतिनिरासार्थमाह । यथाज्ञैरिति । न ज्ञायत इति । इणो गत्यर्थत्वात् गत्यर्थानां च ज्ञानार्थत्वादिति भावः ।। ननु सूर्यस्यापि सर्ववेतृत्वासिद्धेर्दृष्टान्तीकरणमयुक्तमित्यत आह । सूर्योयथेति ।। ६९ ।।
वाक्यविवेकः
मूले देवेभ्योऽन्य इति । देवेभ्यः तत्वाभिमानिदेवेभ्यः अन्ये यदा ब्रह्म पश्यन्ति । अपरोक्ष्येण जानन्ति तदा तैः निशायां घटपटादिकमिव अन्यत् सुव्यक्तं न दृश्यते । अनेन यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेरित्यर्थः– पश्यतो भगवदपरोक्षज्ञानिनः मुनेः तत्त्वाभिमानिदेवातिरिक्ताधिकारिणः सा जगद्विषयेन्द्रियव्यापृतिः निशा निशेव निशा । विस्पष्टज्ञानजनिका न भवति । यस्यां जगद्द्विषयेन्द्रियव्यापृतौ सत्यां भूतानि जाग्रति विस्पष्टज्ञानविशिष्टानि भवन्तीति व्याख्यातो भवति । मूले यथाऽन्यैरिति । अन्यैः पामरैः ब्रह्म यथा न ज्ञायते तथा ज्ञानिभिः विषया न ज्ञायन्त इत्यर्थः ।। अनेन सा निशा पश्यतो मुनेरित्येतत् एकाग्रचित्ततया भगवंतं पश्यतो मुनेः इन्द्रियव्यापृतिः निशा सर्वथाविषयज्ञानजनिका न भवतीति व्याख्यातम् । या निशा सर्वभूतानामिति पूर्वार्धोऽपि तात्पर्यतो व्याख्यातः । ततश्चैवं पूर्वार्धार्थः । सर्वभूतानां या भगवद्विचारमनोव्यापृतिः सा निशेव निशा ज्ञानजनिका न भवति । तस्यां व्यापृतौ सत्यां संयमी इन्द्रियनिग्रहवान् जागर्त्ति । ज्ञानवान् भवतीति सा निशा पश्यतो मुनेरित्येतदसंभावितमित्याशङ्कापरिहाराय दृष्टान्तमाह । मूले आश्चर्यवस्त्विति । आश्चर्यवस्तुदृक् पुमान् एकाग्य्रात् सुखाद्रेकाद्वा अन्यद्वस्त्वंतरं व्यक्तं न पश्यतीत्येतत् यथा नासम्भावितं तथा पूर्वोक्तमपीति भावः । एवं गीतार्थं समाप्य विवक्षितमर्थमाह मूले देवाः सूर्यवदेवत्विति ।। ६९ ।।